________________ विभाग-२ 109 शत्रुञ्जयादिगिरौ गतं पश्यति तथा शरीरमात्मानमपि तत्र चैत्यवन्दनादिक्रियां कुर्वाणं पश्यति, न च तत्तथैव, यतोऽअत्रस्थैः पुरुषैः सुप्तस्येहैव दर्शनात्, आत्मद्वयाऽसम्भवात्, गमनादिजनितपरिश्रमाद्यभावाच्च / ननु स्वप्नोपलब्ध्यनन्तरं जाग्रदवस्थायां तत्कार्यभूता हर्षविषादादयो दृश्यन्ते, यथा "स्वप्ने दृष्टो मयाद्य त्रिभुवनमहितः पार्श्वनाथः शिशुत्वे, द्वात्रिंशद्भिः सुरेशैरहमहमिकया स्नाप्यमानः सुमेरौ / तस्मान्मत्तोऽपि धन्यं नयनयुगमिदं येन साक्षात् स दृष्टः, द्रष्टव्यो यो महीयान् परिहरति भयं देहिनां संस्मृतोऽपि // 1 // " इत्यादिकः स्वप्नानुभूतसुखरोमहर्षः, तथा"प्राकारत्रयतुङ्गतोरणमणिप्रेङ्घत्प्रभाव्याहता, नष्टाः क्वापि रवेः करा द्रुततरं यस्यां प्रचण्डा अपि / तां त्रैलोक्यगुरोः सुरेश्वरवतीमास्थायिकामेदिनी, हा ! यावत् प्रविशामि तावदधमा निद्रा क्षयं मे गता // 1 // " इति, स्वप्नानुभूतदुःखप्रद्वेषलिङ्ग विषादः, इति चेत् ? अत्रोच्यते, न वयं स्वप्नविज्ञानोद्भवान् हर्षविषादादीन् निवारयामः, किन्तु भोजनादिजनितान् तृप्त्यादीन् / यदि स्वप्नविज्ञानात् भोजनादिक्रियाफलं तृप्त्यादिकं स्यात् तदा विषयप्राप्तिरूपा प्राप्यकारिता मनसो युज्यते, न चैतदस्ति तथोपलम्भाभावात् / ननु स्वप्नानुभूतसुरतसङ्गमक्रियाजनितशुक्रपुद्गलसङ्घातरूपस्य फलविशेषस्य प्रत्यक्षतः कस्यचिद्दर्शनात् कामिनीसङ्गमक्रियाऽनुमीयते, तथाहि-स्वप्ने सञ्जातो योषित्सङ्गमः, शुक्रपुद्गलदर्शनात्, वासभवनादाविवेति चेन्न, व्यभिचारात्, तथाहि-जाग्रदवस्थायामपि प्रबलवेदोदययुक्तस्य कामिनी स्मरतो दृढं ध्यायतः प्रत्यक्षामिव पश्यतोऽवबुध्य परिभुक्तामिव मन्यमानस्य तीव्रकामाध्यवसायात् यथा व्यञ्जनविसर्गो भवति तथा स्वप्नेऽपि कामिनीमन्तरेणापि तीव्रकामाध्यवसायात् व्यञ्जनविसर्गो भवति, अन्यथा प्रबुद्धस्य नितम्बिन्या दर्शनं स्यात्, तत्कृतानि च नखदन्तपदान्युपलभ्येरन्, न चैवम्, ततः सिद्धा हेतोरनैकान्तिकता / किञ्च स्वप्ने सुरतक्रियाया योऽसौ व्यञ्जनविसर्गः, स यदि कामिनीं प्राप्य स्यात्, तदा स्वप्नोपभुक्ताया युवतेरपि मयाऽमुकेन सह सुरतक्रियाऽनुभूतेति प्रतीति: स्यात्, एवं गर्भाधानोदरवृद्धिदोहदपुत्रजन्मादिकमपि स्यात्, न च भवति, तस्मात् कामिनीमन्तरेणैव तीव्रकामाध्यवसायात् व्यञ्जनविसर्गः, अतो मनसः न प्राप्यकारिताऽत एव नासिद्धता दृष्टान्तस्य / अत्र व्योमशिवः "चक्षुः प्राप्तार्थपरिच्छेदकं, व्यवहिताप्रकाशकत्वात्, यद्यद्व्यवहिताप्रकाशकं तन्नाप्राप्तार्थपरिच्छेदकं यथा प्रदीपः, व्यवहिताप्रकाशकं च चक्षुः तस्मात्प्राप्तार्थपरिच्छेदकम्" इति पक्षीकरोति, तत्र पृच्छ्यते, भावचक्षुरिन्द्रियं धर्मित्वेनोपादीयत उत