________________ विभाग-२ 115 मध्ये रूपस्यैवाभिव्यञ्जकत्वात् प्रदीपवत्' इत्यत्र पुनः साधनविकलता निदर्शनस्य स्यादिति / किञ्च, नयनस्य तैजसत्वस्वीकारे कथं तत्र न भास्वररूपोपलम्भः, तेजसि तस्य स्वाभाविकत्वात् ?, अनुद्भूतत्वेनानुपलब्धिरित्यपि न, एवं सति रूपाभिव्यञ्जकत्वमस्य दुरुपपाद्यम्, तथाहि-यदुद्भूतभास्वररूपरहितं तन्न रूपाभिव्यञ्जकं यथा जल-संयुक्ताग्निः सुवर्णं वा तथा नयनमपि त्वया कक्षीकृतमिति / यत्तु "कथमनुद्भूतरूपाणामर्थप्रकाशकत्वमिति चेत् ?, न, प्रदीपादिप्रकाशसहितानां तदुपपत्तेः, अत एव येषामदृष्टसामर्थ्यादुद्भूतत्या नायना रश्मय उत्पन्नास्तेषां बाह्यप्रकाशनिरपेक्षा एवार्थं प्रकाशयन्ति यथा नक्तञ्चराणां; तथा केषाञ्चिन्नक्तञ्चराणां नायना रश्मयः प्रत्यक्षेणैव दृश्यन्त" इति भूषणोक्तमपि भूषणं न भूषयति, घटादेरप्यनुद्भूतभास्वररूपपरिकल्पनया प्रदीपादिसहकृतस्य प्रकाशकत्वोपपत्तेः / ननु घटादौ तैजसत्वाभावात् भास्वररूपमेव नास्तीति कुतस्तत्रानुद्भूतत्वकल्पनापि युक्तिमतीति चेत् ?, तहि नयनस्यापि कुतः तैजसत्वसिद्धिः ?, रूपादिषु मध्ये नियमेन रूपस्याभिव्यञ्जकत्वादित्युक्तमेवेति चेत् ?, न, विहितोत्तरत्वेन तदसिद्धेः / यत् “केषाञ्चिन्नक्तञ्चराणां नायना रश्मयः प्रत्यक्षेणैव दृश्यन्त" इत्युक्तं तदपि बालजल्पितम्, अस्मदादीनां तत्रादृश्यमानत्वात् / मार्जारादिनयनानां रश्मयः प्रतीयन्त एवेति चेत् ?, न, तद्गोलकप्रदेशविशेषाणामेव तत्र प्रतिभासनात् / यदि मार्जारादिनयनानां रश्मयः स्युस्तर्हि प्रदीपादिवत्तेऽपि प्रसरन्तः कथं न दृश्येरन् ? ननु निशि मक्तञ्चराः पश्यन्तीति चेत् ?, तर्हि मनुष्याः कथं न पश्यन्ति ?, न च नरान् प्रति नयनरश्मीनामतितनुतरत्वेन नाभिव्यञ्जकत्वं भवतीति वाच्यम्, नक्तञ्चरान् प्रत्यपि तदभिव्यञ्जकत्वविरोधात् / उद्भूतभास्वररूपत्वेन तेषामभिव्यञ्जकत्वं चेत् तच्चोभयत्रापि तुल्यमिति / यद्वा वृषदंशनयनयोनिशि किञ्चित् चाकचिक्यभावेन सन्तु मरीचयः परं गृहगोधिकादीनां नयनेषु किञ्चिदपि निशि न चकास्तीति तत्र कथमुद्भूतभास्वररूपा रश्मयः स्वीक्रियन्ते ? यतो दर्शनयोग्यमुद्भूतमुच्यते, अन्यथा मनुष्यनयनेषु तदनुद्भूतताभ्युपगमः किं निमित्तक: स्यात् ? अनुद्भूतताभ्युपगमे तु गृहगोधिकादिनयनरश्मीनामालोकनिरपेक्षाणामेव प्रकाशकत्वमवलोकितमिति कथमालोकसहकृतानां नयनरश्मीनां प्रकाशकत्वमुपपद्यत इति यत्किञ्चिदेतत् / एतेन "चक्षुषि भास्वरशुक्लस्पस्य सत्त्वात्, अनुपलब्धिस्त्वनुद्भूततयापि सङ्गच्छत" इति परोक्तमपास्तं द्रष्टव्यम्, पारापतादिनयनेषु रक्ततादिदर्शनेन भास्वरशुक्लरूपाभावस्यापि दर्शनाच्च / "अथवाऽऽलोकावयवसहितेभ्यस्तदवयवेभ्य उद्भूतस्या नायना उत्पद्यन्ते, दृष्टौ हि तेजसामाशुतरविनाशोत्पादौ, रूपस्पर्शी चोद्भूतत्वधर्मविकल्पोपेतावित्युद्भूतस्त्पत्वेनोत्पन्नानामपि रश्मीनामन्यस्मिन् समावेशाद्विवेकेनाग्रहणम्, यथाऽवेकप्रदीपरश्मीनामेकार्थसम्बद्धानाम्" इत्यपि भूषणोक्तमभूषणमेव मन्तव्यम्, यत आलोकमीलितेषु मनुष्यनयनेष्वेवमस्तु तथापि निबिडतरघनपटलावृतायां कुहूनिशि पिहितनिरन्ध्रकपाटसम्पुटापवरकक्रोडे विचरतां