________________ 120 . सन्दर्भग्रन्थाः किञ्चिद्बाधकं प्रमाणं समस्ति / ननु एकत्वपरामर्शिप्रत्यभिज्ञायाः स्फटिकान्तरितार्थोपलम्भेन तद्भेदसिद्धेर्बाध इति चेत् ?, न, अन्योन्याश्रयप्रसङ्गात्, भेदसिद्धौ स्फटिकाद्यन्तरितार्थोपलम्भः सिध्यति तत्सिद्धौ च भेदसिद्धिरिति / स्फटिकादौ चाशूत्पादविनाशयोः स्वीकारे दर्शनान्तरितमदर्शनमपि स्यात्, न च तत्र तत्कदाचिदप्यनुभूयते / नन्वाशुभाविभ्यां पूर्वोत्तरोत्पादाभ्यां विनाशस्य तिरोधानात् न तत्रादर्शनं स्यादिति चेत् ?, तर्हि, आशुभाविभ्यां पूर्वोत्तराभ्यां विनाशाभ्यामुत्पादस्यापि तिरोधानात् दर्शनमपि मा भूत् / ननु तदुत्पादयोः स्वमध्यगतविनाशतिरोधाने सामर्थ्यमस्ति, भावस्वभावत्वेन बलीयस्त्वात्, न तु निःस्वभावयोः तद्विनाशयोः स्वमध्यगतोत्पादतिरोधाने सामर्थ्यम्, अभावस्वभावत्वेन दुर्बलत्वादिति चेत् ?, न, भावाभावयोः समानबलत्वात्, तयोरन्यतरबलीयस्त्वे युगपद्भावाभावात्मकवस्तुप्रतीतिविरोध: स्यात् / न च वस्तुनो भाव एवानुभूयत इति वाच्यम्, स्वरूपादिचतुष्टये पररूपादिचतुष्केनाभावस्यापि प्रतीतेः / एतेन स्याद्वादमुद्गरेशेन "नैकस्मिन्नसम्भवात्" इति यदज्ञानविलसितं व्यासवचनम्, “नायमभ्युपगमो युक्तः एकस्मिन्नसम्भवात्, नोकस्मिन् धर्मिणि युगपत् सत्त्वासत्त्वादिविरुद्धयोः समावेशः सम्भवति शीतोष्णवत्" इति यच्च शाङ्करभाष्यवचनं सत्सर्वं खण्डशः चूर्णितम्, सर्वदा भावाभावात्मकस्य वस्तुनः प्रतिभासनात्, सर्वथोत्पादे विनाशे च पुनः पुनः स्फटिकादौ दर्शनसान्तरस्यादर्शनस्य प्रसञ्जनं दुर्निवारमिति स्थितम् / एवं प्रदीपेऽपि कथं नैरन्तर्यभ्रम इति नाशङ्कनीयम्, तत्रापि सर्वथोत्पादविनाशयोरघट मानत्वादित्यलं प्रसङ्गेन। अप्राप्तार्थपरिच्छेदित्वेऽपि नयनस्य व्यवहितार्थाप्रकाशकत्वाविरोधात् तव व्यवहितार्थाप्रकाशकत्वहेतुरपि सन्दिग्धव्यतिरेकी / नन्वप्राप्तत्वाविशेषादव्यवहितवत् कुड्यादिव्यवहितमपि किं न गृह्णीयादिति चेत् ?, न गृह्णीयात्, योग्यताभावात् / ननु अप्राप्तत्वाविशेषेऽपि कथं स्फटिकान्तरितप्रकाशने योग्यता भित्त्याद्यन्तरितप्रकाशने चायोग्यता इति चेत् ?, शृणु, यथा भवन्मते स्वच्छजलान्तरितार्थप्रकाशने योग्यता समलजलान्तरितभावप्रकाशने चायोग्यता तद्वदत्रापि / ननु नायनरश्मयः समलं जलं भित्त्वार्थं न प्रकाशयन्तीति चेत् ?, तर्हि ते स्वच्छजलान्तरितमर्थमपि न प्रकाशयिष्यन्ति, जलकृतप्रतिघातस्याविशेषात् / एतेन "तत्र कुम्भादिभिर्नेत्रकिरणानां प्रतिघातत्वस्वीकारात्, कथमन्यथा घटाद्यन्तर्गतस्य व्यवधिमतो जलादेः दीपाद्यालोकेनापि प्रकाशो नानुभूयत इत्यतो दृष्टे किञ्चिन्नानुपपन्नं नामेति न्यायेनेदृश एव तेजसः स्वभावो यत्खलु कुत्रचित्तत्प्रतिघातः कुत्रचिच्चाप्रतिघातः" इत्यन्वयार्थदीपिकाकारोक्तं निरस्तम्, नायनरश्मिभिश्च कुड्यादेः कथं न भेदः, तेजोऽविरोधात्, विरोधे तु स्फटिकादावपि विरोधत्वापत्तेः, प्रसन्नतानिमित्तको भेदस्तु प्रागेव प्रतिषिद्धः / किञ्च योग्यताऽस्वीकारे संयुक्तसमवायाविशेषात् चक्षुर्यथा कुवलयरूपं प्रकाशयति तथा तद्गन्धमपि प्रकाशयेत्, तथा चेन्द्रियान्तरवैफल्यं स्यात् / ननु