________________ 102 . सन्दर्भग्रन्थाः // प्रमाणमीमांसा // ___ सन्निकर्षोऽपि यदि योग्यतातिरिक्तः संयोगादिसम्बन्धस्तहि स चक्षुषोऽर्थेन सह नास्ति अप्राप्यकारित्वात्तस्य / दृश्यते हि काचाभ्रस्फटिकादिव्यवहितस्याप्यर्थस्य चक्षुषोपलब्धिः / अथ प्राप्यकारि चक्षुःकरणत्वाद्वास्यादिवदिति ब्रूषे; तर्हायस्कान्ताकर्षणोपलेन लोहासन्निकृष्टेन व्यभिचारः / न च संयुक्तसंयोगादिः सन्निकर्षस्तत्र कल्पयितुं शक्यते, अतिप्रसङ्गादिति / . ॥प्रथमकर्मग्रन्थ टीका // मनोनयनयोर्वर्जनं किमर्थम् ! इति चेद् उच्यते मनोनयनयोरप्राप्तकारित्वात्, अप्राप्तकारित्वं च विषयकृतानुग्रहोपघातशून्यत्वात्, प्राप्तकारित्वे पुनरनलजलशूल्यादीनां चिन्तनेऽवलोकने च दहनक्लेदनपाटनादयः स्युः / अत्र च विषयदेशं गत्वा न पश्यति, प्राप्तं चार्थं नालम्बत इत्येतावन्नियम्यते, मूर्तिमता पुनः प्राप्तेन भवत एवानुग्रहोपघातौ दिनकरकिरणादिनेति / अन्यस्त्वाह-व्यवहितार्थानुपब्धेरनुमानात् प्राप्तकारित्वं लोचनस्येति, एतदयुक्तम्, अनैकान्तिकत्वात्, काचाभ्रपटलस्फटिकान्तरितस्याप्युपलब्धेः / स्यादेतत्, नायना रश्मयो निर्गत्यतमर्थं गृह्णन्तीति दर्शनरश्मीनां तैजसत्वात् तेजोद्रव्यैरप्रतिस्खलनाददोष इति, एतदप्ययुक्तम्, महाज्वालादौ प्रतिस्खलनोपलब्धेरित्यत्र बहु वक्तव्यम् तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् / // गर्गमहर्षि विरचित प्राचीन कर्म विपाक नामाकर्मग्रन्थस्य परमानन्दसूरिकृत वृत्तिः // __स च चतुर्विधो 'नयनमनो वर्व्यम्' इति वचनात् / तथाहि न चक्षुषाऽर्थो व्यज्यते गम्यते प्राप्यते, अप्राप्यकारित्वाच्चक्षुषः / किन्तु योग्यदेशस्थमेव चक्षुर्योग्यदेशस्थमर्थं गृह्णाति साक्षात्करोति, न पुनः प्राप्य गृह्णाति / प्राप्यग्रहणे चक्षुषः स्फोटादिरनिन्द्रियं चाधिष्ठानं स्यात् / तथा मनोऽप्येवमेव द्रष्टव्यम्, तस्याप्यप्राप्यकारित्वात् / द्रव्यलोक प्रकाशः स्पृष्टार्थग्राहकत्वं यत्, परैरक्ष्णोऽपि कथ्यते / तदयुक्तं तथात्वे हि, दाहः स्याद्वन्ह्यवेक्षणात् // 31 // तथा-काचपात्राद्यन्तरसथं, दूरादेवेक्ष्यते जलम् / तद्भित्त्वान्तः प्रवेशे तु, जलश्रावः प्रसज्यते // 32 // इत्याद्यधिकं रताकरावतारिकादिभ्योऽवसेयं, विस्तरभयान्नेह प्रतन्यते, यच्च सिद्धांते 'चक्खुप्फासं हव्वमागच्छइ' इति श्रूयते, तत्र स्पर्शशब्देन इन्द्रियार्थसन्निकर्ष उच्यते, तथाहुः'सूरिएचक्खुप्फासं हव्वमागच्छइ' इत्येतज्जम्बुद्वीपप्रज्ञप्तिप्रतीकवृत्तौ- "अत्र च स्पर्शशब्द इन्द्रियाथसन्निकर्षपर-श्चक्षुषोऽप्राप्यकारित्वेन तदसम्भवा" दिति /