________________ विभाग-३ प्रमेयकमलमार्तण्डः अथोच्यतेस्पर्शनेन्द्रियादिवच्चक्षुषोपि प्राप्यकारित्वं प्रमाणात्प्रसाध्यते / तथा हि-प्राप्तार्थप्रकाशकं . चक्षुः बाह्येन्द्रियत्वात्स्पर्शनेन्द्रियादिवत् / ननु किमिदं बाह्येन्द्रियत्वं नाम बहिराभिमुख्यम्, बहिर्देशावस्थायित्वं वा ? प्रथमपक्षे मनसानेकान्तः; तस्याप्राप्यकारित्वेपि बहिरर्थग्रहणाभिमुख्येन बाह्येन्द्रियत्वसिद्धेः / द्वितीयपक्षे त्वसिद्धो हेतुः; रश्मिरूपस्य चक्षुषो बहिर्देशावस्थायित्वस्य भवतानभ्युपगमात् / गोलकान्तर्गततेजोद्रव्याश्रया हि रश्मयस्त्वन्मते प्रसिद्धाः / गोलकरूपस्य तु चक्षुषो बहिर्देशावस्थायिनो हेतुत्वे पक्षस्य प्रत्यक्षबाधनात्कालात्ययापदिष्टत्वम् / ___न च बाह्यविशेषणेन मनो व्यवच्छेद्यम्, न हि तत् सुखादौ संयुक्तसमवायादिसम्बन्धं व्याप्तौ च सम्बन्ध-सम्बन्धमन्तरेण ज्ञानं जनयति रूपादौ नेत्रादिवत् / अथासौ सम्बन्ध एव न भवति; तर्हि नेत्रादीनां रूपादिभिरप्यसौ न स्यात्, तस्यापि सम्बन्धसम्बन्धत्वात् / तथा चेन्द्रियत्वाविशेषेपि मनोऽप्राप्तार्थप्रकाशकं तथा बाह्येन्द्रियत्वाविशेषेपि चक्षुः किं नेष्यते ? अथात्र हेतुभावात्तन्नेष्यते; अन्यत्रापि 'इन्द्रियत्वात्' इति हेतुः केन वार्येत ? ततो मनसि तत्साधने प्रमाणबाधनमन्यत्रापि समानम् / चक्षुश्चात्र धर्मित्वेनोपात्तं गोलकस्वभावम्, रश्मिरूपं वा ? तत्राद्यविकल्पे प्रत्यक्षबाधा; अर्थदेशपरिहारेण शरीरप्रदेशे एवास्योपलम्भात्, अन्यथा तद्रहितत्वेन नयनपक्ष्मप्रदेशस्योपलम्भः स्यात् / अथ रश्मिरूपं चक्षुः; तर्हि धर्मिणोऽसिद्धिः / न खलु रश्मयः प्रत्यक्षतः प्रतीयन्ते, अर्थवत्तत्र तत्स्वरूपाप्रतिभासनात्, अन्यथा विप्रतिपत्त्यभावः स्यात् / न खलु नीले नीलतयानुभूयमाने कश्चिद्विप्रतिपद्यते। किञ्च, इन्द्रियार्थसन्निकर्षजं प्रत्यक्षं भवन्मते / न चार्थदेशे विद्यमानैस्तैरपरेन्द्रियस्य सन्निकर्षोस्ति यतस्तत्र प्रत्यक्षमुत्पद्येत, अनवस्थाप्रसङ्गात् / अथानुमानात्तेषां सिद्धिः; किमत एव, अनुमानान्तराद्वा ? प्रथमपक्षेऽन्योन्याश्रयः-अनुमानोत्थाने ह्यतस्तत्सिद्धिः, अस्याश्चानुमानोत्थानमिति / अथानुमानान्तरात्तत्सिद्धिस्तदानवस्था, तत्राप्यनुमानान्तरात्तत्सिद्धिप्रसङ्गात् /