________________ 134 सन्दर्भग्रन्थाः // तत्त्वार्थराजवार्तिकः // सर्वेन्द्रियाणामविशेषेण व्यञ्जनावग्रहप्रसङ्गे यत्रासंभवस्तदर्थं प्रतिषेधमाहन चक्षुरनिन्द्रियाभ्याम् // 19 // चक्षुषा अनिन्द्रियेण च व्यञ्जनावग्रहो न भवति / कुतः ? व्यञ्जनावग्रहाभावः चक्षुर्मनसोरप्राप्यकारित्वात् / / यतोऽप्राप्तमर्थमविदिक्कं युक्तसन्निकर्षविषयेऽवस्थितं बाह्यप्रकाशाभिव्यक्तमुपलभते चक्षुः, मनश्चाप्राप्तम्, ततो नानयोर्व्यञ्जनावग्रहोऽस्ति। इच्छामात्रमिति चेत्, न; सामर्थ्यात् / 2 / स्यादेतत्इच्छामात्रमिदम्-'अप्राप्तार्थावग्राहि चक्षुः' इति; तन्नः किं कारणम् ? सामर्थ्यात् / कथं सामर्थ्यम् ? आगमतो युक्तितश्च / आगमतस्तावत् "पुढे सुणेदि सई अपुढे पुण पस्सदे स्वं / गंधं रसं च फासं बद्धं पुटुं विजाणादि // " इति / युक्तितोऽपि- - अप्राप्यकारि चक्षुः स्पृष्टानवग्रहात् / यदि प्राप्यकारि स्यात्, त्वगिन्द्रियवत् स्पृष्टमञ्जनं गृह्णीयात् / न च गृह्णाति / अतो मनोवदप्राप्यकारीत्यवसेयम् / अत्र केचिदाहुः प्राप्यकारि चक्षुः आवृतानवग्रहात् त्वगिन्द्रियवदिति; अत्रोच्यते-काचाभ्रपटलस्फटिकावृतार्थावग्रहे सति अव्यापकत्वादसिद्धो हेतुः, वनस्पतिचैतन्ये स्वापवत् / तथा संशयहेतुः, अप्राप्यकारिण्ययस्कान्तोपले साध्यविपक्षेऽपि दर्शनादिति / भौतिकत्वात् प्राप्यकारि चक्षुरग्निवदिति चेत्, न; अयस्कान्तेनैव प्रत्युक्तत्वात् / बाह्येन्द्रियत्वात् प्राप्यकारि चक्षुरिति चेत्; न; द्रव्येन्द्रियोपकरणस्य भावेन्द्रियस्य प्राधान्यात् / अप्राप्यकारित्वे व्यवहितातिविप्रकृष्टग्रहणप्रसङ्ग इति चेत्, न; अयस्कान्तेनैव प्रत्युक्तत्वात् / अयस्कान्तोपलमप्राप्य लोहमाकर्षदपि न व्यवहितमाकर्षति नातिविप्रकृष्टमिति संशयावस्थमेतदिति / अप्राप्यकारित्वे संशयविपर्ययाभाव इति चेत्, न; प्राप्यकारित्वेऽपि तदविशेषात् / कश्चिदाह-रश्मिवच्चक्षुः, तैजसत्वात्, तस्मात्प्राप्यकारीति, अग्निवदिति; एतच्चायुक्तम्; अनभ्युपगमात् / न वयमभ्युपगच्छामः 'तैजसं चक्षुः' इति / तेजोलक्षणमौष्ण्यमिति कृत्वा चक्षुरिन्द्रियस्थानमुष्णं स्यात् / न च तद्देशं स्पर्शनेन्द्रियम् उष्णस्पर्शोपलम्भि दृष्टमिति / इतश्च, अतैजसं चक्षुः भासुरत्वानुपलब्धेः / अदृष्टवशादनुष्णाभासुरत्वमिति चेत्, न; अदृष्टस्य गुणत्वात्, अक्रियस्य