________________ सन्दर्भग्रन्थाः गृहगोधादिपापानां प्राणिनां साक्षात् पश्यतां कथं तेषां मरीचीनामुपलम्भो न स्यात्, ?, तत्रालोकमीलनासम्भवात्, यत्रैवालोकमीलनं तत्रैव तेषामुद्भूतानामुत्पत्तिरिति चेत् ?, तर्हि गृहगोधादिनयनरश्मीनामप्रकाशकत्वं स्यात्, अनुद्भूतभास्वररूपत्वात्, ततोऽनुद्भूतभास्वररूपाव्यञ्जकत्वेन रूपाभिव्यञ्जकत्वमसिद्धं नयनस्येति / नयनस्य च तैजसत्वमनुमानबाधितम्, तथा च प्रयोगः 'चक्षुस्तैजसं न भवति तमः प्रकारशकत्वात् यन्नैवं न तदेवं यथा प्रदीपः तथा चेदं तस्मात्तथे' ति / न च तमसोऽभावरूपत्वेन तत्प्रकाशकत्वासम्भव इति वाच्यम्, पुद्गलपरिणामत्वेन तस्य द्रव्यत्वसिद्धेः / न च पुद्गलपरिणामोऽसिद्धः, कुड्यादिवत् दृष्टिप्रतिबन्धकत्वेन पटादिवदावरकत्वेन च तत्सिद्धेः / एवं 'तमो द्रव्यं रूपवत्त्वात् घटवत्' / न चायमसिद्धो हेतुः, तमो नीलमिति प्रतीतेः सर्वजनप्रसिद्धत्वात्, नापि सा भ्रमात्मिका, बाधकाभावात् / ननूद्भूतरूपमुद्भुतस्पर्शव्याप्यमिति नियमो विरुध्येतेति चेत् ?, न, तादृशनियमे मानाभावात् प्रभायां व्यभिचाराच्च / न चोद्भूतनीलरूपवत्त्वमेवोद्भूतस्पर्श व्याप्यमित्यपि वाच्यम्, धूमे व्यभिचारात्, तत्रोद्भूतस्पर्शवत्त्वकल्पने न व्यभिचार इत्यापि प्रमाणशून्यम्, न च तत्संयोगादश्रुपात एव प्रमाणमित्याशङ्कनीयम्, नयनधूमसंयोगत्वेनैवाश्रुपातजनकत्वात् धूमे उद्भूतस्पर्शासिद्धेर्नीलत्रसरेणौ व्यभिचाराच्च, तत्राप्युद्भूतस्पर्शकल्पने तत्स्पर्शस्य स्पार्शनापत्तिः प्रसज्येत / अस्तु वात्र स्पर्शवत्त्वम्, तथा च साम्प्रदायिकाः-'तमसि पवनाभिव्यज्यमानः शीतस्पर्शोऽप्यनुभूयत एव, अत उद्भूतस्पर्शवत्त्वमपि तत्र' इति / ननु तमसो जन्यत्वे स्पर्शवदवयवारब्धत्वापत्तिः स्यादिति चेत् ?, न, तमसः स्पर्शवदवयजन्यत्वस्येष्टत्वात् शक्त्याख्यातिशयस्यैव द्रव्यजनकत्वाच्च / ननु तमसो द्रव्यत्वे आलोकनिरपेक्षचक्षुर्ग्राह्यत्वं न स्यात्, द्रव्यचाक्षुषत्वावच्छिन्नं प्रत्यालोकसंयोगत्वेन हेतुत्वादिति चेत् ?, न, आलोकं विनापि घूकादीनां द्रव्यचाक्षुषोदयेन व्यभिचारात् / एतेन "न चैवं सुवर्णवच्चक्षुषोऽपि स्पादिप्रकाशकत्वं न स्यादिति वाच्यम्, चाक्षुषलौकिकप्रत्यक्षं प्रत्युद्धतरूपावच्छिन्नमहत्त्वावच्छिन्नालोकसंयोगावच्छिन्नचक्षुः-संयोगस्य कारणत्वात्, आलोकश्चान्धकारप्रतियोगी तेज" इत्यादिद्यपि निरस्तम् / न च मनुजादिचाक्षुष एव हेतुत्वान्न व्यभिचार इति वाच्यम्, अञ्जनादिसंस्कृतनयनानां तस्करादीनां नायने व्यभिचारात् / न चाञ्जनाद्यसंस्कृतमनुजनयनजन्यनायने आलोकसंयोगत्वेनाञ्जनादिसंस्कृतनयनानां स्वातन्त्र्येण च चाक्षुषहेतुत्वमित्यपि वाच्यम्, अननुगमात्, किं वा आलोकायुद्बोध्यक्षयोपशमरूपयोग्यताया एवानुगतत्वेन तस्या एव हेतुत्वौचित्यात्, किञ्च तमसोऽभावस्वरूपत्वे तेजोज्ञानं विना तस्य ज्ञानं न स्यात्, अभावज्ञानेऽन्वयव्यतिरेकाभ्यां प्रतियोगिज्ञानस्य हेतुत्वावधारणात्, न च 'गिरिदरीविवरवर्त्तिनो यदि योगिनो न ते तिमिरावलोकिनः, तिमिरावलोकिनश्चेत्, नूनं स्मृताऽऽलोका' इत्यनेनेष्टापत्तिरपि कर्तुं शक्यते, तेजसोऽप्रतिसन्धानेऽपि तमोऽनुभवस्य प्रत्यक्षसिद्धत्वात् / किञ्चैकालोकवत्य