________________ विभाग-३ न स्यान्मेचकविज्ञानं नानावयवगोचरम् / तद्देशिविषयं चास्य मनोहीनैर्दुगंशुभिः // 58 // शैलचन्द्रमसोश्चापि प्रत्यासन्नदविष्ठयोः / सह ज्ञानेन युज्येत प्रसिद्धमपि सद्धियाम् // 59 // कालेन यावता शैलं प्रयान्ति नयनांशवः / केचिच्चन्द्रमसं चान्ये तावतैवेति युज्यते // 60 // तयोश्च क्रमतो ज्ञानं यदि स्यात्ते मनोद्वयं / नान्यथैकस्य मनसस्तदधिष्ठित्यसम्भवात् // 61 // विकीर्णानेकनेत्रांशुराशेरप्राप्यकारिणः / मनसोधिष्ठितौ कायस्यैकदेशेपि तिष्ठतः // 62 // सहाक्षपञ्चकस्यैतत्कि नाधिष्ठायकं मतं / यतो न क्रमतोभीष्टं रूपादिज्ञानपञ्चकम् // 63 // तथा च युगपज्ज्ञानानुत्पत्तेरप्रसिद्धितः / साध्ये मनसि लिङ्गत्वं न स्यादिति मनः कुतः // 64 // मनोनधिष्ठिताश्चक्षुरश्मयो यदि कुर्वते / स्वार्थज्ञानं तदप्येतद्दूषणं दुरतिक्रमम् // 65 // . ततोक्षिरश्मयो भित्त्वा काचादीनर्थभासिनः / तेषामभावतो भावेप्युक्तदोषानुषङ्गतः // 66 // काचाद्यन्तरितार्थानां ग्रहणं चक्षुषः स्थितम् / अप्राप्यकारितालिङ्गं परपक्षस्य बाधकम् // 67 // एवं पक्षस्याध्यक्षबाधामनुमानबाधां च प्ररूप्यागमबाधां च दर्शयन्नाह;स्पृष्टं शब्दं शृणोत्यक्षमस्पृष्टं रूपमीक्ष्यते / स्पृष्टं बद्धं च जानाति स्पर्श गंधं रसं तथा // 68 // : इत्यागमश्च तस्यास्ति बाधको बाधवर्जितः / चक्षुषोप्राप्यकारित्वसाधनः शुद्धधीमतः // 69 // ___ ननु नयनाप्राप्यकारित्वसाधनस्यागमस्य बाधारहितत्वमसिद्धमिति पराकूतमुपदर्श्य दूषयन्नाह;मनोबुद्धिप्रकृष्टार्थग्राहकत्वानुषञ्जनं / नेत्रस्याप्राप्यकारित्वे बाधकं येन गीयते // 70 // तस्य प्राप्तानुगन्धादिग्रहणस्य प्रसञ्जनम् / घ्राणादेः प्राप्यकारित्वे बाधकं केन बाध्यते // 71 // सूक्ष्मे महति च प्राप्तेरविशेषेपि योग्यता / गृहीतुं चेन्महद्दव्यं दृश्यं तस्य न चापरम् // 72 // तहप्राप्तेरभेदेपि चक्षुषः शक्तिरीदृशी / यथा किञ्चिद्धि दूरार्थमविदिक्कं प्रपश्यति // 73 // ननु च घ्राणादींद्रियं प्राप्यकारि प्राप्तमपि तत्राणुगन्धादियोगिनः परिच्छिनत्ति नास्मदादेस्तादृशादृष्टविशेषस्याभावात् महत्त्वाद्युपेतद्रव्यं गन्धादि तु परिच्छिनत्ति तादृगदृष्टविशेषस्य सद्भावादित्यदृष्टवैचित्र्यात्तद्विज्ञानभावाभाववैचित्र्यं मन्यमानान् प्रत्याह;समं चादृष्टवैचित्र्यं ज्ञानवैचित्र्यकारणं / स्याद्वादिनां परेषां चेत्यलं वादेन तत्र नः // 74 // स्याद्वादिनामपि हि चक्षुरप्राप्यकारि केषाञ्चिदतिशयज्ञानभृतामृद्धिमतामस्मदाद्यगोचरं विप्रकृष्टस्वविषयपरिच्छेदकं तादृशं तदावरणक्षयोपशमविशेषसद्भावात् / अस्मदादीनां तु यथाप्रतीति स्वार्थप्रकाशकं स्वानुरूपतदावरणक्षयोपशमादिति सममदृष्टवैचित्र्यं ज्ञानवैचित्र्यनिबन्धनमुभयेषां /