________________ विभाग-२ 123 दवलोकितं कारक एवायस्कान्तस्तस्मात्तथेति वाच्यम्, परस्पराश्रयात्, तथाहि-कारकत्वस्य हेतुत्वे सिद्धे प्राप्तार्थसमाकर्षणसिद्धिस्तत्सिद्धौ च कारकत्वस्य हेतुत्वसिद्धिरिति / अन्यच्च वायुद्वारेणाकर्षणसम्भवे तिर्यगेवाकर्षणं स्यात्, वायोस्तिर्यगमनस्वभावत्वात्, नोर्ध्वम्, यतो वात्यादौ विरुद्धदिक्क्रियावायुद्वयसंयोगनिमित्तत्वेनोर्ध्वगतेः भवद्भिः व्यवस्थापितत्वात्, न चात्रापि तथाविधा कल्पना ज्यायसी, अननुभवात्, अयस्कान्तो नायसो वायुद्वारेणाकर्षकः, तत्रावस्थितलघुतरतृणतूलाधनाकर्षणान्यथानुपपत्तेः इत्यनुमानबाधितं च / कथं च तिलकादिना परवशीभूतकान्तादीनामाकर्षणम् ?, 'तत्रापि पवनोऽस्ती'तीचेत् महासाहसिकस्यायमुल्लापः / एवं मन्त्रजापेऽपि व्यभिचारः / अत्राक्षेपपरिहारौ रत्नाकरावतारिकातः प्रदर्येते "यस्मादिदं मन्त्रजपोपसर्पत्प्रोद्दामरामाव्यभिचारदोषात् / उत्तालवेतालकरालकेलीकलङ्कितश्रीकमिवावभाति // 56 // तथाहि-कनकनिकषस्निग्धां मुग्धां मुहुर्मधुरस्मिताम्, चटुलकुटिलभूविभ्रान्ति कटाक्षपटुच्छटाम् / त्रिजगति गतां कश्चिन्मन्त्री समानयति क्षणात्तसगरमणीमारान्मन्त्रान्मनोभुवि संस्मरन् // 57 // कश्चिदत्र गदति स्म यत्पुनमन्त्रमन्त्रणगवी समानयेत् / युक्तमेव मदिरेक्षणादिकं तेन नाभिहितदूषणोदयः // 58 // मन्त्रस्य साक्षाद् घटना प्रियादिना परम्परातो यदि वा निगद्यते। साक्षान्न तावद्यदयं विहायसो ध्वनिस्वरूपस्तव सम्मतो गुणः // 59 // ततोऽस्य तेनैव समं समस्ति संसक्तिवार्ता न तु पक्ष्मलाक्ष्या / अथाक्षरालम्बनवेदनं स्यान्मन्त्रस्तथाप्यस्त्वियमात्मनैव // 60 // अथापि मन्त्रस्य निवेद्यते त्वया संसक्तिरेतत्पतिदेवतात्मना / सन्तोषपोषप्रगुणा च सा प्रिया प्रियं प्रति प्रेरयति स्वयोगिनीम् // 61 // ब्रूमहेऽत्र ननु देवतात्मना मन्त्रवर्णविसरस्य का घटा / अम्बरस्य गुण एव तत्कथं देवतात्मनि भजेत सङ्गतिम् // 62 // आश्रयद्वारतोऽप्यस्य संसर्गो नास्ति सर्वथा / व्यापकद्रव्ययोर्यस्मात् संसर्गो नामुना मतः // 63 // व्यापकेषु वदति व्यतिषङ्गं यस्तु तेन मनसा ध्वनिना वा / ऽतीतवस्तुविषयेण विमृश्य स्पष्ट एव विलसन् व्यभिचारः // 64 // " इति /