________________ 110 सन्दर्भग्रन्थाः द्रव्यचक्षुरिन्द्रियम् ?, न तावत्प्रथमपक्षः, त्वयाऽनङ्गीकारात्, तथा च धर्म्यप्रसिद्ध्या हेतोराश्रयासिद्धिः, कक्षीकारे तु बुद्धिरूपो भावचक्षुरात्मगुणः, स च नार्थेन प्राप्यते, यतः प्राप्तिरपि संयोगस्वरूपा, संयोगश्च गुणः, न च गुणे गुणान्तरमस्ति, “निर्गुणा गुणा" इति वचनात् / द्रव्यचक्षुरपि गोलकरूपमन्यद्वा ?, नाद्यः, प्रत्यक्षबाधात्, बाधश्चैवं प्रत्यक्षेण परिच्छित्तिकाले पदार्थासम्बद्धस्यैव गोलकस्योपलब्धेः, अन्यथा तदानीं पुंसः पक्ष्मप्रदेशे प्रकटकोटरोपलम्भः स्यात्, पदार्थस्य वा गोलकदेशे प्रतीतिः स्यात् / किञ्च नयनस्य स्वविषयेण व्यवहितदेशेन पर्वतादिना सन्निकर्षोऽप्यनुपपन्नः, न खल्वत्यन्तव्यवहितयोः हिमवद्विन्ध्याचलयोरिव नयनगोलकतदर्थयोः संयोगादिलक्षणः सन्निकर्षः सम्भवति, तद्ग्राहकप्रमाणाभावात् / अथ विद्यते तत्प्रसाधकं प्रमाणमिति चेत् ?, ननु तत्कि प्रत्यक्षमनुमानं वा ?, नाद्यं तद्विषये प्रवर्तितुमुत्सहते, न खलु देवदत्तनयनं तद्विषयेण पर्वतादिना सम्बद्धमित्यस्मदादेरक्षप्रभवा प्रतिपत्तिः स्यात् / अथ सन्निकर्षप्रसाधकमनुमानमस्तीति चेत् ?, किं तदनुमानमिति वक्तव्यम्, 'चक्षुःप्राप्तार्थप्रकाशकं, बाह्येन्द्रियत्वात्, त्वगादिवदिति चेत् ? तन्न, नयनगोलकतदर्थयोरसन्निकृष्टयोः प्रत्यक्षेण प्रतिपत्तेः प्रत्यक्षबाधः, सम्मतौ अवयविलक्षणस्य नयनस्यासिद्धेः प्रतिपादितत्वेनाश्रयासिद्धिः, अत एव स्वरूपासिद्धिश्च, नह्यविद्यमानावयविनो बाह्येन्द्रियत्वमुपपन्नम् / अथ चक्षुःशब्देन तद्रश्मयोऽत्राभिधीयन्त इति चेन्न, तेषामप्यसिद्धरनुमानवैकल्यादाश्रयासिद्धिश्च हेतो?निवारा स्यात् / अत एवानुमानात्तत्सिद्धौ नायं दोष इत्यपि न वाच्यम्, परस्पराश्रयप्रसङ्गात्, तद्रश्मिसिद्धौ चाश्रयासिद्धिदोषपरिहारः, तस्मिंश्च सति अस्य हेतोः सिद्धिः / ननु गोलकात् बहिर्भूता रश्मयश्चक्षुःशब्दवाच्या अर्थप्रकाशका इति चेत् ?, तर्हि नयनस्याञ्जनादिना संस्कार उन्मीलनादिकश्च व्यापारो वैयर्थ्यमनुभवेत् / अथ नयनगोलकाश्रयीभूता रश्मयो भवन्ति इति तन्निमीलनेऽसंस्कारे वा तेषामपि स्थगनमसंस्कृतिश्चेति विषयं प्रति गमनं तत्प्रकाशनं च न स्यात्, अत एव तदर्थं संस्कार उन्मीलनादिव्यापारश्च निष्फलत्वं नानुभवेदिति चेत् ? ननु तर्हि नयनगोलकानुषक्तकामलादेरपि प्रकाशकत्वं स्यात्, नहि प्रदीपः प्रलग्नशलाकादिकं न प्रकाशयतीति दृष्टम्, एतद् दूषणं च "गोलकान्तर्गतं तेजो द्रव्यमस्ति, तदाश्रितास्त" इत्यभ्युपगन्तृणामपि समानम्, नहि काचकूपान्तर्गताः प्रदीपरश्मयस्ततो निर्गत्य तद्योगिनमर्थं न प्रकाशयन्तीत्यतस्तेषामसिद्धत्वेन चक्षुःशब्दाभिधेया न ते / एतेन "द्वितीयपक्षे सूक्ष्मं किञ्चिच्चक्षुरिन्द्रियं धर्मितया ह्यधिष्ठाननिष्ठमेव पटिष्ठमर्थपरिच्छेदे स्वीक्रियते" इत्यपि निरस्तम्, तदुपलम्भाभावात् / अत्र सूक्ष्मत्वं नाम किममूर्त्तत्वमाकाशवत् ? यद्वाल्पपरिमाणत्वं परमाणुवत् ?, आद्ये सर्वोपलम्भः स्यात्, द्वितीये तु कान्तारे विहारमुख्योपलम्भो न स्यात्, न खलु शस्त्रविशेषं स्वप्रमाणादधिकप्रमाणविशिष्टघटपटादौ भेदकारि प्रसिद्धम् / एतेन "न खलु न खलु शस्त्रं स्वप्रमाणात्प्रतिष्ठे पटकटशकटादौ भेदकारि प्रसिद्धम्" इति पूर्वपक्षमुपन्यस्य "स्वाधिकपरिमाणग्राहित्वं चास्य गोलकनिर्गतस्य चक्षुषः