________________ 142 . सन्दर्भग्रन्थाः ततो न नयनाप्राप्यकारित्वं बाध्यते केनचित् घ्राणादिप्राप्यकारित्ववदिति न तदागमस्य बाधोस्ति येन बोधको न स्यात् पक्षस्य / तदेवंप्रत्यक्षेणानुमानेन स्वागमेन च बाधितः / पक्षः प्राप्तिपरिच्छेदकारि चक्षुरिति स्थितः // 5 // कालात्ययापदिष्टश्च हेतुर्बाह्येन्द्रियत्वतः / इत्यप्राप्तार्थकारित्वे घ्राणादेरिव वाञ्छिते // 76 // न हि पक्षस्यैवं प्रमाणबाधायां हेतुः प्रवर्तमानः साध्यसाधनायालमतीतकालत्वादन्यथातिप्रसङ्गात् // एतेन भौतिकत्वादि साधनं तत्र वारितं / प्रत्येतव्यं प्रमाणेन पक्षबाधस्य निर्णयात् // 77 // प्राप्यकारि चक्षुभौतिकत्वात्करणत्वात् घ्राणादिवदित्यत्र न केवलं पक्षः प्रत्यक्षादिबाधितः / कालात्ययापदिष्टश्चेद्धेतुः पूर्ववदुक्तः / किं तीनैकान्तिकश्चेति कथयन्नाह;अयस्कान्तादिना लोहमप्राप्याकर्षता स्वयं / अनैकान्तिकता हेतोभौतिकार्थस्य बाध्यते // 8 // कायान्तर्गतलोहस्य बहिर्देशस्य वक्ष्यते / नायस्कान्तादिना प्राप्तिस्तत्करैर्वोक्तकर्मणि // 79 // यथा कस्तूरिकाद्रव्ये वियुक्तेपि पटादितः / तत्र सौगन्ध्यतः प्राप्तिस्तद्गन्धाणुभिरिष्यते // 80 // अयस्कान्ताणुभिः कैश्चित्तथा लोहेपि सेष्यतां / विभक्तेपि ततस्तत्राकृष्टयादेर्दृष्टितस्तदा // 81 // इत्ययुक्तमयस्कान्तमप्राप्तं प्रति दर्शनात् / लोहाकृष्टः परिप्राप्तास्तदंशास्तु न जातुचित् // 82 // यथा कस्तूरिकाद्यर्थं गन्धादिपरमाणवः / स्वाधिष्ठानाभिमुख्येन ता नयन्ति पटादिगाः // 83 // तथायस्कान्तपाषाणं सूक्ष्मभागाश्च लोहगाः / इत्यायातमितोप्राप्तायस्कान्तो लोहकर्मकृत् // 84 // ननु यथा हरीतकी प्राप्य मलमङ्गाद्विरेचयति तथायस्कान्तपरमाणवः शरीरान्तर्गतं शल्यं प्राप्याकर्षन्ति. शरीरादिति मन्यमानं प्रत्याह;प्राप्ता हरीतकी शक्ता कर्तुं मलविरेचनं / मलं न पुनरानेतुं हरीतक्यन्तरं प्रति // 85 // ___ तर्हि यथाननान्निर्गतो वायुः पद्मनीलादिगः प्राप्य पानीयमाननं प्रत्याकर्षति तथायस्कान्तान्तरगाः परमाणवो बहिरवस्थितायस्कान्तावयविनो निर्गताः प्राप्य लोहं तं प्रत्येवाकर्षन्तीति शकमानं प्रत्याह;आकर्षणप्रयत्नेन विनाननकृतानिलः / पद्मनालादिगोम्भांसि नाकर्षति मुखं प्रति // 86 // तहि पुरुषप्रयत्ननिरपेक्षा यथादित्यरश्मयः प्राप्य भूगतं तोयं तमेव प्रति नयन्ति तथायस्कान्तपरमाणवोपीत्यभिमन्यमानं प्रत्याह;सूर्यांशवो नयन्त्यम्भः प्राप्य तत्सूर्यमण्डलं / चित्रभानुत्विषो नास्तमिति स्वेच्छोपकल्पितम् // 47 //