________________ 114 - सन्दर्भग्रन्थाः दोषव्यावर्तकत्वेन बाधस्थले भ्रमत्वशङ्काविघटनद्वारा प्रामाण्यज्ञानवदञ्जनादिकमपि चाक्षुषादौ क्वचिदुपयुज्यते, न तु कारणत्वं तस्य" इति यत्केनचिदुक्तं तदप्यपास्तं द्रष्टव्यम्, मष्यादीनां तथाभावेऽप्यञ्जनस्योक्तप्रकारेण कारणत्वावधारणात् व्यभिचारस्तदवस्थ एव / न चाञ्जनं तैजसमेव न पुनः पार्थिवम्, तत्रानुद्भूतस्य तेजोद्रव्यस्य भावादिति वाच्यम्, प्रमाणाभावात् / ननु 'तैजसमञ्जनं, रूपावभासने नयनस्य सहकारित्वात्प्रदीपवदिति' चेत् ?, न, मनसि व्यभिचारात् / ननु रूपस्यैवावभासने नयनस्यैन वा सहकारित्वादित्यवधारणगर्भसाधनोपदर्शनेन सकलानां विषयाणामिन्द्रियाणां वा साधारणस्य मनसो व्यवच्छेदेन व्यभिचारपरिहारः क्रियते इति यदाक्षिप्यते तदाद्यपक्षे हेतुरसिद्धः, द्रव्यादेरपि व्यञ्जनेऽञ्जनस्य नयनसहकारित्वात्, द्वितीये तु दृष्टान्तस्य साधनशून्यत्वम्, स्वविषयावभासं जनयति रूपेऽपि प्रदीपस्य सहकारितया नयनं प्रत्येव सहकारित्वायोगात् / ननु 'तैजसमञ्जनं, रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वात्, प्रदीपवदिति' चेत् ?, न, हेतुशून्यं निदर्शनम् / ननु किं प्रदीपोऽपि गन्धादीनभिव्यनक्तीति चेत् ?, ओमिति ब्रूमः, नागकर्णिकादेः परिमलं नागकर्णिकाविमर्पककरतलमिव स्वान्तर्निमग्नानामगरुमृगमदकर्पूरचन्दीनादीनां सुरभिपरिमलोद्गारमभिव्यनक्त्येव प्रदीपः / एवं चक्षुषस्तैजसत्वानुमानेऽपि साधनविकलता निदर्शनस्य वाच्या / किञ्चाञ्जनादेस्तैजसत्वस्वीकारे घटदिना किमपराद्धम् ?, तत्र बाधकप्रमाणसद्भाव इति चेत् ?, अन्यत्रापि तत्समानम्, तथाहि-अञ्जनं पार्थिवमाकरोद्भवत्वात् मृत्तिकावदिति / न च सुवर्णे व्यभिचारः, तस्यापि तत्त्वमेवेत्यञ्जनस्य पार्थिवत्वेन तवानुमानेऽस्मत्प्रदत्तव्यभिचारस्य दुष्प्रतिकार्यत्वं सञ्जातम् / किञ्च सहोत्पन्नयो रूपप्रदीपयोर्युगपदर्शन इति वाच्यम्, तमःप्रतिभासाभाव एवालोकप्रतिभास इत्यपि कलयितुं शक्यत्वात् / अथालोकप्रतिभासाभाव एव तमःप्रतिभासो नयनव्यापाराभावेऽपि तत्प्रतिभाससंवेदनादिति चेत् ?, न, तस्यापि प्रतिनियतसामग्रीप्रभवविज्ञानावभासित्वात्, यद्वाऽऽलोकस्याप्यचक्षुर्जे सत्यस्वप्नज्ञाने प्रतिभासनात् तमोज्ञानाभावता स्यात् / ननु रूपज्ञाने आलोकस्य हेतुत्वेन नाभावरूपतेति चेत् ?, तर्हि नक्तञ्चराणां रूपविज्ञाने हेतुभावेन नाभावरूपता तमसः / तत आलोकवत्तमसोऽपि वस्तुत्वेन व्यभिचारः स्फुट एव / यद्वालोकाभाव एव तमोऽस्तु तथापि व्यभिचारापरिहारः, अतैजसस्याप्यालोकाभावस्य रूपप्रकाशकत्वेन तत्र व्यभिचारः स्यादेव / ननु तमसोऽभावेऽपि रूपदर्शनात् न तमसः रूपप्रकाशकत्वमिति चेत् ?, तर्हि आलोकाभावेऽपि नक्तञ्चराणां रूपदर्शनात् नालोकस्यापि रूपप्रकाशकत्वम् / नन्वालोकाभावेऽस्मदादीनां कथं रूपदर्शनं न भवतीति चेत् ?, भवत्येव, कथमन्यथान्धकारसाक्षात्करणं स्यात् / ननु तमसि घटरूपदर्शनं कथं न भवतीति चेत् ?, बहलतमो व्यवधानात्, तीव्रालोकतिरोहिताल्परूपवत् / प्रदीपानयनं तु तमोव्यवच्छेदार्थम्, अत एवान्यत्रोक्तम् “तमोनिरोधं वीक्षन्ते तमसा नावृतं परं घटादिकम्" इत्यादि, ततः प्रदीपस्य च घटरूपव्यवधायकतमोऽपनेतृत्वेन 'चक्षुस्तैजसं रूपादीनां