________________ विभाग-२ 119 स्पृशति, परमाण्वादिकं त्वत्यन्तग्रहणायोग्यत्वेन स्पर्शनेन्द्रियेण साकं तादृक् संयोगाभावान्न तथा / नन्वभ्यन्तरस्थितशरीरावयवानामतिप्रत्यासन्नवर्तित्वेनापि स्पर्शनेन्द्रियेणाग्रहणाद् व्यभिचारस्तदवस्थ एवेति चेत् ?, न, अभ्यन्तरवर्तिशरीरावयवानां स्पर्शनेन्द्रियकारणत्वेन तत्सम्बन्धिस्पर्शस्य तदविषयत्वात्, अकारणस्य तु पीयमानस्य जलादेः शीतस्पर्शोऽन्तरनुभूयत एव / न च व्यवहितार्थाप्रकाशकत्वहेतुनापि नयनस्यप्राप्यकारित्वसिद्धिरिति वाच्यम्, कुलिशकाचा- भ्रपटलस्वच्छसलिलस्फटिकोपलान्तरितानामपि पदार्थोपलम्भात् / ननु कुलिशादिकं विभेद्य नायनरश्मयः विषयदेशमुपसर्पन्ति ततस्तदुपलम्भ इति चेत् ?, न, तूलपटलादेः सुतरां सुभेद्यत्वेन तूलपटलान्तरितस्यापि ग्रहणप्रसङ्गात् / यत्पुनस्दयन उदचीचरत्-"स्फटिकाद्यन्तरितोपलब्धिः प्रसादस्वभावतया स्फटिकादीनां तेजोगतेरप्रतिबन्धकतया प्रदीपप्रभावद्भवेदुपपन्ना" इति तदपि न मनीषिमान्यम्, यतो न क्वापि दृष्टो मूर्तद्रव्यस्य मूर्तद्रव्यान्तरेण गतेरप्रतिबन्धः प्रसन्नतानिमित्तकः किन्तु तुलादिना जलादिगत्यप्रतिबन्धः प्रशिथिलावयवारब्धत्वनिमित्तकः / स्फटि कान्तर्गतप्रदीपरश्मयस्तु न तं भित्त्वा प्रसरन्ति किन्तु तत्सम्पर्कमासाद्य स्फटिकपरमाणुपुञ्ज एव तथा परिणतः सर्वतः प्रसरति / अत एव पीतरक्तादिकाचकूपिकातो रश्मयोऽपि तद्वर्णाः प्रसरन्तो दृश्यन्ते / एवं रविरश्मयोऽपि न काचकूपिकां भित्त्वाऽन्तःप्रविश्य जलमुष्णीकुर्वन्ति किन्तु रविरश्मिसम्पर्क समासाद्य काचकूपिकापरमाणव उष्णीभूता जलमुष्णीकुर्वन्ति / एतेन-"जलापेक्षया तच्छिद्राणामत्यन्तं सूक्ष्मतरत्वकल्पनात्, कथमन्यथा काष्ठादिना गाढतरं पिहितमुखस्यापि काचकूपादेरन्तर्गतस्य जलादेशतपादिना सर्वानुभवसिद्धमुष्णत्वं संगच्छेत, तत्रापि सूर्यरश्मीनां जलादेः सम्बन्धोऽवश्यं स्वीकर्तव्यः, स च सम्बन्धः काचकूपादौ छिद्रानङ्गीकारे न सम्भवतीत्यकामेनापि काचकूपादेः सच्छिद्रत्वं स्वीकर्त्तव्यम्, सच्छिद्रत्वे च तस्य जलादीनां ततो बहिः प्रपातापत्त्या तच्छिद्राणां जलापेक्षयातिसूक्ष्मत्वं रश्म्यपेक्षया च स्थूलत्वं भवतापि स्वीकर्त्तव्यमेव" इति कस्यचित् कपोलकल्पनापि निरस्ता, छिद्रस्यानङ्गीकारेण स्थूलत्वसूक्ष्मत्वकल्पनाया निष्फलत्वापत्तेश्च / ननु यथा पारदस्यायस्पात्रभेदे सामर्थ्यं न पुनरलाबुपात्रभेदे तथा लोचनरोचिषामपि स्फटिकादिभेदे शक्तिर्भविष्यति न तुलपटलभेद इति चेत् ?, न, सोऽयं स्फटिकादिरिति प्रत्यभिज्ञाबाधात्, विनाशव्यवहारस्य तत्र कस्यचिदभावात् / ननु निरन्तरताप्रतीतिस्तु भ्रमात्मिकैव, प्रदीपज्वालावत् पूर्वपूर्वकाचादिव्यूहव्यावृत्तावुत्तरोत्तरतद्रूपव्यूहान्तरस्योपपत्तेरिति चेत् ?, तर्हि, प्रतिक्षणं क्षणभङ्गरं विश्वं स्वीकुर्वाणा: त्वया कथं प्रतिहन्यन्ते ? / नन्वात्मादिपदार्थानां क्षणिकत्वं व्याचक्षाणं भिक्षु प्रत्यभिज्ञैव प्रतिक्षेप्स्यतीति चेत् ?, स्फटिकादावप्यस्त्येव सा प्रत्यभिज्ञा / नन्वात्मादौ प्रत्यभिज्ञा दृढेति चेत् ?, किंकृतं तत्र दायम् ? बाधाभावकृतमिति चेत् ?, तत्प्रकृतेऽपि समानम्, न खलु आत्मादिवत् स्फटिकादावपि एकत्वपरामर्शिनः प्रत्यभिज्ञानस्य