________________ विभाग-२ 103 // स्याद्वाद मुक्तावलिः // असन्निकृष्टं प्रमितेहिचक्षुरप्राप्यकारित्वत एवं हेतोः / तदुद्भवः स्यात्खलु सन्निकर्षाभावेपि तस्यां न घटेत तत्ता // 57 // चक्षुर्मनोवद्विषयोद्भवानुग्रहोपघातानुपलम्भतोपि / अप्राप्यकारीन्द्रियमण्डलेषु स्याद् व्यञ्जनावग्रहकश्चतुर्षु // 58 // न विद्यते चक्षुषि तैजसत्वं न रश्मिवत्ता न च तद्गतिस्तु / अप्राप्तवस्तु प्रवर प्रकाशे तद्योग्यतैवं शरणं वदन्ति // 59 // // युक्ति प्रकाशः // न संनिकर्षोऽपि भवेत्प्रमाणं / प्रमाकृतौ तद्व्यभिचारदर्शनात् // अप्राप्यकार्यम्बकसंनिकर्षो / घटादिनाऽर्थेन कथं भवेत् पुनः // 6 // अथ सुगतामतमपाकृत्य नैयायिकमतमपाकरोति, न सन्नि० चेत्प्राप्य० द्विधाप्य० न तैज० अग्रगकाव्यगतं यौगपदमध्याहृत्यात्र व्याख्येयं, हे यौग ! त्वया प्रमाणत्वेन कल्पितोऽपि सन्निकर्षः प्रमाणं न भवेत् कुत इति हेतुमाह प्रमाकृतौ प्रमाजनने तदिति तस्य सन्निकर्षस्य व्यभिचारदर्शनात्, भावार्थ स्त्वयं-प्रमासाधकतमं प्रमाणमिति प्रमाणलक्षणं त्वयाऽभ्युपगतं, यद्यस्मिन् सति भवत्येवाऽसति च न तत्तस्य साधकतमं क्वचित् सत्यपि संनिकर्षे प्रमाया अनुत्पादात्, क्वचिद् सत्यपि प्रमोत्पत्ते रित्यत्रान्वयव्यतिरेकाभ्यां व्यभिचारदर्शनात्, तथाहि गगनस्य विभुत्वेन सकलमूर्तद्रव्यसंयोगित्वं विभुत्वमिति वचनाद् गगनचक्षुषोर्घटचक्षुषोरिव सन्निकर्षण घटविषयकप्रमाया अजननात्, न च तत्र योग्यताया अभावान्न सन्निकर्षस्तत्प्रमां जनयतीति वाच्यं, योग्यतांगीकारे किमन्तर्गडुना सन्निकर्षेण, योग्यताहि प्रतिबन्धकाऽभावः, स च स्वावरणक्षयोपशमरूपं भावेंन्द्रियमेव, तथा चास्मकक्षापञ्जरप्रवेशः, विशेषणज्ञानाद्विशेष्यप्रमायां जायमानायां क्वचिदसत्यपि संनिकर्षे प्रमोत्पत्तेरिति स्थितमेतन्न सन्निकर्षः प्रमाणमिति, अथ ग्रामो नास्ति कुतः सीमेति न्यायात् घटाद्यर्थैः संनिकर्ष एव न संभवति, तस्य प्रमाणाऽप्रमाणत्वविचारस्तु दूरेऽस्त्विति दर्शयति, अप्रपाप्येति अप्राप्यकारि यदम्बकं चक्षुस्तस्य घटदिनार्थेन सन्निकर्षः कथं भवेन्न कथमपीत्यर्थः, यदि चक्षुः प्राप्यकारि स्यात् तदाऽस्यार्थप्राप्त्या सन्निकर्षः संम्भवतीति भावार्थ इति वृत्तार्थः // 6 // चेत्प्राप्यकार्यम्बकमस्ति यौगा-त्यासन्नमर्थं हि कथं न पश्यति // तथाविधं सत्किमु तेषु गत्वा / गृह्णातिवायांत्यथ तेऽत्रदेशे // 7 // अथ चक्षुःप्राप्यकारित्वं निरस्यति, चेत्प्राप्य० चेदम्बकं चक्षुः प्राप्यकारि हे यौग ! अस्ति तदात्या-सन्नमञ्जनादिकमर्थं कथं न गृह्णातीत्यर्थः / यद्यत् प्राप्यकारिदृष्टं तदत्यासन्नार्थग्राहकमपि, यथा