________________ विभाग-३ 131 दिवा न पश्यन्ति ? यथा चात्रालोकः प्रतिबन्धकः, तथान्यत्र तमः / ततो यथानुपलम्भान्न सन्ति रात्रौ भास्करकरास्तथान्यदा नायनकरा इति / एतेन 'दूरस्थितकुड्यादिप्रतिफलितानां प्रदीपरश्मीनामन्तराले सतामप्यनुपलम्भसम्भवात् तैरनुपलम्भो व्यभिचारी; इत्यपि निरस्तम्; आदित्यरश्मीनामपि रात्रावभावासिद्धिप्रसङ्गात् / ' __ अथोच्यते-चक्षुः स्वरश्मिसम्बद्धार्थप्रकाशकम् तैजसत्वात्प्रदीपवत् / ननु किमनेन चक्षुषो रश्मयः साध्यन्ते, अन्यतः सिद्धानां तेषां ग्राह्यार्थसम्बन्धो वा ? प्रथमपक्षे पक्षस्य प्रत्यक्षबाधा, नरनारीनयनानां प्रभासुररश्मिरहितानां प्रत्यक्षतः प्रतीतेः / हेतोश्च कालात्ययापदिष्टत्वम् / अथादृश्यत्वात्तेषां न प्रत्यक्षबाधा पक्षस्य / नन्वेवं पृथिव्यादेरपि तत्सत्त्वप्रसङ्गः; तथा हिपृथिव्यादयो रश्मिवन्तः सत्त्वादिभ्यः प्रदीपवत् / यथैव हि तैजसत्वं रश्मिवत्तया व्याप्तं प्रदीपे प्रतिपन्नं तथा सत्त्वादिकमपि / अथ तेषां तत्साधने प्रत्यक्षविरोधः; सोन्यत्रापि समान इत्युक्तम् / ननु मार्जारादिचक्षुषोः प्रत्यक्षतः प्रतीयन्ते रश्मयः तत्कथं तद्विरोधः? यदि नाम तत्र प्रतीयन्तेऽन्यत्र किमायातम् ? अन्यथा हेम्नि पीतत्वप्रतीतौ पटादौ सुवर्णत्वसिद्धिप्रसङ्गः / प्रत्यक्षबाधनमुभयत्रापि। किञ्च, मार्जारादिचक्षुषोर्भासुररूपदर्शनादन्यत्रापि चक्षुषि तैजसत्वप्रसाधने गवादिलोचनयोः कृष्णत्वस्य नरनारीनिरीक्षणयोर्धावल्यस्य च प्रतीतेरविशेषेण पार्थित्वमाप्यत्वं वा साध्यताम् / कथं च प्रभासुरप्रभारहितनयनानां तैजसत्वं सिद्धं यतः सिद्धो हेतुः ? किमत एवानुमानात्, तदन्तराद्वा ? आद्यविकल्पेऽन्योन्याश्रय:सिद्धे हि तेषां रश्मिवत्त्वे तैजसत्वसिद्धिः, ततश्च तत्सिद्धिरिति / अथ 'चक्षुस्तैजसं रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपवत्' इत्यनुमानान्तरात्तत्सिद्धिः; न; अत्रापि गोलकस्य भासुररूपोष्णस्पर्शरहितस्य तैजसत्वसाधने पक्षस्य प्रत्यक्षबाधा, 'न तैजसं चक्षुः तमःप्रकाशकत्वात्, यत्पुनस्तैजसं तन्न तम:प्रकाशकं यथालोकः' इत्यनुमानबाधा च / प्रसाधयिष्यते च 'तमोवत्' इत्यत्र तमसः सत्त्वम् / प्रदीपवत्तैजसत्वे चास्यालोकापेक्षा न स्यादुष्णस्पर्शादितयोपलम्भश्च स्यात्, न चैवम्, तदपेक्षतया मनुष्यपारावतबलीवर्दादीनां धवललोहितकालरूपतयानुष्णस्पर्शस्वभावतया चास्योपलम्भात् / तन्न गोलकं चक्षुः / / ___नाप्यन्यत्; तद्ग्राहकप्रमाणाभावेनाश्रयासिद्धत्वप्रसङ्गाद्धेतोः 'रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात्' इति हेतुश्च जलाञ्जनचन्द्रमाणिक्यादिभिरनैकान्तिकः / तेषामपि पक्षीकरणे पक्षस्य प्रत्यक्षबाधा, सर्वो हेतुरव्यभिचारी च स्यात् / न च जलान्तर्गतं तेजोद्रव्यमेव रूपप्रकाशकमित्यभिधातव्यम्; सर्वत्र दृष्टहेतुवैफल्यापत्तेः / तथा च दृष्टान्तासिद्धिः, प्रदीपादावप्यन्यस्यैव तत्प्रकाश कस्य कल्पनाप्रसङ्गात् / प्रत्यक्षबाधनमुभयत्र / निराकरिष्यते च "नार्थालोको कारणम्" [परी० 2 / 6] इत्यत्रालोकस्य रूपप्रकाशकत्वम् /