________________ विभाग-२ 117 प्यालोकान्तराभावसत्त्वेनालोकप्रतियोगिकाभावमात्रं न तमो व्यवहारविषयः, आलोकवत्यपि सम्बन्धान्तरेणालोकसामान्याभावसत्त्वेनालोकसामान्याभावोऽपि न तमोव्यवहारविषयः / नापि संयोगसम्बन्धावच्छिन्नालोकाभावस्तमः, आलोकेऽपि तत्सत्त्वात्, आलोकान्यवृत्तित्वविशिष्टतदभावोऽपि न तमोव्यवहारविषयः, अन्धकारेऽन्धकारापत्तेः / नाप्यालोकान्यद्रव्यवृत्तित्वविशिष्टस्तमोव्यवहारविषयः, अन्धकारेऽन्धकारापत्तेस्तदवस्थत्वात्, त्वदात्मन्यपि तत्प्रसङ्गाच्च / नापि कदाचिदालोकसंसर्गात्तवृत्तित्वविशिष्टालोकाभावः तमोव्यवहारविषयः, कदाप्यालोकसंसर्गो यत्र नास्ति तत्रापि घोरनरकादौ तमः श्रवणात् / किञ्चैतावद्घटकाप्रतिसन्धानेऽपि तमस्त्वप्रतिसन्धानात् घटत्ववत् जातिरूपं तमस्त्वमित्येव न्याय्यम् / एतेन "यावदालोकासत्त्वेनान्धकारव्यवहारस्तावनिष्ठबहुत्वविशेषावच्छिन्नप्रतियोगिताकाभावस्तम" इत्यप्यपास्तं बहुत्वस्य बुद्धिविशेषादिना विनिगमनाभावाच्च / “अखण्डाभाव एव तमः, अखण्डं वा तमस्त्वम्" इति कल्पनापेक्षयातितिरिक्ततमोद्रव्यकल्पने का क्षतिः ?, अपि च तमसोऽभावस्वरूपत्वे उत्कर्षापकर्षासम्भवेनान्धतमसाल्पतमसादिविशेषोऽपि न स्यात्, किञ्चालोकात्यन्ताभावः तम इति स्वीकारे तमस उत्पन्ननाशादिप्रतीतीनां भ्रमत्वं स्यात् / “आलोकसंसर्गाभावसमुदाय एवान्धकारः तत्र राशिष्विव किञ्चित्समुदायव्यतिरेकप्रयुक्त एव विनाशः, एवमुत्पत्तिप्रत्ययोऽप्यूह्य" इति शशधरशर्मणोऽपि वचनं न शोभनम्, राशिषु बहुत्वविशेषनाशोत्पादाभ्यां तदाश्रयनाशोत्पादप्रतीत्युपपत्तावपि प्रकृते तदयोगात्, समूहविलक्षणमहदेकोत्पादाद्यनुभवाच्च / यत्तु "तमसो द्रव्यत्वे प्रौढालोकमध्ये सर्वतो घनतरावरणे तमो न स्यात्, तेजोऽवयवेन तत्र तमोऽवयवानां प्रागनवस्थानात्, सर्वतः तेजःसङ्कले वाऽन्यतोऽप्यागमनासम्भवात्" इति वर्धमानोक्तमपि न रमणीयम्, “यद् द्रव्यं यद् द्रव्यध्वंसजन्यं तत्तदुपादानोपादेयम्" इति व्याप्तेस्तेजोऽणुभिरेव तत्रान्धकारारम्भस्वीकारात् / न च तेजसः तेजस एवारम्भकत्वादयुक्तमेतदिति वाच्यम्, नियतारम्भकत्वास्वीकारादिति / एवं तमसोऽभावत्वे गतिमत्त्वपरत्वापरत्वविभागादिप्रत्ययानामप्यनुपपत्तिः / “तमो द्रव्यम् घनतरनिकरलहरीप्रभृतिशब्दैर्व्यपदेश्यमानत्वात् किरणादिवत्" इत्यपि वदन्ति / "नात्रालोकः किन्त्वन्धकार" इति व्यवहारादप्यालोकाभावात् भिन्नं तमः / 'नात्र घट: किन्तु तदभावः' इतिवत् विवरणपरतां विनापि स्वारसिकप्रयोगदर्शनात्, अपकृष्टालोकसत्त्वेऽप्यन्धकारव्यवहाराच्च आलोकवत् भिन्नं तम इति / न चोत्कृष्टालोकाभावोऽन्धकार इत्यपि वाच्यम्, तदुत्कर्षप्रतियोग्यपकर्षशालितयैव तमसि द्रव्यत्वसिद्धेः। प्राभाकरास्तु-"तेजोज्ञानाभाव एव तमः, नीलं तम इति धीस्तु स्मृतनीलिम्ना समालोकज्ञानाभावस्यासंसर्गाग्रहात्, अत एवालोकवद् गर्भगृहं प्रविशतः प्रथममालोकाग्रहे 'नीलं तम' इति धीः, तदुक्तं-'अप्रतीतावेव प्रतीतिभ्रमो मन्दानाम्" इत्याहुः,