________________ विभाग-२ 121 यद्ययोग्यत्वेन तद्गन्धं न प्रकाशयति तहि योग्यताभावादेवाप्राप्यत्वेऽपि व्यवहितमतिसन्निकृष्टं वा तद्रूपं न प्रकाशयतीति को विरोधः?, त्वयाऽपि सर्वत्र योग्यतैव समाश्रयणीया, यतः कुतो न रश्मयो लोकान्तमुपसर्पन्तीति प्रेरणायां त्वया यथा योग्यता स्वीकृता तथैवेतरत्र सैव वक्तव्या भवति / किञ्च प्राप्यकार्यपि घ्राणं यथा कुङ्कुमादेर्गन्धं प्रकाशयति तद्वत् परमाणोरपि गन्धं कथं न प्रकाशयेत् ?, अथ प्रकाशयत्येव योगिनो घ्राणं परमाणुगन्धमपि नास्मदादेः, तादृशादृष्टविशेषाभावात्, महत्त्वाधुपेतद्रव्यगन्धादि त्वस्मदादीनामपि प्रकाशयति, तादृशादृष्टविशेषस्य सद्भावात्, इत्यदृष्टवैचित्र्यात्तद्विज्ञानाभावाभाववैचित्र्यमिति चेत् ?, स्याद्वादिनामप्येतत्तुल्यम्, यतः तादृशक्षयोपशमवतामतिशयज्ञानिनामस्मदाद्यगोचरविप्रकृष्टस्वविषयं चाक्षुषं भवति, अस्मदादीनां तु स्वानुरूपतदावरण. क्षयोपशमविशेषात् चाक्षुषं यथाप्रतीतिपदार्थप्रकाशकत्वं भवतीत्युभाभ्यां योग्यताऽभ्युपगन्तव्यैव / एतेन-"योग्यताभावाद् व्यवहिताग्रहणमिति चेत् ?, इन्द्रियस्य तावद्योग्यताविषयग्रहणसामर्थ्यमस्त्येव, तदानीमव्यवहितग्रहणात्, विषयस्यापि योग्यतामहत्त्वानेकद्रव्यत्वरूपविशेषाद्यात्मिका व्यवधानेऽप्यनिवृत्तैव, आर्जवावस्थानमपि तदवस्थम्" इति कन्दली. कारोक्तमप्यपास्तम्, प्रमातुस्तादृशक्षयोपशमरूपतद्ग्रहणयोग्यताया अभावात्, कथमन्यथा शशधरस्येव तद्गतेरुपलम्भो न स्यात् / ननु गतौ भास्वररूपाभावानोपलम्भः, निशाकरे तु तद् वैपरीत्यमिति चेत् ?, तदुत्सङ्गस्थकुरङ्गकलङ्को राहुविमानैकदेशश्च कथमुपलभ्येत ?, उद्भूतरूपाभावात् कृष्णत्वाच्च, तस्मात् बाह्येन्द्रियत्वेनापि प्राप्तार्थप्रकाशकत्वं न सिध्यति / किञ्च किं नाम नयनस्य बाह्येन्द्रियत्वम् ?, बहिरर्थग्रहणाभिमुखत्वमुत बहिर्देशावस्थायित्वं बहिष्कारणप्रभवत्वं वा स्यादिति त्रयी गतिः / आद्यकक्षायां मनसा व्यभिचारि, मनसः बहिरर्थग्रहणाभिमुख्येन बाह्येन्द्रियत्व. प्रसङ्गात् / द्वितीयकक्षायां विकल्पद्वयमुत्तिष्ठते, तथाहि-बहिर्देशावस्थायित्वमित्यत्रार्थदेशो बहिर्देशो विवक्षितः शरीराद्वा बहिः बहिर्देशो विवक्षितः, पौरस्त्यपक्षेऽर्थदेशाश्रितत्वमर्थाभिमुख्येन व्यवस्थायित्वं प्रवृत्तिर्वा विवक्षिता ?, आद्ये उभयासिद्धिः, वादिप्रतिवादिभ्यां गोलकान्तर्देशसमाश्रितत्वेनाभ्युपगमात्, साधनविकलता च दृष्टान्तस्य त्वगिन्द्रियस्यार्थदेशेऽनाश्रितत्वात्, द्वितीयेऽपि अर्थाभिमुख्येन प्रवृत्तिः किं प्रसर्पणरूपो व्यापारः प्रतीत्युत्पादकत्वं वा ?, आद्ये प्रतिवाद्यसिद्धिः, नयनकिरणानां तैजसत्वाभावेनार्थदेशे प्रसर्पणानभ्युपगमात्, तैजसत्वसाधकप्रमाणस्य निराकृतत्वेन बाधकस्य चोपन्यस्तत्वेनोभयासिद्धिर्वा, निदर्शनस्य च साधनविकलता अत्रापि स्पष्टैव, अर्थाभिमुख्येन प्रतीत्युत्पादकत्वे च पुनर्मनसानैकान्तिकम् / ननु शरीरात् बहिर्देशे गोलकस्वरूपे समाश्रितत्वं बहिर्देशावस्थायित्वम्, मनसि व्यभिचारवारणाय च बाह्येति विशेषणम्, तद्धि देहान्तर्देशसमाश्रितमिति चेत् ?, तदपि न, इन्द्रियबाह्यत्वस्याप्राप्तार्थपरिच्छेदेनाप्यविरुद्धत्वात्, न चाविरुद्ध विशेषणं विपक्षाद्धेतुं व्यावर्त्तयति, न च तत्र विरोधसाधकं किञ्चित् प्रमाणमप्यस्ति / ननु