________________ विभाग-३ 135 भावस्वभावनिग्रहासामर्थ्यात् / नक्तञ्चररश्मिदर्शनाद् रश्मिवच्चक्षुरिति चेत् न; अतैजसोऽपि पुद्गलद्रव्यस्य भासुरत्वपरिणामोपपत्तेरिति / किञ्च, गतिमद्वैधात् / इह यद् गतिमद्भवति न तत् सन्निकृष्टविप्रकृष्टाववभिन्नकालं प्राप्नोति, न च तथा चक्षुः / चक्षुर्हि शाखाचन्द्रमसावभिन्नकालमुपलभते, यावता कालेन शाखां प्राप्नोति तावता चन्द्रमसमिति स्पष्टं गतिमद्वैधर्म्यम्, तस्मान्न गतिमच्चक्षुरिति / यदि च प्राप्यकारि चक्षुः स्यात्; तमिस्रायां रात्रौ दूरेऽग्नौ प्रज्वलति तत्समीपगतद्रव्योपलम्भनं भवति कुतो नान्तरालगतद्रव्यालोचनम् ? प्रकाशाभावादिति चेत्, न; तैजसत्वादग्न्यादिवत् सहायान्तरानपेक्षत्वप्रसङ्गात् / किञ्च, यदि प्राप्यकारि चक्षुः स्यात् सान्तराधिकग्रहणं न प्राप्नोति / नहीन्द्रियान्तरविषये गन्धादौ सान्तरग्रहणं दृष्टं नाप्यधिकग्रहणम् / अथ मतंबहिरधिष्ठानावृत्तिरिन्द्रियस्य अत उपपन्नं तद्विषयस्य सान्तराधिकग्रहणमिति; तदयुक्तम्; यस्मान्न बहिरधिष्ठानादिन्द्रियम्, तत्र चिकित्सादिदर्शनात्, अन्यथा अधिष्ठानपिधानेऽपि ग्रहणप्रसङ्गः / मनश्चाबहिर्भावात् / मनसाऽधिष्ठितं हि इन्द्रियं स्वविषये व्याप्रियते, न च मनो बहिरधिष्ठानादस्ति, तदभावादग्रहणप्रसङ्गः / अनुवृत्तौ च संभवाभावात् विप्रकीर्ण चक्षुरश्मिसमूहं कथमणुमनोऽधिष्ठास्यति ? // तत्त्वार्थसर्वार्थसिद्धिटीका // अथ सर्वेन्द्रियेषु व्यञ्जनाऽवग्रहे प्रसक्ते इन्द्रियद्वयनिषेधार्थं सूत्रमिदमुच्यते न चक्षुरनिन्द्रियाभ्याम् // 19 // चक्षुश्चानिन्द्रियं च चक्षुरनिन्द्रिये, ताभ्यां चक्षुरनिन्द्रियाभ्याम् / चक्षुषानिन्द्रियेण च मनसा व्यञ्जनावग्रहो न भवति / यतः कारणादप्राप्तमर्थमविविक्तं युक्तं सन्निकर्षविषयेऽवस्थितं बाह्यप्रकाशाभिव्यक्तं चक्षुरुपलभते / मनश्चप्राप्तमुपलभते इति कारणात् चक्षुर्मनसोर्व्यञ्जनावग्रहो न भवति / चक्षुषोऽप्राप्यकारित्वं कथमवसीयते ? आगमायुक्तितश्च / कोऽसावागमः ? "पुटुं सुणोदि सई अपुटुं पुणवि पस्सदे रूवं / गंधं रसं च फासं बद्धं पुटुं वियाणाहि // " कासौ युक्तिः ? चक्षुरप्राप्यकारि / कुतः ? स्पृष्टानवग्रहात् / यत् चक्षुषा स्पृष्टं तन्नावगृह्णातीत्यर्थः। यदि चक्षुः प्राप्यकारि स्यात् तहि स्पृष्टमञ्जनं त्वगिन्द्रियवत् तदवगृह्णीयात् / न चावगृह्णाति / चक्षुः स्पृष्टं वस्तु नेक्षत इत्यर्थः / ततः कारणात् मनोवत् चक्षुरप्राप्यकारीति वेदितव्यम् /