________________ 104 सन्दर्भग्रन्थाः शब्दादेः श्रोत्रादि, तथा च तर्कोल्लेख:यदि चक्षुः प्राप्यकारिस्यात्तदात्यासन्नार्थग्राहकमपि स्यादिति तर्कोपजीवितप्रयोगोपि, यथा चक्षुर्न प्राप्यकारि अत्यासन्नार्थाग्राहकत्वात्, यन्नैवं तत्रैवं, यथा स्पर्शनं, अथ तुष्यतु दुर्जन इतिन्यायात्तावत्तवांगीकृतं चक्षुःप्राप्यकारित्वमप्यङ्गीक्रियते यदि विकल्पसहं स्यात् / तथाहि-तथाविधं प्राप्यकारित्वं किमु कथं तेषु अर्थेषु गत्वा गृह्णाति, अथवा तेऽर्था अत्र देशे चक्षुःप्रदेशे आयान्तीति विकल्पद्वयमिति वृत्तार्थः // 7 // द्विधाप्ययुक्तं हि गतस्य तस्य / वह्नयादिकार्थेषु कथं न दाहः // भूभूधराद्यर्थसमागमेऽपि / नाच्छादनं स्यात् किमु तस्य चक्षुषः // 8 // अथ विकल्पद्वयमध्यन्यातरविकल्पाङ्गीकारेणाऽदक्षतां यौगस्य दर्शयति द्विधाप्य० द्विधापि उभयथापि अयुक्तं स्यात् न तु युक्तिमत्त्वं स्यात्, तत्कथमिति तावत् प्रथमपक्षे दोषं दर्शयति, यदि हि चक्षुस्तेषु गत्वा गृह्णाति तदा तस्य चक्षुषोवढ्यादिकार्थेषु गतस्य दाहोदहनं कथं न स्यात्, अथार्था श्चक्षुःप्रदेशे समायान्ति इति द्वितीयविकल्पं दूषयति, भूः पृथ्वी भूधराः पर्वतास्तेषां चक्षुःप्रदेशे समागमे, भूभूधराद्यर्था यदि चक्षुःप्रदेशे समायान्ति तदा किं स्यादित्यत आह-तस्य चक्षुष आच्छादनं आवरणं किमु न स्यात् / ते ह्यागताश्चक्षुराच्छादयन्ति, तथा च लाभमिच्छतो मूलक्षतिस्तवायाति इति वृत्तार्थः // 8 // // मार्गणाद्वारविवरणम् // तत्र स्पृष्टमालिङ्गितं, बद्धं च तोयवदात्मप्रदेशैरात्मीकृतमालिङ्गितानन्तरमात्मप्रदेशैरागृहीतमित्यर्थः, तदुक्तं-"बद्धमप्पकयं पएसेहिं पुटुं रेणुं च तणुम्मि" इति वचनात् / रूपं त्वस्पृष्टमेव पश्यति, तदुक्तं "पुढे सुणेइ सदं, स्वं पुण पासई अपुटुं तु / गंधं रसं च फासं च बद्धपुढे वियागारे // 1 // " इति / ननु स्पृष्टं शब्दं शृणोतीत्यत्र शब्दप्रयोगनिसृष्टान्येव केवलानि शब्दद्रव्याणि शृणोति यद्वाऽन्यानि तद्वासितानि मिश्राणि वा ? उच्यते, न तावत्केवलानि, यतो वासकानि शब्दद्रव्याणि, शब्दयोग्यानि च द्रव्याणि सकलव्यापीनि, ततोऽवश्यं तद्वासितानि शृणोति मिश्राणि वा, न केवलान्येवोत्सृष्टानि / तत्रापि भाषासमश्रेणिव्यवस्थितः पुरुषः पुरुषादिसम्बन्धिनं भेर्यादिसम्बन्धिनं वा शब्दं मिश्रमुत्सृष्टशब्दद्रव्यभावितापान्तरालस्थद्रव्यमिश्रं श्रृणोतीति, विश्रेणिस्थितस्तु नियमेन पराघाते सति शब्दं श्रृणोति, नान्यथा, एतदुक्तं भवति-उत्सृष्टशब्दद्रव्याभिघातेन यानि वासितानि शब्दद्रव्याणि तान्येव केवलानि श्रृणोति, न कदाचिदप्युत्सृष्टानि, कुत इति चेत् ?, तेषामनुश्रेणिगमनत्प्रतिघाताभावाच्चेति / ननु रूपमस्पृष्टं पश्यतीति कथमुक्तमिति चेत् ?, नयनेन्द्रियस्याप्यकारित्वात् / ननु कानीन्द्रियाणि प्राप्यकारीणि कानि चाप्राप्यकारिणीति चेत् ?, चक्षुर्वर्जानि सर्वाणीन्द्रियाणि