________________ विभाग-३ 143. निःप्रमाणकमुदाहरणमाश्रित्यायस्कान्तस्य प्राप्यकारित्वं व्यवस्थापयत्कथं न स्वेच्छाकारि ! तदागमात्सिद्धमिति चेन्न, तस्य प्रत्यागमे सर्वत्र दृष्टेष्टाविरुद्धेन प्रमाणतामात्मसात्कुर्वता प्रतिहतत्वात् स्वयं युक्ताननुगृहीतस्य प्रमाणत्वानभ्युपगमाच्च न ततस्तत्सिद्धिः यतोऽयस्कान्तस्य प्राप्यकारित्वसिद्धौ तेनानैकान्तिकत्वं भौतिकत्वस्य न स्यात् / / तथैव कारणत्वस्य मनसा व्यभिचारिता / मन्त्रेण च भुजङ्गाधुच्चाटकादिकरेण वा // 48 // शब्दात्मनो हि मन्त्रस्य प्राप्तिर्न भुजगादिना / मनागावर्तमानस्य दूरस्थेन प्रतीयते // 89 // प्राप्यकारि चक्षुः करणत्वाद्दात्रादिवदित्यत्राप्यंशतः सर्वान् प्रत्युद्योतकरेणोक्तो हेतुरनैकान्तिको मनसा मन्त्रेण च सर्वाद्याकृष्टिकारिणा प्रत्येयः पक्षश्च प्रमाणाबाधितः पूर्ववत् / / तदेवं चक्षुषः प्राप्यकारित्वे नास्ति साधनं / मनसश्च ततस्ताभ्यां व्यञ्जनावग्रहः कुतः // 10 // ___यत्र करणत्वमपि चक्षुषि प्राप्यकारित्वसाधनाय नालं च तत्रान्यत्साधनं दूरोत्सारितमेवेति मनोवदप्राप्यकारि चक्षुः सिद्धम् / ततश्च न चक्षुर्मनोभ्यां व्यञ्जनस्यावग्रहः इति व्यवतिष्ठते / / // न्यायकुमुदचन्द्रः // नहि चक्षुरूपयोः सन्निकर्षोऽस्ति अप्राप्यकारित्वाच्चक्षुषः। . ननु चास्याऽप्राप्यकारित्वप्रतिज्ञा प्रमाणविरुद्धाः; तथाहि-प्राप्यकारि चक्षुः बाह्येन्द्रियत्वात्, यद् बाह्येन्द्रियं तत्प्राप्यकारि प्रतिपन्नम् यथा त्वगादि, बाह्येन्द्रियञ्च चक्षुः, तस्मात् प्राप्यकारि / नचायमसिद्धो हेतुः; पक्षे प्रवर्तमानत्वात् / नापि विरुद्धः; सपक्षे सत्त्वात् / नाप्यनैकान्तिकः; सपक्षवद् विपक्षेऽप्यप्रवृत्तेः / नच मनसा व्यभिचारः; बाह्यविशेषणात् / 'इन्द्रियत्वात्' इत्युच्यमाने हि मनसा व्यभिचारः स्यात्, तत्परिहारार्थं बाह्यविशेषणम् / नापि कालात्ययापदिष्टः; प्रत्यक्षागमाभ्यामबाधितविषयत्वात् / नापि प्रकरणसमः; प्रकरणचिन्ताप्रवर्तकस्य हेत्वन्तरस्यासम्भवात् / अथ मतम् अधिष्ठानदेश एव चक्षुः नान्यत्र, अधिष्ठानपिधाने विषयाग्राहकत्वात्; यद् यद् अधिष्ठानपिधाने विषयाग्राहकं तत्तत् अधिष्ठानदेश एव यथा घ्राणादि, अधिष्ठानपिधाने विषयाग्राहकञ्च चक्षुः, तस्मात् तद्देश एव, अतः कथमस्य प्राप्यकारित्वं स्यादिति ? तदपि न सङ्गतम्; यतः 'अधिष्ठानदेश एव' इति कोऽर्थः ? किम् अधिष्ठानदेशे सत्, उत अधिष्ठानादव्यतिरिक्तम्, ततोऽन्यत्र असदिति वा ? तत्राद्यपक्षोऽयुक्तः; अधिष्ठानदेशे सत्त्वस्य प्राप्यकारित्वाविरोधात्, नह्यधिष्ठानदेशे सतः स्पर्शनादेः प्राप्यकारित्वविरोधो दृष्टः / द्वितीयविकल्पोऽप्यनुपपन्नः; अधिष्ठानादव्यतिरिक्तत्वस्य क्वचिदपि इन्द्रियेऽप्रसिद्धेः, न खलु स्पर्शनादेरपि अधिष्ठानादव्यतिरिक्तत्वम् उभयोः प्रसिद्धम् / तृतीयपक्षोप्य-सङ्गतः; अधिष्ठानादन्यत्रापि तत्सत्त्वसम्भवात् / अधिष्ठानं हि गोलकरूपम्,