________________ विभाग-२ 105 प्राप्यकारीणि, नयनं त्वप्राप्यकारीति / विषयीभूतं शब्दादिकं वस्तु प्राप्तं सत् संश्लेषद्वारेणासादितं कुर्वन्ति परिच्छिन्दन्तीति प्राप्यकारीणिस्पृष्टार्थग्राहीणीति यावत् / कथं पुनः चत्वार्येवः प्राप्यकारीणीति चेत् ?, उपघातानुग्रहभावात्, तथाहि-कर्कशकम्बलादिस्पर्शने त्वगिन्द्रियस्य, त्रिकटुकाद्यास्वादने रसनेन्द्रियस्य, अशुच्यादिपुद्गलाघ्राणे घ्राणेन्द्रियस्य, भेर्यादिशब्दश्रवणे श्रोत्रस्य च त्वक्खननाद्युपघातो भवति, चन्दनाङ्गनाहंसतूलादिस्पर्शने त्वगिन्द्रियस्य, क्षीरशर्कराधास्वादने रसनेन्द्रियस्य, कर्पूरपुद्गलाद्याघ्राणे घ्राणेन्द्रियस्य, मृदुमन्द्रशब्दाद्याकर्णने श्रवणस्य च शैत्याद्यनुग्रहो भवति / नयनस्य तु निशीथकरपत्रशैलमहाज्वालादिवीक्षणे न पाटनाद्युपघातो भवति, नापि चन्दनागुरुकर्पूरकस्तूरिकाद्यवलोकनेपि शैत्याद्यनुग्रहो भवति / एवं चिन्तने मनसोऽपि अनुग्रहोपघातौ न भवतः / ननु घ्राणेन्द्रियं प्राप्यकारि न भवति, यतो घ्राणेन्द्रियं विषयदेशं गत्वा न गन्धं गृह्णाति, तथानुभवाभावात्, नापि गन्धो घ्राणेन्द्रियं प्रविशन्नुपलभ्यते, न चाभ्यामन्येनापि प्रकारेण विषयस्पर्शनं घटते, अनुभूयते च निर्विवादं कर्पूरकुसुमकुङ्कुमादीनां दूरस्थानामपि गन्ध इति चेत् ?, अत्रोच्यते, स्पर्शनादिवदबाह्यकरणत्वेन घ्राणेन्द्रियं गन्धदेशं गत्वा गन्धं न गृह्णाति किन्तु गन्धः स्वयमागत्य घ्राणेन्द्रियं स्पृशति, पुद्गलमयत्वेन सक्रियत्वात्, आर्हतमते गगनादीनां सक्रियत्वेऽपि तत्र यथा गमनक्रियाभावः तद्वत् सक्रियस्यापि गन्धस्य गमनक्रिया न स्यात् अतस्तद्व्यावृत्त्यर्थं 'पुद्गलमयत्वं' हेतोविशेषणम् / यत्र पुदगलमयत्वे सति सक्रियत्वं तत्र गमनक्रिया विद्यत एव यथा पुद्गलस्कन्धेषु / ननु पुद्गलमयत्वेऽपि गन्धे गमनक्रियाऽस्तीति कुतो निश्चीयते इति ? यथा पवनपटलेनोह्यमानत्वात् धूमो गमनक्रियावान् एवं गन्धोऽपि वायुनोह्यमानत्वात् तद्वान् / तथा संहरणतो गृहादिषु पिण्डीभवनात् तद्वदेव क्रियावान्, एवं विशेषेण द्वारादिविघाततस्तोयवत्, पर्वतनितम्बादिषु च प्रतिघातात् वायुवत् क्रियावान् गन्धः / अतोऽत्र गन्धः समागच्छतीति प्रत्ययोऽपि लोके सङ्गच्छते / घ्राणेन्द्रियेण सम्बद्धो गन्धो पूत्याधुपघातमनुग्रहं वा जनयितुमलम्, नान्यथा, सर्वस्यापि तज्जननप्राप्तेरतिप्रसङ्गादिति / एवमेव श्रवणेन्द्रियस्यापि प्राप्यकारित्वं वाच्यम्, अग्रे विशेषतः प्रतिपादयिष्यामश्च / लोचनमपि मनोवदप्राप्तविषयम्, अनुग्रहोपघाताभावात् / न च नयनस्य चन्द्रदर्शनेनानुग्रहस्य रविदर्शनेन चोपघातस्य भावाद् व्यभिचार इति वाच्यम्, स्पर्शनादिवत् दाहपाटनादिरूपानुग्रहोपघाताभावात् / ननु नयनस्याप्राप्यकारित्वे मनोवत् कस्मात् दूरव्यवहितान् सर्वानपि पदार्थान् चक्षुर्न विषयीकरोति, प्राप्यकारित्वे तु यदेवानावृत्तमदूरदेशस्थं वा वस्तु तदेव गृह्णीयात् नावृत्तं दूरवर्त्ति वा, तत्र नयनांशूनां गमनासम्भवेन सम्पर्काभावात्, तदुक्तं-"प्राप्यकारि चक्षुः, उपलब्ध्यनुपलब्ध्योरनावरणेतरापेक्षणात्, अदूरेतरापेक्षणाच्च, यदि हि चक्षुरप्राप्यकारि भवेत्तदाऽऽवरणभावादनुपलब्धिरन्यथोपलब्धिरिति न स्यात्, नहि तदावरणमुपघातकरणसमर्थम्, प्राप्यकारित्वे तु मूर्त्तद्रव्यप्रतिघातादुपपत्तिमान् व्याघातः, अतिदूरे च गमनाभावादिति" /