________________ विभाग-२ 125 "अधिष्ठानासम्बन्धार्थग्राहिण्याः प्रदीपप्रभाया इव चक्षुषोऽपि प्राप्यकारित्वसम्भवात्, पृथुतरग्रहणस्य च गोलकनिर्गतस्य महतश्चक्षुषः पृथ्वग्रत्वेन प्रदीपप्रभाया इवोपपत्तेः, स्वाधिकपरिमाणववव्यग्राहिणा त्वगिन्द्रियेण व्यभिचारात् तादृशनियमे मानाभावाच्च" इति यत् दिनकराभिहितं च तत्सर्वमपि प्राग् नयनस्य रश्मिवत्त्वापाकरणादपाकृतमेव / अनुपदोक्त कस्यचिन्मते शालिकाचार्यमते च पृष्ठस्थितस्य व्यवहितस्य चार्थस्योपलम्भप्रसङ्गोऽपि स्यात्, बाह्यालोकेन नायनतेजस एकीभावं गतत्वेन चक्षुर्बाह्यालोकाभ्यामारब्धस्य नयनस्य च पृष्ठभागे व्यवहिते चार्थे सत्त्वात्। ननु पृष्ठदेशस्थबाह्यालोकैश्चक्षुरुत्पादे मानाभाव इति चेत् ?, अग्रदेशस्थबाह्यालोकैरपि तदुत्पादे मानाभावः, तदनभ्युपगमेऽपि चाक्षुषोपपादनस्यानुपदमुक्तत्वादिति दिनकरेणापि शालिकाचार्यं प्रत्युत्तरितम् / अनुपदं दिनकरेण त्वगिन्द्रियोक्तो व्यभिचारोऽपि न, स्वपरिमाणमात्रं त्वगिन्द्रियं गृह्णाति, अधिकं त्वनुमिनोतीति / इदमुपलक्षणं यत्'चक्षुषोऽप्राप्यकारित्वे सर्वदा घटादिविषयकचाक्षुषापत्तिः, कालभेदेन चाक्षुषनियामकस्य चक्षुःक्रियाजन्यस्य तव नियामकत्वाभावात्' इति प्रभाकारोक्तौ विशेषानुपलब्धिनिमित्तको संशयविपर्ययावपि न स्याताम्, सामान्यवत्सन्निकृष्टानां विशेषाणामप्युपलम्भात् / अत्रात्रेयभाष्यकार आह-"यथा सामान्यस्य विशेषाणां च प्रदीपालोकेन सन्निकृष्टत्वेन दूरात्सामान्यमुपलभ्यते न विशेषा इति प्रदीपालोककारितौ संशयविपर्ययौ भवतस्तथा सामान्यस्य विशेषाणां च चक्षुषा सन्निकृष्टत्वेऽपि दूरात्सामान्यमुपलभ्यते न विशेषा इति चाक्षुषौ संशयविपर्ययौ भवतः, तत्र महाविषयत्वात्सामान्यं दूरादुपलभ्यतेऽल्पविषयत्वात्तु विशेषा न दूरादुपलभ्यन्त इति संशयविपर्ययोत्पत्तिरिति" तत् युक्तिक्षम न, उपलम्भं प्रति महाविषयत्वस्याप्रयोजकत्वात् / न च दूरात्तत्स्थसामान्योपलब्धौ भूयस्त्वं निमित्तं स्यादिति वाच्यम्, यत उपलभ्यमानादितरे विषया लेशतोऽपि तत्सामान्यज्ञप्तौ नोपयुज्यन्ते / प्रदीपदृष्टान्तोऽपि न सम्यक्त्वमञ्चति, यत उपलम्भकारणत्वेन सन्निकर्षस्योच्यमाने प्रदीपेऽपि सामान्यवद्विशेषाणामप्युपलम्भकत्वप्रसक्तिर्दुर्निवारा स्यात् / अस्माभिस्तु प्रदीप एवोपलम्भं प्रति निमित्तमुच्यते, स च स्वयोग्यतावशेन दूरात्सामान्यमेवोपलम्भयतीति युक्तम्, तद्वदेव यदि चक्षुषोऽपि योग्यता स्वीक्रियते तर्हि कृतं सन्निकर्षेणेति / ननु व्यवहिताप्रकाशकत्वेन चक्षुः योग्यमपि सन्निकर्षाभावे कथमुपलम्भयति, न ह्यप्राप्तं घटदिकं प्रदीप: प्रकटयतीति चेत् ?, न, व्यवहिताप्रकाशकत्वस्य निराकृतत्वात् / 'इदं रूपमिति ज्ञानं इन्द्रियसंयुक्तसमवायजन्यं बिम्बवृत्तिगुणविषयकलौकिकप्रत्यक्षत्वात् तादृशस्पर्शप्रत्यक्षवदि'त्यनुमानमपि रमणीयतां नाञ्चति, 'चक्षुरप्राप्यधीकृत् व्यवधिमतोऽपि प्रकाशकत्वात् यथान्तःकरणम्, व्यतिरेके पुना रसना' इत्यनेन सत्प्रतिपक्षितत्वात् / न चैतदापातरमणीयमपि वक्तुं युज्यते, हेतोः प्राक्प्रसाधितत्वात् तवाक्षेपे युक्त्यभावात् समवायस्यान्यंत्र निराकृतत्वेन