________________ 124 सन्दर्भग्रन्थाः किञ्च, चक्षुषः प्राप्यकारित्वे शाखाचन्द्रमसोर्युगपत् ग्रहणानुपपत्तिः, युगपदुभयसंयोगाभावात् / न च तिर्यग्भागावस्थितयोः शाखाचन्द्रमसोर्युगपत्संयोगापत्तिरिति वर्धमानोक्तमपि रमणीयम्, ऊर्ध्वं प्रसृतानामेव नयनरश्मीनां तयोस्तिर्यग्भागेऽवस्थानोपपत्तेरूस्थितवस्तुनोपि ग्रहणप्रसङ्गात् / न चाग्रभागावच्छेदेन संयुक्तस्यैव चक्षुषो ग्राहकत्वम्, अत एव न नयनस्थिताञ्जनादिग्रहणप्रसङ्गोऽपीति वाच्यम्, तथापि तावत्पर्यन्तं प्रसृतस्यान्तरालिकवस्त्वन्तरग्रहणप्रसङ्गात्, सन्निहितं विमुच्यासन्निहितसंयोगानुपपत्तेः / ननु सन्निकृष्टदेशविशेषं विनैवानन्यगत्या विप्रकृष्टदेशसंयोगोपपत्तिः, वेगादिविशेषादिति चेत् ?, न, अनन्यगत्या देशविशेषस्य तत्तच्चाक्षुषं प्रति हेतुत्वस्वीकारेण क्षतेरभावात्, अनन्तचक्षुःक्रियासंयोगविभागतत्कार्यकारणभावाद्यकल्पनेन लाघवाच्च / यद्वा नयनप्राप्तिनियामकं विशिष्टाभिमुख्यमेव तत्कार्यनियामकमस्तु / एतेन-"क्रमिकोभयसंयोगवता चक्षुषा शाखाचन्द्रमसोर्ग्रहणे कालसन्निकर्षात् यौगपद्याभिमान इति / तुल्यकालग्रहणं चासिद्धमेव तदभिमानस्य कालसन्निकर्षेणैवोपपत्तेः, अचिन्त्यो हि तैजसो लाघवातिशयेन वेगातिशयः यत्प्राचीनाचलचूडावलम्बिन्येव भगवति मयूखमालिनि भवनोदरेष्वालोक इत्यभिमानो लोकानाम्" इति दिनकरभटोक्तमपास्तम्, चन्द्रज्ञानानुव्यवसायसमये शाखाज्ञानस्य नष्टत्वेन 'शाखाचन्द्रौ साक्षात्करोमि' इत्यनुव्यवसायस्या- नुपपत्तेश्च / न च कमिकतदुभयजनितसंस्काराभ्यां जनितायां समूहालम्बनस्मृतावेवानुभवत्वारोपात् तथानुव्यवसाय इति वाच्यम्, तादृगारोपादिकल्पनायां महागौरवादिति / एतेन___ "यच्च चक्षुषः प्राप्यकारित्वे शाखाचन्द्रमसोस्तुल्यकालग्रहणं न स्यादित्यापादितं तत्रेष्टापत्तिरेव / तुल्यका-लाभिमानश्चाशूत्पत्त्यैव, अचिन्त्यो हि तेजसो लाघवातिशयेन वेगातिशयो यदुदयगिरि-चूडावलम्बिन्येव भगवति सवितरि भवनोदरेष्वालोक इत्यभिमानो लोकानामिति सिद्धं मनोभिन्नेन्द्रियत्वस्वस्त्पबहिरिन्द्रियत्वेन हेतुना चक्षुषः प्राप्यकारित्वम्" इति, तथा-"प्रथमतो हि चक्षुःसन्निहितं महीधरं प्राप्य प्रकाशयति पश्चाद् दूरचारिणं हरिणलक्ष्माणम् युगपत्प्रतिपत्त्यभिमानस्तु शतपत्रपत्रव्यतिभेदवदाशूत्पत्तिनिमित्तक" इति पण्डितबंशीधरशर्मणोक्तं च निराकृतम् / - यच्च-"संसर्गिद्रव्यतया निःसरदेव नायनं तेजो बाह्यालोकेनैकाङ्गतागतं युगपदेव तावदथैः संसृष्टमिन्द्रियमुत्पादितवदिति भूधरशशधरयोस्तुल्यकालग्रहणमुपपद्यत" इति केनचिदुक्तम्, ___ "चक्षुर्बाह्यालोकाभ्यामारब्धेन चक्षुषा तावदर्थसंस्पृष्टेन युगपत्तावदर्थग्रहणमिति शाखाचन्द्रमसोस्तुल्यकालग्रहणमुपपद्यत एवेति" यत् शालिकाचार्योक्तम्,