________________ 108 . सन्दर्भग्रन्थाः नुग्रहोपघातशून्यत्वेन हेतोरसिद्धतोद्भावनं मस्तकघातादिविह्वलीभूतेनासम्बद्धभाषिणा सह तुल्यं जातमिति / ननु द्रव्यमनस्कृतावनुग्रहोपघातौ नानुभवामः, तथाप्रतीतेरेवाभावादिति चेत् ?, ननु यथा इष्टानिष्टपुद्गलमयाहारानुभवात् जन्तुशरीराणां पुष्टिहानी भवतस्तथा द्रव्यमनसोऽनुग्रहोपघातौ भवताम्, भवतामत्र पुद्गलमयत्वे समानेऽपि का क्षतिः?, तदुक्तं-"चिन्तया वत्स ! ते जातं शरीरकमिदं कृशम्" इति / ननु तर्हि चिन्तैवोपघातादिजनिकाऽस्त्विति चेत् ?, न, तस्या अपि द्रव्यमनःप्रभवत्वात्, अन्यथा चिन्ताया ज्ञानरूपत्वेन ज्ञानस्य चामूर्त्तत्वेनाकाशवदुपघातादिजनकत्वायोगात्, “जमणुग्गहोवघाया जीवाणं पुग्गलेहितो" इति वचनप्रामाण्याच्च / ततो द्रव्यमनो न विषयदेशं गत्वार्थं परिच्छिनत्ति न वा शरीरस्थमेव हठात् समाकृष्यात्मनः समीपमानीय ज्ञेयमवलम्बत इति ज्ञेयकृतावनुग्रहोपघातौ न भवतः / ननु शब्दादय इष्टानिष्टपुद्गलात्मका इति प्रत्यक्षादिप्रमाणसिद्धत्वेन प्रतीमः, द्रव्यमनस्तु यदिदं किमपि भवद्भिरुद्धष्यते तदिष्टानिष्टपुद्गलमयमस्तीति कथं श्रद्दध्महे इति चेत् ?, इत्थम्, योगिनां प्रत्यक्षतोऽर्वाग्दृशामनुमानतश्च तत्सिद्धेः, तथाहि-यदन्तरेण यद् नोत्पद्यते तद्दर्शनात् तदस्तीति स्वीकर्त्तव्यम्, यथा स्फोटदर्शनात् दहनस्य दाहिका शक्तिः, नोपपद्यते च द्रव्यमनोव्यतिरेकेणात्मनोऽनुग्रहोपघातौ ततस्तदन्यथानुपपत्तेः सिद्धं पुद्गलात्मकं द्रव्यमनः / न च चिन्तनीयवस्तुकृतौ ताविति वाच्यम्, दहनादिचिन्तने दाहादिप्रसङ्गात् / “चिन्तया वत्स ! ते जातं शरीरकमिदं कृशम्" इति लोकोक्तेः चिन्ताज्ञानसहकृतौ तावित्यपि न, चिन्ताज्ञानस्यामूर्त्तत्वेनाकाशवत् कर्तृत्वायोगादित्युक्तमेव, “चिन्तया वत्स" इति लोकोक्तेस्तु कार्ये कारणशक्त्यध्यारोपेणौपचारिकत्वाच्च / ननु चिन्तया खेदादेरुद्भव इति चेत् ?, कोऽयं खेदादिर्नाम? किं मनोद्रव्याण्युत चिन्ताज्ञानं वा?, आद्ये सिद्धसाधनम्, द्वितीयेऽपि विहितोत्तरमेव / न च निर्हेतुको ताविति वाच्यम्, सर्वदा भावाभावप्रसङ्गात्, तदुक्तं "नित्यं सत्त्व-मसत्त्वं वा, हेतोरन्यानपेक्षणात् / अपेक्षातो हि भावानां, कादाचिकत्वसम्भवः // 1 // " इति / न च जीवादिकस्तयोरन्यः कोऽपि हेतुरिति वाच्यम्, तस्य नित्यत्वेन सर्वदा भवनप्रसङ्गात् / तत उक्तयुक्ति-सिद्धं पुद्गलमयं द्रव्यमनः स्वयमात्मनोऽनुग्रहोपघातौ कुर्यात् न तु ज्ञेयकृतौ ताविति तत्प्राप्यकारी न भवति / ननु मा भूत् मनसो जाग्रदवस्थायां प्राप्यकारिता, स्वप्नावस्थायामनुभूयमाना केन निवार्यते, शत्रुञ्जयादिगिरौ मदीयं मनो गतमिति प्रतीतेरिति चेत् ?, अत्रोच्यते, यथा वृत्ताकारत्वेनाशु भ्राम्यमाणमचक्रमप्यलातचक्रं चक्रत्वेनोपलभ्यमानं दृश्यते परं न सत्यम्, तथा स्वप्नमपि न सत्यं, शत्रुञ्जयगिरिगमनाद्यर्थाभावात् / तदभावश्च स्वप्नोपरमे प्रबुद्धस्य शरीरस्थस्यैव मनसोऽनुभूयमानत्वात् / ननु स्वप्नावस्थायां शरीरान्निर्गत्य शत्रुञ्जयादिगिरौ मनो गच्छति, जाग्रदवस्थायां पुनरागत्य शरीरमनुप्रविशतीति न दोष इति चेत् तन्न युक्तिघटकम्, यथा कश्चित् स्वकीयं मनः