________________ विभाग-२ 113 व्यञ्जकत्वात्तदत्र दृष्टान्तेऽव्याप्तिवारणाय प्रथमं परकीयमिति / घटादेः स्वकीयस्त्यव्यञ्जकत्वात् व्यभिचारवारणाय द्वितीयं परकीयमिति / अथवा प्रभायाः दृष्टान्तत्वसंभवादाद्यं परकीयमिति न देयम्" इति विश्वनाथीयाभ्यामनुमानाभ्यां तैजसत्वसिद्धर्नान्योन्याश्रयदोष इति चेत् ?, नन्वत्र यदि चक्षुःशब्देन भास्वररूपोष्णस्पर्शवत्तेजोद्रव्यसमवेतगोलकस्वभावं कार्यद्रव्यमुच्यते तर्हि तस्य तैजसत्वसाधने प्रत्यक्षविरोध: स्यात्, प्रत्यक्षेण तद्विरुद्धरूपस्पर्शोपलब्धेः, तथाहि-नारीपारापतवृषभादीनां नयनस्योष्णस्पर्शविकलत्वेन धवलरक्तनीलरूपत्वेन चाध्यक्षतः प्रतिपत्तिः सिद्धैव / यदि च गोलकव्यतिरिक्तं चक्षुस्तर्हि तद्ग्राहकप्रमाणाभावादाश्रयासिद्धिः स्वरूपासिद्धिश्च / निशाकरकिरणे तस्य रूपस्यैव प्रकाशकत्वेऽपि तैजसत्वाभावात् व्यभिचारेणानैकान्तिको हेतुरपि / न च तत्करान्तर्गतं तेजस्तत्रापि रूपप्रकाशकमिति न व्यभिचार इति वाच्यम्, प्रदीपेऽपि तदन्तर्गतस्यान्यस्य रूपप्रकाशकत्वप्रकल्पनेन दृष्टान्तासिद्धिप्रसक्तेः। प्रत्यक्षबाधस्तूभयत्रापि समानः / किं च नयने उष्णस्पर्शशून्यत्वेनापि तैजसत्वासम्भवो विलोक्यते, यत उक्तं वैशेषिकभाष्ये-"उष्ण एव स्पर्श' इति / अत्रोदयनो यद्वदति "एवकारश्चन्द्रचामीकरचक्षुरादिष्वनुपलम्भहेतुकां विप्रतिपत्तिमपनेतुम्, तेषां तैजसत्वेनोष्णत्वानुमानादिति" तदपि न सुन्दरम्, अद्यापि शशधरादिषु तैजसत्वासिद्धेः / ननु शशधरे प्रस्तुतहेतुत एव तैजसत्वं सेत्स्यतीति चेत् ?, अस्यानुमानबाधितपक्षानन्तरोपन्यस्तत्वेन कालात्ययापदिष्टत्वात्, तथाहि-न चन्द्रस्तैजसः शैत्यहेतुत्वात् पाथोवदितीन्दोरतैजसत्वे तन्मरीचीनां तु सुतरामतैजसत्वमिति / यत्तु कस्यचिदागमः-"जलकल्लोलश्चन्द्रः, तत्र तत्र प्रतिहतास्तपनांशवः प्रद्योतन्ते शिशिराश्च भवन्ति, तत एव शैत्यहेतव" इति तदप्यप्रामाणिकं यतः कस्यायं जलनिधेः कल्लोलः ?, कथं वा तं विहायाकाशतलमवलम्बते?, कुतः परिमण्डले एव?, कथं न स्पन्दते ?, कथं वा काठिन्यं प्राप्तः? कथं च तत्प्रतिफलितास्तपनांशाः शिशिराः सुखावलोकाः सकलदिक्प्रसारिणश्च भवन्ति ?, कथं च न दिवापि तत्प्रतिफलमित्यादयो विकल्पा निरुत्तरीकर्तुमशक्याः / प्रस्तुते पुनः तेजोरूपनयनसन्निकर्षस्यापि रूपादिषु रूपस्यैव प्रकाशकत्वेन व्यभिचारी प्रकृतहेतुः / ननु द्रव्यत्वे सतीति हेतुविशेषणात् न व्यभिचार इति चेत् ?, तर्हि अञ्जनादौ व्यभिचारः, अञ्जनसंस्कृतचक्षुषां प्रदीपाभावेऽपि रूपदर्शनात् / न च यदन्तरेणापि यद्भवति तत्तत्कार्यमितरत्तत्कारणमिति वाच्यम्, अन्वयव्यतिरेकनिबन्धनत्वात् तद्भावस्य / ननु प्रदीपे सति यद्दर्शनं तत्तदभावे न भवति, यत्तु तदभावे भवति न तत्रापि तत्सदृशम्, न चान्यस्य व्यभिचारेऽन्यस्यासावतिप्रसङ्गादिति चेत् ?, तन्न, यतो यादृशमेव रूपदर्शनमालोके संस्कृतचक्षुषां तदभावेऽपि तादृशमेव, तद्भेदानवधारणात्, तद्भेदकल्पने तु 'न किञ्चित्कस्यचिद्वस्तुना सदृश'मिति सौगतमतानुप्रवेशः स्यात् / एतेन "अञ्जनादेरन्यत्र क्लृप्तनियतपूर्ववर्तिभिरेव कार्यसम्भव इत्याद्यन्यथासिद्धत्वेन स्पग्राहित्वस्यैवासम्भवात्, किन्तु चक्षुर्गत