________________ 122 सन्दर्भग्रन्थाः मनसि प्राप्तार्थपरिच्छेदव्यावृत्त्या बाह्येन्द्रियत्वस्यापि व्यावृत्तेविरोधसिद्धिरुद्भाव्यत इति चेत् ?, न, क्वचित् साध्यनिवृत्तौ सत्यां साधननिवृत्तावपि विरोधासिद्धः, अन्यथा चक्षुरप्राप्तार्थपरिच्छेदि, स्पर्शनरसनघ्राणश्रोत्रान्येन्द्रियत्वात्, मनोवदित्यनुमानतः कश्चिच्चक्षुषोऽप्राप्तार्थपरिच्छेदं प्रसाधयन् कथं प्रतिरोत्स्यते ? समस्ति चात्राप्राप्तार्थपरिच्छेदव्यावृत्त्या स्पर्शनरसनघ्राणश्रोत्रान्येन्द्रियत्वस्यापि व्यावृत्तिः स्पर्शनादाविति / नापि तृतीयः, मनसैव व्यभिचारात्, आत्मापेक्षया बहिष्कारणं पुद्गलतत्त्वं तत्प्रभवत्वं च मनसः साधितमेवेति / तस्माद् व्यतिरेकानिश्चयात् सन्दिग्धव्यतिरेकी हेतुः / अथ 'चक्षुः प्राप्यकारि भौतिकत्वात् परशुवदि'त्यपि न सम्यक्, यतः प्राप्यसंयुज्य स्वकार्यं करोतीति प्राप्यकारीति वक्तव्ये प्राप्तिरपि स्वकार्यं भवति, तदपि च प्राप्य करोत्यन्यथा वा?, प्राप्य चेत् ?, सापि प्राप्तिः प्राप्यैव कर्त्तव्येति प्राप्तिपरम्परोत्पादन एव क्षीणशक्तिकत्वेन प्रस्तुतकार्याकरणादनवस्था, द्वितीये त्वनयैव व्यभिचारः / अथ ज्ञानस्वरूपकार्यापेक्षया चक्षुषः प्राप्यकारित्वसाधनात् नोक्तदोष इति चेत्, तन्न, प्राप्यकारीति शब्दस्य प्रासिपूर्वक्रियामात्राभिधानपर्यवसितत्वात्, निदर्शनस्य साधनशून्यत्वापत्तेश्च, यतः परशुधारापि पादपं प्राप्य द्वैधीभावं विधत्ते न तु ज्ञप्तिमिति / ननु स्वविषयज्ञप्तिकरणापेक्षया परशोनिदर्शनमुक्तं न द्वैधीभावापेक्षया, तथा च न साध्यविकलता निदर्शनस्येतीचेत्, ‘अत्र तय॑ते, चाक्षुषी ज्ञप्तिमाश्रित्यैतदुच्यते स्पार्शनी वा ? चाक्षुषीमाश्रित्येति चेत् ?, अद्यापि नयनार्थयोः प्राप्यकारित्वासिद्धेः सैव साध्यविकलता निदर्शनस्य / अथ स्पार्शनीमपेक्ष्योच्यते तर्हि, अस्त्येवं किन्तु मनःपरिच्छेद्येन सुरगिरिणा व्यभिचारः, भौतिकेनापि तेन मनसाऽप्राप्तेनैव स्वपरिच्छित्तिकरणात् / ननु येन करणभूतेन परिच्छित्तिर्जन्यते स एवेह प्राप्यकारिसम्मतो न विषयत्वेनापीति चेत् ?, तर्हि निदर्शनान्तरं वाच्यं न प्रकृतम् / न च प्रदीपादिकमत्र निदर्शनं यतः प्रदीप: करणभूतेन रश्मिद्वारेण प्राप्तः सन्नर्थं प्रकाशत इति वाच्यम्, एवमपि हेतोः व्याप्त्यनिश्चयात्, न च साधर्म्यमात्रेण व्याप्तिनिश्चयो भवति, अप्राप्यकारित्वमपि स्पृशतो भौतिकस्य न किञ्चित्प्रतिद्वन्द्वि प्रमाणं समस्तीति / एतेन 'कारकत्वसाधनम'पि परास्तम्, अप्राप्तलोहाकर्षकायस्कान्तेन व्यभिचारात् / ननु यथा पुरुषः नालान्तर्वायुप्रयोगेण जलादिकमाकर्षति संयुक्तसंयोगत्वाच्च नाप्राप्तिस्तथाऽयस्कान्तोऽपि वायुद्वारेण प्राप्तलोहमेवाकर्षतीति चेत् ?, तन्न, तत्र वायुसद्भावे प्रमाणाभावात् / ननु समाकर्षणस्यान्यथानुपपत्तिः प्रमाणमिति चेत् ?, न, अप्राप्तस्याप्याकर्षणोपपत्तेः / न चाप्राप्तस्याकर्षणे कथं न विश्ववत्ति सकललोहाकर्षणम्, अप्राप्तत्वाविशेषादिति वाच्यम्, प्राप्तस्य तवाभिप्रायेणाकर्षणेऽपि तद्देशवर्तितृणतुलादिसमाकर्षणं कथं न स्यात् ?, योग्यताऽभावादिति चेत् ?, अप्राप्तत्वाविशेषेऽपि सकललोहानामत्रायोग्यत्वान्नाकर्षणम् / अपि चायसः समाकर्षणान्यथानुपपत्तिः कुतोऽवसिता ?, न च कारकत्वाख्यहेतोर्यतः सकलं च कारकं प्राप्त एव वस्तुनि फलमुत्पादय