________________ 138 / सन्दर्भग्रन्थाः निष्ठुरस्थिरस्वभावान् स्फटिकादीन् विभज्य नयनरश्मयः प्रकाशयन्ति न पुनर्मुदुनाशिस्वभावांस्तूलराश्यादीनिति किमत्यद्भुतमाश्रित्य हेतोरसिद्धतामुद्भावयन्तः कथं स्वस्थाः // सामर्थ्यं पारदीयस्य यथाऽयस्यानुभेदने / नालांबूभाजनोद्भेदे मनागपि समीक्ष्यते // 18 // काचादिभेदने शक्तिस्तथा नयनरोचिषाम् / सम्भाव्या तूलराश्यादिभिदायां नेति केचन / 19 / तदप्रातीतिकं सोयं काचादिरिति निश्चयात् / विनाशव्यवहारस्य तत्राभावाच्च कस्यचित् // 20 // समानसन्निवेशस्य तस्योत्पत्तेरनाशिताम् / जनो मन्येत निक्षूनकेशादेर्वेति चेन्मतम् // 21 // न क्वचित्प्रत्यभिज्ञानमेकत्वस्य प्रसाधकम् / सिद्ध्येदिति क्षणध्वंसि जगदापातमञ्जसा / 22 / आत्माद्येकत्वसिद्धिश्चेत्प्रत्यभिज्ञानतो दृढात् / दायत्तत्र कुतो बाधाभावाच्चेत्प्रकृते समम् // 23 // न हि स्फटिकादौ प्रत्यभिज्ञानस्यैकत्वपरामशिनः किञ्चिद्बाधकमस्ति पुरुषादिवत् / तद्भेदेनाभ्युपगमे तु बाधकमस्तीत्याह;काचाद्यन्तरितानर्थान् पश्यतश्च निरन्तरम् / तत्र भेदस्य निष्ठानान्नाभिन्नस्य करग्रहः // 24 // सततं पश्यतो हि काचशिलादीन्नयनरश्मयो निरन्तरम् भिदन्तीति प्रतिष्ठायां कथमभिन्नस्वभावानां तथा तस्य हस्तेन ग्रहणं तच्चेदस्ति तद्भेदाभ्युपगमं बाधिष्यत इति किं नश्चिन्तया // विनाशानन्तरोत्पत्तौ पुनर्नाशे पुनर्भवेत् / कुतो निरन्तरम् तेन छादितार्थस्य दर्शनम् // 25 // स्पर्शनेन च निर्भेदशरीरस्य महोङ्गिनाम् / सान्तरेणानुभूयन्ते तस्य स्पर्शनदर्शने // 26 // स्फटिकादेराशूत्पादविनाशाभ्यामभेदग्रहणं निरन्तरं पश्यतः सन्ततं न तद्भेदाभ्युपगमस्य बाधकमित्ययुक्तमाश्वेव स्पर्शनदर्शनयोस्तत्र प्रसङ्गात् / स्पर्शनास्पर्शनयोश्च / न च तत्र तदा कस्यचिदुपयुक्तस्यादर्शनास्पर्शनाभ्यां व्यवहितदर्शनस्पर्शने समनुभूयेते तद्विनाशस्य पूर्वोत्तरोत्पादाभ्यामाशु भाविभ्यां तिरोहितत्वान्न तत्रादर्शनमस्पर्शनं वा स्यादिति चेत् / नन्वेवं तदुत्पादस्य पूर्वोत्तरविनाशाभ्यामाशु भाविभ्यामेव विरोधान्नादर्शनस्पर्शने मा भूतां तदुत्पादयोः स्वमध्यगतविनाशतिरोधाने सामर्थ्य भावस्वभावत्वेन बलीयस्त्वात् तद्विनाशयोः स्वमध्यगतोत्पादतिरोधानेऽभावस्वभावत्वेन दुर्बलत्वादिति चेन्न, भावाभावस्वभावयोः समानबलत्वात् / तयोरन्यतरबलीयस्त्वे युगपद्भावाभावात्मकवस्तुप्रतीतिविरोधात् / न हि वस्तुनो भाव एव कदाचित्प्रतीयते स्वरूपादिचतुष्टयेनेव पररूपादिचतुष्टयेनापि भावप्रतीतिशक्तेः / न चानाद्यनन्तसर्वात्मकं च वस्तु प्रतिभाति यतस्तथाभ्युपगमः श्रेयान् / नाप्यभाव एव वस्तुनोनुभूयते पररूपादिचतुष्टयेनेव स्वरूपादिचतुष्टयेनाप्यभावप्रतिपत्तिप्रसङ्गात् / न च सर्वथाप्यसत्प्रतिभाति यतस्तदभ्युपगमोपि कस्यचित्प्रतितिष्ठेत् / प्ररूपितप्रायं च भावाभावस्वभाववस्तु प्रतिभासनमिति कृतं प्रपञ्चेन / सर्वथोत्पादे विनाशे च पुनः