________________ 140 सन्दर्भग्रन्थाः लदसालोचनस्यार्थप्रकाशित्वाविनिश्चयात् / कथञ्चिदपि दीपादिनिरपेक्षस्य प्रदीपवत् // 43 // अन्धकारावभासोस्ति विनालोकेन चेन्न वै / प्रसिद्धस्तेन्धकारोस्ति ज्ञानाभावात्परोर्थकृत् // 44 // परेष्ट्यास्तीति चेत्तस्याः सिद्धं चक्षुरतैजसं / प्रमाणत्वेन्यथा नान्धकारः सिद्ध्येत्ततस्तव 45 अतैजसाञ्जनापेक्षि चक्षू स्त्यं व्यनक्ति यं / नातः समानजातीयसहकारि नियम्यते // 46 // ___ तैजसमेवाञ्जनादि रूपप्रकाशने नेत्रस्य सहकारि न पुनः पार्थिवमेव तत्रानुद्भूतस्य तेजोद्रव्यभावादित्ययुक्तं प्रमाणाभावात् / तैजसमञ्जनादि रूपावभासने नयनसहकारित्वाद्दीपादिवत्यप्यसम्यक्, चन्द्रोद्योतादिनानैकान्तात् / तस्यापि पक्षीकरणान्न व्यभिचार इति चेन्न, हेतोः कालात्ययापदिष्टत्वप्रसङ्गात् / पक्षस्य प्रत्यक्षानुमानागमबाधितत्वात् तस्य प्रत्यक्षेणातैजसत्वेनानुभवात् / न तैजसश्चन्द्रोद्योतो नयानानन्दहेतुत्वात्सलिलादिवदित्यनुमानात् / मूलोष्णवती प्रभा तेज इत्यागमाच्चाब्धिजलकल्लोलैश्चन्द्रकान्तप्रतिहताः सूर्यांशवः प्रद्योतन्ते शिशिराश्च भवन्ति / तत एव नयनानन्दहेतव इत्यागमस्तु न प्रमाण, युक्त्याननुगृहीतत्वात् तथाविधागमान्तरवत् / तदननुगृहीतस्यापि प्रमाणत्वेऽतिप्रसङ्गात् / पुरुषाद्वैतप्रतिपादकागमस्य प्रमाणत्वप्रसङ्गात् सकलयौगमतविरोधात् / किञ्चकिमुष्णस्पर्शविज्ञानं तैजसेऽक्षिण न जायते / तस्यानुद्भूततायां तु रूपानुद्भूतता कुतः // 47 // तेजोद्रव्यं ह्यनुद्भूतस्पर्शमुद्भूतस्त्प्रभृत् / दृष्टं यथा प्रदीपस्य प्रभाभारः समन्ततः // 48 // तथानुद्भूतत्यं तदुद्भूतस्पर्शमीक्षितम् / यथोष्णोदकसंयुक्तं परमुद्भूततद्वयम् // 49 // नानुभूतद्वयं तेजो दृष्टं चक्षुर्यतस्तथा / अदृष्टवशतस्तच्चेत्सर्वमक्षं तथा न किम् // 50 // सुवर्णघटवत्तत्स्यादित्यसिद्धं निदर्शनं / प्रमाणबलतस्तस्य तैजसत्वाप्रसिद्धितः // 51 // नोष्णवीर्यत्वतस्तस्य तैजसत्वं प्रसिद्धयति / व्यभिचारान्मरीचादिद्रव्येण तैजसेन वः // 52 // ततो नासिद्धता हेतोः सिद्धसाध्यस्य बुध्यते / चक्षुषत्वादितोध्वानेनित्यत्वस्य यथैव हि 53 / ____ तदेवं तैजसत्वादित्यस्य हेतोरसिद्धत्वान्न चक्षुषि रश्मिवत्त्वसिद्धिनिबन्धनत्वं यतस्तस्य रश्मयोर्थप्रकाशनशक्तयः स्युः सतामपि तेषां बृहत्तरगिरिपरिच्छेदनमयुक्तं मनसोधिष्ठाने सर्वथेत्याह;सन्तोपि रश्मयो नेत्रे मनसाधिष्ठिता यदि / विज्ञानहेतवोऽर्थेषु प्राप्तेष्वेवेति मन्यते // 54 // मनसोऽणुत्वतश्चक्षुर्मयूखेष्वनधिष्ठितेः / भिन्नदेशेषु भूयस्त्वपरमाणुवदेकशः // 55 // महीयसो महीध्रस्य परिच्छित्तिर्न युज्यते / क्रमेणाधिष्ठितौ तस्य तदंशेष्वेव संविदः // 56 // निरंशोऽवयवी शैलो महीयानपि रोचिषा / नयनेन परिच्छेद्यो मनसाधिष्ठितेन चेत् // 57 //