________________ 136 - सन्दर्भग्रन्थाः // तत्त्वार्थ श्लोक वार्तिकः // न चक्षुरनिन्द्रियाभ्याम् // 19 // किमवग्रहेहादीनां सर्वेषां प्रतिषेधार्थमिदमाहोस्विद् व्यंजनावग्रहस्यैवेति शंकायामिदमाचष्टेः;नेत्याद्याह निषेधार्थमनिष्टस्य प्रसङ्गिणः / चक्षुर्मनोनिमित्तस्य व्यंजनावग्रहस्य तत् // 1 // व्यञ्जनावग्रहो नैव चक्षुषानिन्द्रियेण च / अप्राप्यकारिणा तेन स्पष्टावग्रहहेतुना // 2 // प्राप्यकारीन्द्रियश्चार्थे प्राप्तिभेदाद्धि कुत्रचित् / तद्योग्यतां विशेषां वा स्पष्टावग्रहकारणम् // 3 // यथा नवशरावादौ द्विवाद्यास्तोयबिन्दवः / अव्यक्तामाईतां क्षिप्ताः कुर्वन्ति प्राप्यकारिणः // 4 // पौनःपुन्येन विक्षिप्ता व्यक्तां तामेव कुर्वते / तत्प्राप्तिभेदतस्तद्वदिन्द्रियाण्यप्यवग्रहम् // 5 // अप्राप्तिकारिणी चक्षुर्मनसी कुरुतः पुनः / व्यक्तामर्थपरिच्छित्तिमप्राप्तेरविशेषतः // 6 // यथायस्कान्तपाषाणः शल्याकृष्टिं स्वशक्तितः / करोत्यप्राप्तिकारीति व्यक्तिमेव शरीरतः 7 / __ न हि यथा स्वार्थयोः स्पृष्टिलक्षणाप्राप्तिरन्योपचयस्पृष्टितारतम्याद्भिद्यते तथा तयोः प्राप्तिर्देशव्यवधानलक्षणापि कात्स्येनास्पृष्टेरविशेषात् तद्व्यवधायकदेशास्पदादप्राप्तिरपि भिद्यते एवेति चेत् किमयं पर्युदासप्रतिषेधः प्रसज्यप्रतिषेधो वा ! प्रथमपक्षेर्थाप्राप्तिरन्या न वार्थः पुनरेवं "नजिव युक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः" इति वचनात् सा च नावग्रहादे: कारणमिति तद्भेदेपि कुतस्तद्भेद: / द्वितीयपक्षे तु प्राप्तेरभावोऽप्राप्तिः सा च न भिद्यते भावस्य स्वयं सर्वत्राभेदात् / कथमवग्रहाद्युत्पत्तौ सा कारणमिति चेत् तस्यां तत्प्रादुर्भावानुभवात् निमित्तमात्रत्वोपपत्तेः प्राप्तिवत् प्रधानं तु कारणं स्वावरणक्षयोपशम एवेति न किञ्चन विरुद्धमुत्पश्यामः // अत्र परस्य चक्षुषि प्राप्यकारित्वसाधनमनूद्य दूषयन्नाह;चक्षुः प्राप्तपरिच्छेदकारणं रूपव्यक्तितः / स्पर्शनादिवदित्येके तन्न पक्षस्य बाधनात् // 8 // बाह्यं चक्षुर्यदा तावत् कृष्णतारादि दृश्यताम् / प्राप्तं प्रत्यक्षतो बाधात् तस्यार्थाप्राप्तिवेदिनः // 9 // शक्तिरूपमदृश्यं चेदनुमानेन बाधनम् / आगमेन सुनिर्णीतासंभवबाधकेन च // 10 // * व्यक्तिरूपस्य चक्षुषः प्राप्यकारित्वे साध्ये प्रत्यक्षेण बाध्यते पक्षोनुष्णोग्निरित्यादिवत् / प्रत्यक्षतः साध्यविपर्ययसिद्धेः शक्तिरूपस्य तस्य तथात्वसाधनेनुमानेन बाध्यते तत एव सुनिर्णीतासंभवद्बाधकेनागमेन च / किं तदनुमानं पक्षस्य बाधकमित्याह;तत्राप्राप्तिपरिच्छेदि चक्षुः स्पष्टानवग्रहात् / अन्यथा तदसंभूतेोणादेरिव सर्वथा // 11 // केवलव्यतिरेकानुमानमन्यथानुपपत्त्येकलक्षणयोगादुपपन्नं पक्षस्य बाधकमिति भावः / अत्र हेतोरसिद्धतामाशंक्य परिहरनाह;