________________ विभाग-३ सम्बन्धेन ? यदि चायमेकान्तश्चक्षुषा सम्बद्धस्यैव ग्रहणमिति; कथं तर्हि स्फटिकाद्यन्तरितार्थग्रहणम् ? तद्रश्मीनां तं प्रति गच्छतां स्फटिकाद्यवयविना प्रतिबन्धात् / तैस्तस्य नाशितत्वाददोषे तद्वयवहितार्थोपलम्भसमये स्फटिकादेरुपलम्भो न स्यात् / तस्योपरि स्थितद्रव्यस्य च पातप्रसक्तिः आधारभूतस्यावयविनो नाशात् / न हि परमाणवो दृश्याः कस्यचिदाधारा वा; अवयविकल्पनानर्थक्यप्रसङ्गात् / अवयव्यन्तरस्योत्पत्तेरदोषे तदा तद्व्यवहितार्थानुपलम्भप्रसङ्गः / न चैवम्, युगपत्तयोनिरन्तरमुपलम्भात् / अथाशु व्यूहान्तरोत्पत्तेनिरन्तरस्फटिकादिविभ्रमः, तदभावस्याप्याशु प्रवृत्तेरभावविभ्रमः किन्न स्यात् ? भावपक्षस्य बलीयस्त्वमित्युक्तम्; भावाभावयोः परस्परं स्वकार्यकरणं प्रत्यविशेषात् / कथं च समलजलान्तरितार्थस्योपलम्भो न स्यात् ? ये हि तद्रश्मयः कठिनमतितीक्ष्णलोहाऽभेद्यं स्फटिकादिकं भिन्दन्ति तेषां जलेऽतिद्रवस्वभावे काऽक्षमा ? अथ नीरेण नाशितत्वान्न ते तद्भिन्दन्ति; तर्हि स्वच्छजलव्यवस्थितस्याप्यनुपलम्भप्रसङ्गः / योग्यताङ्गीकरणे सर्वं सुस्थम् / ततः प्रोक्तदोषपरिहारमिच्छता प्रतीतिसिद्धमप्राप्यकारित्वं चक्षुषोऽभ्युपगन्तव्यम् / तथाहि-'चक्षुरप्राप्तार्थप्रकाशकमत्यासन्नार्थाप्रकाशकत्वात्, यत्पुनः प्राप्तार्थप्रकाशकं तदत्यासन्नार्थप्रकाशकं दृष्टं यथा श्रोत्रादि, अत्यासन्नार्थाप्रकाशकं च चक्षुस्तस्मादप्राप्तार्थप्रकाशकम्' इति / न चायमसिद्धो हेतुः; काचकामलाद्यत्यासन्नार्थाप्रकाशकत्वस्य चक्षुषि प्रागेव प्रसाधितत्वात् / ननु साध्याविशिष्टोयं हेतुः, 'पर्युदासप्रतिषेधे हि यदेवस्याप्राप्यकारित्वं तदेवात्यासन्नार्थाप्रकाशकत्वम्' इति / प्रसज्यप्रतिषेधस्तु जैनैर्नाभ्युपगम्यते अपसिद्धान्तप्रसङ्गात्; इत्यप्यनुपपन्नम्। प्रसङ्गसाधनत्वादेतस्य श्रोत्रादो हि प्राप्यकारित्वात्यासन्नार्थप्रकाशकत्वयोाप्यव्यापकभावसिद्धौ सत्यां परस्य व्यापकाभावेष्टयाऽत्यासन्नार्थाप्रकाशकत्वलक्षणयाऽनिष्टस्य प्राप्तकारित्वंलक्षणव्याप्याभावस्यापादानमात्रमेवानेन विधीयते, इत्युक्तदोषाप्रसङ्गः / नाप्यनैकान्तिको विरुद्धो वा; विपक्षस्यैकदेशे तत्रैव वाऽस्याऽप्रवृत्तेः। न च स्पर्शनेन प्राप्यकारिणाप्यत्यासन्नस्याभ्यन्तरशरीरावयवस्पर्शस्याप्रकाशनादनेकान्तः; अस्य तत्कारणत्वेन तदविषयत्वात् / स्वकारणव्यतिरिक्तो हि स्पर्शादिः स्पर्शनादीन्द्रियाणां विषयः, तत्रैवाभिमुख्यसम्भवेनामीषां प्रकाशनयोग्यतोपपत्तेः / कथमन्यथैकशरीरप्रदेशान्तरगतस्पर्शनेन तत्प्रदेशान्तरगतः स्पर्शः प्रकाश्येत ? न च कामलादयोऽञ्जनादयो वा चक्षुषः कारणं येन तेषामप्यनेन न्यायेन प्रकाशनं न स्यात्, स्वसामग्रीतस्तत्सन्निधानात्प्रागेवास्योत्पन्नत्वात् / नापि कालात्य. यापदिष्टोयम्; प्रत्यक्षस्य पक्षाबाधकत्वेन प्रागेव समर्थनात्, आगमस्य च तद्बाधकस्यासम्भवात् / नापि सत्प्रतिपक्षः; विपरीतार्थोपस्थापकानुमानानां प्रागेव प्रतिध्वस्तत्वादिति / तथा, 'चक्षुर्गत्वा नाऽर्थेनाभिसम्बद्ध्यते इन्द्रियत्वात्स्पर्शनादीन्द्रियवत्' इत्यनुमानाच्चास्याप्राप्यकारित्वसिद्धिः / अर्थस्य च तद्देशागमने प्रत्यक्षविरोध इति /