________________ विभाग-२ 107 भोक्तृत्वादिक्रियाविरोधप्रसङ्गात् / न च प्रकृतेरेव भोगादिकरणक्रिया न पुरुषस्येति वाच्यं, आदर्शप्रतिविम्बोदयन्यायेन तत्र क्रियाणामिष्टत्वात्, "चैतन्यं पुरुषस्य स्वख्यम्" इति वचनात् प्रकृतेर्जडत्वेन भोगादिक्रियाऽयोगाच्च, अन्यथा घटादीनामपि तत्प्रसङ्गात् / किञ्चात्मनः सर्वगतत्वे तदव्यतिरिक्तभावमनसोऽपि. सर्वगतत्वं स्यात्, तथा च सर्वार्थप्राप्तेः सर्वस्य सर्वज्ञत्वापत्तिः / ननु प्राप्तानपि सर्वार्थान् उक्तदोषभयात् न गृह्णातीति चेत् ?, तर्हि ग्राह्यत्वेनेष्टानप्यर्थान् मा गृह्णीत, भावमनसः प्राप्तत्वाविशेषात्, ग्राह्यत्वेनानिष्टार्थवदिति भावः / ननु प्राप्तत्वाविशेषेऽपि कांश्चिदर्थान् गृह्णाति कांश्चित् नेति चेत् ?, तर्हि तवाभिप्रायेणेश्वरचेष्टितमिति व्यक्तं जातम्, न चैतत् युक्तिघटकमिति / एवं सर्वगतत्वे दहनदाहवेदनापाटनक्लेदयोऽपि स्युः / न च यत्रैव शरीरं तत्रैव ते भवन्ति नान्यत्रेति चेत् ?, कुत इति वक्तव्यम्, आज्ञामात्रादेवेति चेत् ?, न, तस्या इहाविषयत्वात् / ननु शरीरस्य सहकारिभावेन तथात्वमिति चेत् ?, न, नित्यस्यात्मनः सहकारित्वापेक्षाया अयोगात्, तथाहि-अपेक्ष्यमाणेन सहकारिणा किमात्मनः कश्चित् उपकारविशेषः क्रियते न वा? क्रियते चेत् ?, उपकार: किमात्मनोऽर्थान्तरभूतः, अनर्थान्तरभूतो वा ?, यदि प्रथमः पक्षस्तर्हि न किञ्चित्तस्य कृतं स्यात्, द्वितीयश्चेत् ?, तत्करणे तदव्यतिरिक्तस्यात्मनोऽपि कृतत्वप्रसङ्गः, आत्मनः कार्यत्वेनानित्यत्वापत्तिश्च, न क्रियत इति चेत् ?, तर्हि न तस्य सहकारित्वं, विशेषाकरणात् / अथ विशेषमकुर्वन्नपि सहकारीष्यते तर्हि विश्वविश्वस्यापि सहकारिताप्राप्तिः, विशेषाकरणत्वस्य तुल्यत्वादिति व्यर्था शरीरमात्रापेक्षेति / तस्मात् शरीरमात्रवृत्तिरेवात्मा न सर्वगत इति तदव्यतिरिक्तस्य ,भावमनसोऽपि शरीरात् बहिर्देशगमनं न युक्तमिति / नापि द्रव्यमनो विषयदेशं प्रति व्रजति, यतः काययोगसहकृतस्य जीवगृहीतचिन्ताप्रवर्तकमनोवर्गणान्तःपातिद्रव्यसमूहात्मकस्य द्रव्यमनसोऽचेतनत्वेन स्वयं विज्ञातृत्वं न भवति, घटवत्, ततस्तत्र गमनेऽपि न विषयं परिच्छिनत्ति / ननु वयं न ब्रूमो यत् स्वयं द्रव्यमनो गत्वा विषयं परिच्छिनत्ति किन्तु मनोद्वारेणात्मा, अत्रानुमानं 'बहिनिर्गतेन द्रव्यमनसा आत्मा विषयं प्राप्य जानाति, स करणत्वात्, प्रदीपमणि चन्द्रसूर्यादिप्रभयेवे' ति चेत् ?, अर्थपरिज्ञाने द्रव्यमनसः करणत्वं को न मन्यते, किन्तु करणं द्विधा, तद्यथा-अन्तःकरणं, बाह्यकरणं च / तत्र द्रव्यमन आत्मनो. ऽन्तःकरणम्, बाह्यकरणं प्रदीपप्रभादिकम्, अन्तःकरणं तु शरीरस्थितमेव विषयं जानाति, स्पर्शनवत्, मणिप्रभादीनां च बाह्यकरणत्वेन दृष्टान्तस्य साधनविकलतेति / न च पद्मनालतन्तुन्यायेन द्रव्यमनसो बहिर्गमनं भवत्वित्यपि वाच्यम्, अन्तः करणस्य स्पर्शनवत् बहिर्गमनाभावात् / तदेवं भावमानसो द्रव्यमनसश्च बहिर्गमनाभावेन मनसोऽप्राप्यकारित्वं सिद्धं, तत्सिद्धौ च न दृष्टान्तासिद्धिः / न चा दिध्यानातिशयात् हृद्रोगादिरूपस्योपघातस्य, पुत्रजन्मादिरूपाभीष्टप्राप्तिचिन्तासमुद्भूतहर्षादिरूपानुग्रहस्य सत्त्वेनानुग्रहोपघाताभावरूपो हेतुरसिद्ध इति वाच्यम्, विषयकृतानुग्रहोपघाताभावात् / पुत्रजननमरणकृतहर्षशोकौ तु द्रव्यमनस्कृतौ, हृदयदेशाश्रितनिबिडप्ररूढग्रन्थिवत्, ततो विषयकृता