________________ 106 सन्दर्भग्रन्थाः प्रयोगश्चात्र न चक्षुषो विषयपरिमाणम्, अप्राप्यकारित्वात्, मनोवत् इति चेत् ?, न, दृष्टान्तस्य साध्यविकलत्वात्, नहि मनोऽपि सर्वान् विषयान् गृह्णाति, तस्यापि सूक्ष्मेष्वागमगम्यादिपदार्थेषु मोहदर्शनात्, ततो यथा मनसोऽप्राप्यकारित्वेऽपि स्वावरणक्षयोपशमसापेक्षं विषयग्रहणमेवं नयनस्यापि स्वावरणक्षयोपशमसापेक्षं योग्यदेशावस्थितनियतविषयग्रहणं स्यात्, तेन न व्यवहितानां न वा दूरदेशस्थितानां ग्रहणं भवति, दृष्टं चेतदयस्कान्तेऽपि, न चाप्राप्यकारित्वेऽपि तस्य विश्ववर्त्तिनिखिललोहाकर्षणं युज्यते किन्तु योग्यदेशस्थितस्यैवेति / यत्तु शङ्कराचार्यः प्राह-"अयस्कान्तोऽपि प्राप्यकारी अयस्कान्तच्छायाणुभिः सह समाकृष्यमाणवस्तुनः सम्बन्धभावात्, केवलं ते छायाणवः सूक्ष्मत्वान्नोपलभ्यन्ते" इति, तन्न सम्यक्, तद्ग्राहकप्रमाणाभावात्, न च छायाणुसम्भवग्राहकं किञ्चित्प्रमाणमस्ति / यद् ‘आकर्षणं तत्संसर्गपूर्वकं दृष्टं यथाऽयोगोलकस्य सन्दंशेन, आकर्षणं चायसोऽयस्कान्तेन तत्र साक्षात् संसर्गोऽयस्कान्ते प्रत्यक्षबाधित इत्यर्थात् छायाणुभिः सह द्रष्टव्य' इति तदपि बालजल्पितम्, मन्त्रेण व्यभिचारात्, तथाहि-स्मर्यमाणोऽपि मन्त्रो विवक्षितं वस्त्वाकर्षति. न च तत्र कोऽपि सम्बन्धः / किञ्च, यथा छायाणवः प्राप्तमयः समाकर्षन्ति तथैव संसर्गीभूतं काष्ठादिकं कथं नाकर्षन्ति ? शक्तिप्रतिनियमादिति चेत् ? अप्राप्तावपि शक्तिप्रतिनियमस्तुल्य एवेति छायाणुप्रकल्पनं व्यर्थम् / ननु नयनात् नायना रश्मयो निर्गत्य विषयं प्राप्य च रविबिम्बरश्मय इव वस्तु प्रकाशयन्तीति नयनस्य प्राप्यकारिता, सूक्ष्मत्वेन तैजसत्वेन च तेषां वढ्यादिभिरिव दाहादयो न भवन्ति, भानुकिरणेषु तथादर्शनादिति चेन्न, तेषां प्रत्यक्षादिप्रमाणाग्राह्यत्वेन श्रद्दधितुमशक्यत्वात् तथाविधानां कल्पनेऽप्यतिप्रसङ्गात् / न च वस्तुपरिच्छेदान्यथानुपपत्तेस्तत्कल्पनमावश्यकमिति वाच्यम्, तानन्तरेणापि मनोवत् तत्परिच्छेदोपपत्तेः, नापि रविरश्म्युदाहरणमात्रेणाचेतनानां नयनरश्मीनां वस्तुपरिच्छेदो युज्यते, अन्यथा नखदन्तभालतलादिगतशरीररश्मीनामपि स्पार्शनविषयवस्तुपरिच्छेदप्रसङ्गात्, नयनरश्मीनामग्रे विस्तरेण निषेत्स्यमानत्वाच्च / न चान्यत्र गतं मे मन इत्याबालगोपालप्रसिद्धत्वेन मनो वस्तुदेशं गत्वा विषयं परिच्छिनत्तीति दृष्टान्तासिद्धिरिति वाच्यम्, तोयज्वलनादिविषयचिन्तनकाले स्पर्शनवदनुग्रहोपघाताभावात् / किञ्च द्रव्यमनो विषयदेशं प्रति गच्छति, उत भावमनः ?, न तावत् भावमनः, तस्य चिन्ताज्ञानपरिणामरूपत्वेनात्मनोऽनतिरेकात् आत्मैव भावमनो भवति स च देहमात्रव्यापित्वेन न बहिर्गमनं करोति, यथा शरीरवर्तिरूपादयः / ननु देहमात्रव्यापी आत्मा न भवति, अमूर्तत्वादाकाशवदिति चेत् ?, अत्र समाधिः, आत्मनः सर्वगतत्वे सति आबालगोपालप्रसिद्धाः कर्तृत्वादयो धर्मा न घटेरन्, तथा चआत्मा न कर्ता, भोक्ता, नापि संसारी, न ज्ञानी, न सुखी, न वा दुःखी, सर्वगतत्वात्, आकाशवदित्यनिष्टापत्तिः स्यात् / ननु साङ्ख्यमते आत्मनो निष्क्रियत्वेनेष्टापत्तिरियमिति, तदुक्तं-"अकर्ता निर्गुणो भोक्तात्मा" इति चेत् ?, तदपि न युक्तम्, आत्मनो निष्क्रियत्वे प्रत्यक्षादिप्रमाणोपलब्ध