________________ 132 सन्दर्भग्रन्थाः किञ्च, रूपप्रकाशकत्वं तत्र ज्ञानजनकत्वम् / तच्च कारणविषयवादिनो घटदिरूपस्याप्यस्तीत्यनेन हेतोर्व्यभिचारः। 'करणत्वे सति' इति विशेषणेप्यालोकार्थसन्निकर्षेण चक्षुरूपयोः संयुक्तसमवायसम्बन्धेन चानेकान्तः / 'द्रव्यत्वे करणत्वे च सति तत्प्रकाशकत्वात्' इति विशेषणेपि चन्द्रादिनानेकान्तः / किञ्च, द्रव्यं रूपप्रकाशकं भासुररूपम्, अभासुररूपं वा ? प्रथमपक्षे उष्णोदकसंसृष्टमपि तत् तत्प्रकाशकं स्यात्। अनुद्भूतरूपत्वान्नेति चेत्, नायनरश्मीनामप्यत एव तन्माभूत् / तथा दृष्टत्वादित्यप्यनुत्तरम्; संशयात्, न हि तत्र निश्चयोस्ति ते तत्प्रकाशका न गोलकमिति / अनुद्भूतरूपस्य तेजोद्रव्यस्य दृष्टान्तेपि रूपप्रकाशकत्वाप्रतीतेः / तथाच, न चक्षू रूपप्रकाशकमनुद्भूतरूपत्वाज्जलसंयुक्तानलवत् / द्वितीयपक्षेपि उष्णोदकतेजोरूपं तत्प्रकाशकं स्यात् / न हि तत्तत्र नष्टम् / 'अनुद्भूतम्' इत्यभ्युपगमात् / उद्भूतं तत्तत्प्रकाशकमित्यभ्युपगमे रूपप्रकाशस्तन्वयव्यतिरेकानुविधायी तस्यैव कार्यो न द्रव्यस्य / न खलु देवदत्तं प्रति पश्वादीनामागमनं तद्गुणान्वयव्यतिरेकानुविधायि देवदत्तस्य कार्यम् / ततो 'द्रव्यत्वे सति' इति विशेषणासिद्धिः / किञ्च, सम्बन्धादेरिवाऽतैजसस्यापि द्रव्यरूपकरणस्य कस्यचिद्रूपज्ञानजनकत्वं किन्न स्यात्, विपक्षव्यावृत्तेः सन्दिग्धत्वादतैजसत्वे रूपज्ञानजनकत्वस्याविरोधात् ? तदेवं तैजसत्वासिद्ध तश्चक्षुषोरश्मिवत्त्वसिद्धिः। _____ अथान्यतः सिद्धानां रश्मीनां ग्राह्यार्थसम्बन्धोनेन साध्यते; न; अन्यतः कुतश्चित्तेषामसिद्धः, प्रत्यक्षादेस्तत्साधकत्वेन प्राक्प्रतिषिद्धत्वात् / तथा चेदमयुक्तम्-“धत्तूरकपुष्पवदादौ सूक्ष्माणामप्यन्ते महत्त्वं तदश्मीनां महापर्वतादिप्रकाशकत्वान्यथानुपपत्तेः।" इति; स्वरूपतोऽसिद्धानां तेषां महत्त्वादिधर्मस्य श्रद्धामात्रगम्यत्वात् / ततो रश्मिरूपचक्षुषोऽप्रसिद्धोलकस्य च प्राप्यकारित्वे * प्रत्यक्षबाधितत्वात्कस्य प्राप्तार्थप्रकाशकत्वं साध्येत ? यदि च स्पर्शनादौ प्राप्यकारित्वोपलम्भाच्चक्षुषि तत्साध्येत; तर्हि हस्तादीनां प्राप्तानामेवान्याकर्षकत्वोपलम्भादयस्कान्तादीनां तथा लोहाकर्ष-कत्वं किन्न साध्येत ? प्रमाणबाधान्यत्रापि / __ अथार्थेन चक्षुषोऽसम्बन्धे कथं तत्र ज्ञानोदयः ? क एवमाह-'तत्र ज्ञानोदयः' इति ? आत्मनि ज्ञानोदयाभ्युपगमात् / न चाप्राप्यकारित्वे चक्षुषः सकृत्सर्वार्थप्रकाशकत्वप्रसङ्गः, प्रतिनियतशक्तित्वाद्भावानाम् / 'य एव यत्र योग्यः स एव तत्करोति' इत्यनन्तरमेव वक्ष्यते / कार्यकारणयोरत्यन्तभेदेऽर्थान्तरत्वाविशेषात् 'सर्वमेकस्मात्कुतो न जायेत' इति, 'रश्मयो वा लोकान्तं कुतो न गच्छन्ति' इति चोद्ये भवतोपि योग्यतैव शरणम् / ___किञ्च, चक्षूरूपं प्रकाशयति संयुक्तसमवायसम्बन्धात्, स चास्य गन्धादावपि समान इति तमपि प्रकाशयेत् / तथा चेन्द्रियान्तरवैयर्थ्यम् / योग्यताऽभावात्तदप्रकाशने सर्वत्र सैवास्तु, किमन्तर्गडुना