________________ 118 सन्दर्भग्रन्थाः तन्न सम्यक्, 'तमः पश्यामि' इति प्रतीत्या तमसश्चाक्षुषत्वात् ज्ञानाभावस्य चातथात्वात् / निमीलितनयनस्य नान्धकारप्रतीतिरस्ति किन्त्वर्थान्तरप्रतीतिरेव, अन्यथा 'गृहे तमोऽस्ति न वा ?' इति संशयानुपपत्तेः, गर्भगृहे च तमःप्रत्ययो भ्रम एव, आलोकज्ञानप्रतिबन्धकदोषस्य तत्र स्वीकारावश्यकत्वादिति दिक् / कन्दलीकारस्तु 'आरोपितं नीलं ख्यं तम' इत्याह, तन्न, नीलद्रव्योपरक्तेषु वस्त्रचर्मादिषु तमोव्यवहारप्रसङ्गादिहान्धकार इति प्रतीतेभ्रमत्वापत्तेस्तमो नीलं न तु नीलिमा इति प्रत्ययाभावप्रसङ्गाच्च / 'नीलारोपित(?प )विशिष्टस्तेजःसंसर्गाभावस्तम' इति शिवादित्यः, तदपि न सुन्दरम्, नीलारोपाद्यग्रहेऽपि तमस्त्वग्रहात्, तादृशतमस्त्वावच्छिन्नधर्मिकनीलारोपायोगाच्चेत्यधिकं कल्पलतादितोऽवसेयम् / तदेवं तमसो द्रव्यत्वे सिद्धे न प्रकाशकत्वमसिद्धम् / एतेन "अन्धकारस्य पुद्गलकार्यत्वे मानाभावात् क्लिष्टकल्पनापत्त्यादिस्यानेकदोषदुष्टत्वाच्चैतत्कल्पनाया" इत्यविचारितपरोक्तमपि निरस्तम्, अन्धकारस्य द्रव्यात्मकस्य साधितत्वात् / ततस्तैजसत्वाद्ध्यिा नयने न रश्मिवत्त्वसिद्धद्धिनिबन्धनत्त्वम् / नन्वतिनिबिडतमसि जरन्मार्जारस्येक्षणे प्रत्यक्षतो रश्मिवत्त्वप्रतीतेः तन्निदर्शनेनान्यत्रापि नयनत्वहेतुना तत्सिद्धिरभिधीयते, एवं तर्हि तरुणरमणीवीक्षणे कटाक्षलक्षप्रक्षेपाः प्रेक्ष्यन्ते तत एव करभादिनयनेऽपि तत्सिद्धिः कथं न स्यात् ? तस्मात्साधर्म्यमात्रेण हेतोर्न गमकत्वं किन्त्वन्यथानुपपन्नत्वेन, न च तदस्ति तद्ग्राहकप्रमाणाभावात्, अस्माकं तु मार्जारनयनेऽपि रश्मिवत्त्वमसिद्धमिति / तदेवं दृशो रश्मिवत्त्वाप्रसिद्धितो 'अधिष्ठानदेशानिःसृत्य प्रसरश्मिरूपावयवसमवेतं चक्षुः प्रसृत्यार्थेन सम्बध्यते, सम्बद्धं चोपलम्भयती'त्यप्ययुक्तम्। नयनस्य प्राप्तार्थपरिच्छेदकारित्वं चानुमानबाधितम् / प्रयोगः 'चक्षुः प्राप्तार्थपरिच्छेदि न भवति, अत्यासन्नार्थाप्रकाशकत्वात्' / नात्र हेतोरसिद्धता, गोलकसम्बद्धाञ्जनस्याप्रकाशकत्वात् / नन्वत्यासन्नार्थः योग्यदेशावस्थितोऽयोग्यदेशावस्थितः / सामान्यतो वा विवक्षितः ?, न प्रथमपक्षो, योग्यदेशावस्थितस्य सर्वस्यापि वस्तुनः नयनेन प्रकाशनात्, अञ्जनं त्वयोग्यदेशावस्थितत्वेन न प्रकाशयति / ननु गोलकवतित्वेऽपि किमयोग्यदेशावस्थितत्वमुच्यत इति चेत् ?, ओम् / नन्वत्र को हेतुरिति चेत् ?, पक्ष्मपुटतटोदृङ्कितत्वेन गोलकान्तनि:सरता रश्मिसमूहेन साकं संसर्गाभाव इति / नापि द्वितीयः पक्षः क्षेमङ्करः, स्पर्शनादीनामत्यासन्नानामाकाशपरमाण्वादीनामयोग्यपदार्थानामप्रकाशकत्वेऽपि प्राप्तार्थप्रकाशकत्वेन व्यभिचारात् / नापि तृतीयः, द्वितीयपक्षोक्तव्यभिचारेण दूषितत्वादिति चेत् ?, अत्रोच्यते, यद्यपि त्वया स्वकीयालीककल्पनयाऽञ्जनमयोग्यं पर्यकल्पि तथापि काचकूपिकाद्यन्तर्गतप्रदीपरश्मीनां काचकूपिकादिवत् नयनरश्मियोग्यदेशस्थितेषु सकलगोलकव्यापितिमिरकामलादिषु कः प्रतीकारः ?, नापि स्पर्शनादीन्द्रियेष्वनैकान्तिको हेतुर्यतः स्पर्शाभावान्नाकाशं