________________ 130 . सन्दभग्रन्थाः ___ यदि च गोलकान्तर्भूतात्तेजोद्रव्याद्बहिर्भूता रश्मयश्चक्षुःशब्दवाच्याः पदार्थप्रकाशकाः; तर्हि गोलंकस्योन्मीलनमञ्जनादिना संस्कारश्च व्यर्थः स्यात् / अथ गोलकाद्याश्रयपिधाने तेषां विषयं प्रति गमनासम्भवात्तदर्थं तदुन्मीलनम्, घृतादिना च पादयोः संस्कारे तत्संस्कारो भवति स्वाश्रयगोलकसंस्कारे तु नितरां स्यात् इत्यस्यापि न वैयर्थ्यम्; तदापि गोलकादिलग्नस्य कामलादेः प्रकाशकत्वं स्यात् / न खलु प्रदीपकलिकाश्रयास्तद्रश्मयस्तत्कलिकावलग्नं शलाकादिकं न प्रकाशयन्तीति युक्तम्। __न चात्र चक्षुषः सम्बन्धो नास्तीत्यभिधातव्यम्; यतो व्यक्तिरूपं चक्षुस्तत्रासम्बद्धम्, शक्तिस्वभावं वा, रश्मिरूपं वा? प्रथमपक्षे प्रत्यक्षविरोधः; व्यक्तिरूपचक्षुषः काचकामलादौ सम्बन्धप्रतीतेः / द्वितीयपक्षेपि तच्छक्तिरूपं चक्षुर्व्यक्तिरूपचक्षुषो भिन्नदेशम्, अभिन्नदेशं वा ? न तावद्भिनदेशम्; तच्छक्तिरूपताव्याघातानुषङ्गानिराधारत्वप्रसङ्गाच्च / न ह्यन्यशक्तिरन्याधारा युक्ता / तद्देशद्वारेणैवार्थोपलब्धिप्रसङ्गश्च / ततोऽभिन्नदेशं चेत्; तत्तत्र सम्बद्धम्, असम्बद्धं वा? सम्बद्धं चेत्; बहिरर्थवत्स्वाश्रयं तत्सम्बद्धं चाञ्जनादिकमपि प्रकाशयेत् / असम्बद्धं चेत्कथमाधेयं नाम अतिप्रसङ्गात् ? : अथ रश्मिरूपं चक्षुः, तस्यापि काचकामलादिना सम्बन्धोस्त्येव / न खलु स्फटिकादिकूपिकामध्यगतप्रदीपादिरश्मयस्ततो निर्गच्छन्तस्तत्संयोगिना न सम्बद्धास्तत्प्रकाशका वा न भवन्तीति प्रतीतम् / तथा चाञ्जनादेः प्रत्यक्षत एव प्रसिद्धः परोपदेशस्य दर्पणादेश्च तदर्थस्योपादानमनर्थकमेव स्यात् / ___ किञ्च, यदि गोलकान्निःसृत्यार्थेनाभिसम्बद्ध्यार्थं ते प्रकाशयन्ति; तयर्थं प्रतिगच्छतां तैजसानां रूपस्पर्शविशेषवतां तेषामुपलम्भः स्यात्, न चैवम्, अतो दृश्यानामनुपलम्भात्तेषामभावः / अथादृश्यास्तेऽनुद्भूतरूपस्पर्शवत्त्वात्; न; अनुद्भूतरूपस्पर्शस्य तेजोद्रव्यस्याप्रतीतेः / जलहेम्नो सुररूपोष्णस्पर्शयोरनुद्भूतिप्रतीतिरस्तीत्यसम्यक्; उभयानुद्भूतस्तत्राप्यप्रतिपत्तेः / दृष्टानुसारेण चादृष्टार्थकल्पना, अन्यथातिप्रसङ्गात् / तथाहि-रात्रौ दिनकरकराः सन्तोपि नोपलभ्यन्तेऽनुद्भूतरूपस्पर्शत्वाच्चक्षूरश्मिवत् / प्रयोगश्च मार्जारादीनां चक्षुषा रूपदर्शनं बाह्यालोकपूर्वकम् तत्त्वाद्दिवाऽस्मदादीनां तद्दर्शनवत् / ननु मार्जारादीनां चाक्षुषं तेजोस्ति, तत एव तत्सिद्धेः किं बाह्यालोककल्पनयेत्यन्यत्रापि समानम् / ननु यथा सदृश्यते तथा तत्कल्प्यते, दिवास्मदादीनां चाक्षुषं सौर्यं च तेजो विज्ञानकारणं दृश्यते तत्तथैव कल्प्यते, रात्रौ तु चाक्षुषमेव, अतस्तदेव तत्कारणं कल्प्यते / ननु किं मनुष्येषु नायनरश्मीनां दर्शनमस्ति ? अथानुमेयास्ते; तर्हि रात्रौ सौर्यरश्मयोप्यनुमेयाः सन्तु / न च रात्रौ तत्सद्भावे नक्तञ्चराणामिव मनुष्याणामपि रूपदर्शनप्रसङ्गः; विचित्रशक्तित्त्वाद्भावानाम् / कथमन्यथोलूकादयो