________________ 112 - सन्दर्भग्रन्थाः मप्यनुपलम्भभावादभावो निश्चीयत इति / एतेन “दूरस्थितं कुड्यादिप्रतिफलितानामन्तराले गच्छतां प्रदीपरश्मीनां सतामप्यनुपलम्भदर्शनात् नानुपलम्भात्तदभावसिद्धिः" इत्यपि केनचिदुक्तं तदपास्तं द्रष्टव्यम्, भास्करकराणामपि निशायामभावासिद्धिप्रसक्तेः / ननु चक्षुः स्वरश्मिसम्बद्धार्थप्रकाशकं, तैजसत्वात्, प्रदीपवदिति चेदत्रानुमानेन नयनस्य किं किरणाः साध्यन्ते उतान्यतः सिद्धानां ग्राह्यार्थ-सम्बन्धस्तेषां साध्यत इति प्रश्नद्वयं समवतरति / प्रथमकक्षायां तरुणनरनारीनयनानां दुग्धधवलतया भासुरकिरणरहितानां प्रत्यक्षेण प्रतीतेः प्रत्यक्षबाधः / ननु यत्प्रत्यक्षग्रहणयोग्यं साध्यं तदपि न प्रत्यक्षत एवोपलभ्यते तत्रापि तद्बाधककर्मणः सत्त्वात् यथाऽनुष्णोऽग्निः, न च नायनरश्मयः प्रत्यक्षयोग्या भवन्ति, सदा तेषामप्रत्यक्षत्वादिति चेत् ?, तदपि न सम्यक्, पृथिव्यादिद्रव्येष्वपि रश्मीनां साध्यत्वप्रसक्तेः, तथाहि-रश्मिवन्तो भूम्यादयः, सत्त्वात्, प्रदीपवदित्यनुमातुं शक्यत्वात् / यथा प्रदीपे रश्मिवत्त्वेन तैजसत्वं व्याप्तं दृष्टं तथैव सत्त्वमप्युपलभ्यते / न च सत्त्वस्यान्यथापि सम्भावयितुं शक्यते न तैजसत्वस्येत्यपि विभागीकर्तुं शक्यते / ननु भूम्यादौ रश्मिवत्त्वसाधने प्रत्यक्षबाध इति चेत् ?, नारीलोचनेऽपि स एव बाधो विलोक्यते / ननु मार्जारनयनस्य रश्मयः प्रत्यक्षतो विलोक्यन्त इति कथं तद्विरोधः? ननु यदि तत्र त ईक्ष्यन्ते तमुन्यत्र तेन किमायातम् ?, तत एवान्यत्रापि साध्यत इति चेत् ?, तर्हि सुवर्णे पीतिमत्त्वप्रतीतौ रजतेऽपि पीतिमत्त्वप्रसङ्गः स्यात् / न च रजते बाधकप्रमाणसद्भावो नारीनयने तु नेति वाच्यम्, बाधकप्रमाणस्योभयत्रापि तौल्यात् / अथ मार्जारनयने रश्मिवत्त्वसत्त्वप्रतीतेर्नान्यत्रापि सत्त्वहेतुना ते प्रसाध्यन्ते किन्त्वनुमानतः, तत्तु निदर्शनमात्रमितिचेत् ?, कोऽत्र हेतुः ?, नेत्रत्वादिति चेत् ?, तैजसत्वादित्यस्यानर्थक्यं सञ्जातम्, अत एव प्रकृतसाध्यसिद्धेः / अत्रापि प्रत्यक्षबाधः पुनः तदवस्थ एवेति / तैजसत्वहेतौ प्रदीपनिदर्शनेनैव निर्वाहे मार्जारनयननिदर्शनमपि निरर्थकं परं प्रति च तस्य तैजसत्वमप्यसिद्धमिति तस्य निदर्शनं साधनशून्यमपि / न च रश्मिवत्त्वेन बिडालनयनस्य तैजसत्वं सिद्धमिति वाच्यम्, मण्यादीनामपि तत्प्रसक्तेः / न च रश्मिवत्त्वेन तत्रापीष्टापत्तिः कर्तुं शक्यते, मूलोष्णप्रभाया एव तैजसत्वात्, अन्यथा तरुणतरुकिसलयानामपि तैजसत्वप्रसक्तेः / ननु रश्मिवत्त्वेन तेषां तत्साध्यत इति चेत् ?, न, अन्योन्याश्रयप्रसङ्गात्-सिद्धे च भास्वरप्रभावत्त्वे तैजसत्वसिद्धिस्तस्यां च भास्वरप्रभावत्त्वसिद्धिरिति / ___ अथ “चक्षुः तैजसं, रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात्, प्रदीपवत् / मनसि व्यभिचारवारणायैवकारः, तस्य गन्धादीनामप्यभिव्यञ्जकत्वात् / एवमपि रूपववव्यादिव्यञ्जकत्वोपलब्धेरसिद्धत्वं तद्वारणाय ख्यादीनां मध्य इत्युक्तम् / अथवा चक्षुस्तैजसं परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यञ्जकत्वात् प्रदीपवत्, प्रदीपस्य स्वकीयस्पर्श