________________ विभाग-३ 139 पुनः स्फटिकादौ दर्शनस्पर्शनयोः सान्तरयोः प्रसञ्जनस्य दुर्निवारत्वात् तदर्थोनुमीयेतेति चेन्न, तेषां काचादेर्न भ्रान्तत्वमर्थोपरक्तस्य विज्ञानस्यानुद्गतिर्नः (?) // प्राप्तस्यान्तरितार्थेन विभिन्नस्य परीक्षणात् / नार्थस्य दर्शनं सिद्ध्येदनुमा च तथैव वा / 27 / नन्वत्यन्तपरोक्षत्वे सत्यार्थस्यानुमागतेः / विज्ञानस्योपरक्तत्वे तेन विज्ञायते कथम् // 28 // तया शश्वददृश्येन वेधसा निर्मितं जगत् / कथं निश्चीयते कार्यविशेषाच्चेत्परैरपि // 29 // यथैवात्रास्मदादिविनिर्मितेतरच्छरीरादिविशिष्टं कार्यमुपलभ्य तस्येश्वरेणात्यन्तपरोक्षेण निर्मितत्व. मनुमीयते भवता तथा परैरपि विज्ञानं नीलाद्यर्थाकारविशिष्टं कार्यमभिसंवेद्य नीलाद्यर्थोनुमीयत इति समं पश्यामः / यथा च काचाद्यन्तरितार्थे प्रत्यक्षता व्यवहारो विभ्रमवशादेवं बहिरर्थेपीति कुतो मतान्तरं निराक्रियते // प्रत्यक्षेणाप्रबाधेन बहिरर्थस्य दर्शनम् / ज्ञानस्यान्तः प्रसिद्धं चेन्नान्यथा परिकल्प्यते // 30 // काचाद्यन्तरितार्थेपि समानमिदमुत्तरं / काचादेभिन्नदेशस्य तस्याबाधं विनिश्चयात् // 31 // यथा मुखं निरीक्षन्ते दर्पणे प्रतिबिम्बितम् / स्वदेहे संस्पृशन्तीति बाधा सिद्धात्र धीमताम् // 32 // तथा न स्फटिकाम्भोनुपटलावृत्तवस्तुनि / स्वदेशादितया तस्य तदा पश्चाच्च दर्शनात् / 33 / ___ न च नयनरश्मयः प्रसिद्धाः प्रमाणसामर्थ्यादेः स्फटिकादीन् विभज्य घटादीन् प्रकाशयन्तीत्याह;न चेक्षन्तेस्मदादीनां स्फुरन्तश्चक्षुरंशवः / सान्धकारनिशीथिन्यामन्यान्वभिभवादपि // 34 // यद्यनुद्भूतरूपास्ते शक्यन्ते नेक्षितुं जनैः / तदा प्रमान्तरं वाच्यं तत्सद्भावावबोधकम् / 35 / रश्मिवल्लोचनं सर्वं तैजसत्वात् प्रदीपवत् / इति सिद्धं न नेत्रस्य ज्योतिष्कत्वं प्रसाधयेत् / 36 / तैजसं नयनं सत्सु सन्निकृष्टरसादिषु / त्यस्य व्यञ्जकत्वाच्चेत्प्रदीपादिवदीर्यते // 37 // हेतोदिननिशानाथमयूखैर्व्यभिचारिता / तैजसं निहिते चन्द्रकान्तरं तत्क्षितौ भवाः // 38 // तेजोनुसूत्रिता ज्ञेया गा मूलोष्णवती प्रभा / नान्या मकरतादीनां पार्थिवत्वप्रसिद्धितः।३९। चक्षुषस्तैजसत्वे साध्ये रूपस्यैव व्यञ्जकत्वादित्यस्य हेतोश्चन्द्राद्युद्योतेन मूलोष्णत्वरहितेन पार्थिवत्वेन व्यभिचारादगमकत्वात्तत्तैजसत्वस्यासिद्धेर्न ततो रश्मिवच्चक्षुषः सिद्ध्येत् / / त्पाभिव्यञ्जने चाक्ष्णां नाशे क्वापेक्षणं भवेत् / तैजसत्वात्प्रदीपादेरिव सर्वस्य देहिनः / 40 / यथैकस्य प्रदीपस्य सुस्पष्टार्थप्रकाशने / मन्दत्वादसमर्थस्य द्वितीयादेरपेक्षणम् // 41 // तथाक्ष्णोर्न विरुद्ध्येत सूर्यालोकाद्यपेक्षणं / स्वकार्यो हि स्वजातीयं सहकारि प्रतीक्ष्यते // 42 //