________________ विभाग-२ 111 प्रदीपप्रभावदेवोपपत्तेः" इति यत् बंशीधरेणोत्तरितं तत्स्वकीयमसमीक्षिताभिधायित्वं सूचयतीति द्योतितम्, यतः परमाणुवदल्पपरिमाणत्वपक्षस्वीकारे एतद् दूषणं ग्रन्थकृद्भिरभ्यधायि न प्रदीपप्रभावद् रश्मिचक्रप्रसरणपक्षे, तत्र तु "नन्वेवमध्यक्षनिराक्रिया स्यात् पक्षे पुरस्तादुपलक्षितेऽस्मिन्" इत्यादिश्लोकैरन्यदेव दूषणजालं समुपन्यस्तमस्ति / ननु बाह्येन्द्रियत्वेन यथा रसनादयः प्राप्तार्थप्रकाशका दृष्टास्तद्वन्नयनमपि बाह्येन्द्रियत्वेन प्राप्तार्थप्रकाशकं स्यात्, न च नयनगोलकस्य बाह्यार्थप्राप्तिः सम्भवतीति पारिशेष्यात् तद्रश्मीनां तत्प्राप्तिरिति रश्मिसिद्धिरिति चेत् ?, न, अत्यासन्नवतिमलाञ्जनशलाकादीनां प्रकाशकत्वापत्तेः, चक्षुः प्रसृत्य नार्थेन सह सम्बध्यते, इन्द्रियत्वात्, त्वगादिवदित्यनुमानेन बाधापत्तेश्च / किञ्च, यदि गोलकात् नायना रश्मयो निर्गत्यार्थं प्रकाशयन्ति तयर्थं प्रत्युपसर्पन्तः कथं नोपलभ्येरन् ? रूपस्पर्शविशेषगुणवतां तैजसानां चित्रभानुवत् सतामनुपलम्भे निमित्ताभावात्, न चोपलभ्यन्त इत्युपलब्धिलक्षणप्राप्तानामनुपलम्भादसत्त्वं तेषाम् / नन्वनुद्भूतरूप. स्पर्शवत्त्वात्तेषामनुपलम्भो नासत्त्वात्, न च किमनुद्भूतरूपस्पर्शवदन्यत्किञ्चित्तेजो द्रव्यमुपलब्धं येनैवं कल्पना क्रियत इति वाच्यं, सतोऽपि तैजसरूपस्पर्शयोरुष्णजलसुवर्णयोरनुपलम्भ इति चेत् ?, न, तयोस्तैजसत्वे मानाभावात्, दृष्टानुसारेण चानुपलम्भमानभावानां प्रकल्पनाः प्रभवन्ति, अन्यथा रजन्यां भास्करकिरणाः सन्ति, अनुद्भूतरूपस्पर्शवत्त्वात् नायनरश्मिवन्नानुभूयन्त इत्यपि कल्पना स्यात् / ननु यद्यपि प्रत्यक्षेण लोचनकिरणा नावलोक्यन्ते तथाप्यनुमानतः प्रतीयन्ते, अनुमानं चेत्थं 'रश्मिवच्चक्षुस्तैजसत्वात् यदित्थं तदित्थं यथा ज्योतिस्तथा चेदं तस्मात्तथे'त्यतस्तत्सिद्धिः, 'तेजोरश्मिवच्चक्षू रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपकलिकावदि'त्यनुमानमपि केचिद्वदन्ति, न च एवं नयनकिरणप्रतिपादकानुमानवत् क्षपायां भास्करकरसत्त्वप्रतिपादकमनुमानमस्तीति चेत् ?, न, तत्प्रतिपादकस्यानुमानस्य सत्त्वात्, तथाहि-बहलान्धकारायां क्षपायां वृषदंशचक्षुर्बाह्यालोकसव्यपेक्षार्थप्रकाशकम्, चक्षुष्ट्वात्, दिवा पुरुषचक्षुर्वादिति / ननु निशायां वृषदंशादे यनतैजसादेवार्थप्रकाशकत्वे सिद्धे किमनुद्भूतभास्करकरकल्पनेन प्रयोजनमिति चेत् ? एवं तर्हि दिवापि मनुष्यादीनां नायनतैजसात्तदर्थप्रकाशकत्वे सिद्धे किमुद्भूतरूपेण बाह्यतेजसा तेषां कृत्यम् ? / अथ यथा दृश्यते तथा स्वीक्रियते 'यथा दिवा मनुष्यादीनां नायनं सौर्यं च तेजः, रजन्यां च वृषदंशादेर्नायनमेव केवलमर्थप्रकाशकमि'ति यदि ब्रूयते तर्हि यथा निशायां भास्करकिरणादर्शनं तथा दिवा नयनकिरणादर्शनम्, यथा वा दिवा भास्करकरावभासनं तथा निशायां वृषदंशनयनालोकावलोकनमिति कथं नाभ्युपगम्यते ? / ननु क्षपायां भास्करकरसम्भवे यथा वृषदंशादीनां रूपदर्शनं तद्वद् मनुष्याणामपि रूपदर्शनं स्यादिति चेत् ?, न, निशायां तादृशशक्तेरभावात्तेषां न तथा, यथा दिवाप्युलूकादीनां रूपप्रकाशका दिनकरकरा न भवन्ति, भावानां विचित्रशक्तिमत्त्वादित्यपि कल्पयितुं को निवारयति ?, तस्मात् यथा निशायामनुपलम्भात् भास्करकराभावः प्रतीयते तथैव नायनरश्मीना