________________ विभाग-२ 101 सन्निकर्षत्वेनेन्द्रियसन्निकर्षस्य कारणत्वं "यत्सामान्ययोः कार्यकारणभावस्तद्विशेषयोरपि सः" इति न्यायावलम्बनेन चाक्षुषप्रत्यक्षम्प्रत्यनन्तसंयोगानां चक्षुस्संयोगत्वेनानुगमय्य तद्रूपेणानुगतं कारणत्वञ्चाभ्युपगम्यत इति तदुत्तरकालभाविगौरवं फलमुखं न दोषाय, तदुक्तं चिन्तामणिकारेण, "प्रत्यक्षविशेषे इन्द्रियार्थसन्निकर्षविशेषो हेतुरनुगत एव" इत्यपि निरस्तम्, प्रत्यक्षसिद्धसामीप्यसम्बन्धेनैव चाक्षुषप्रत्यक्षोपपत्तेरतीन्द्रियसंयोगकल्पनायां प्रमाणाभावात्, कार्यलिङ्गकेन कारणानुमानेन तत्सिद्ध्यभ्युपगमे वोक्तसम्बन्धेन तस्यान्यथासिद्धत्वात् / न चैवं तर्हि चक्षुरप्राप्यविषयं तत्प्रत्यक्षजानकारीति स्वसिद्धान्तभङ्गप्रसङ्ग इति वाच्यम् चक्षुस्सन्निकर्षद्वारा प्रत्यक्षजनकमिति चक्षुस्स्वविषयं घटादिकं संयुज्य तत्प्रत्यक्षं करोतीति न्यायमतनिरास एवोक्तसिद्धान्तस्य तात्पर्यात् / किञ्च चक्षुरश्मीनां विषयैस्सह संयोगानन्तरं तत्प्रत्यक्षोत्पादकत्वाभ्युपगमे युगपदेव शाखानिशाकरयोः प्रत्यक्षं न स्यात्, युगपदुभयसंयोगाभावात् / अथ यद्यपि चक्षुरश्मीनामतिवेगाच्छाखासंयोगानन्तरमविलम्बेनैव शीतकरसंयोगादनुक्रमेणैव शाखायाश्चन्द्रमसश्च साक्षात्कारस्तथापि शतपत्रशूचीवेधदृष्टान्तबलेन तत्र यौगपद्याभिमान एवेत चेत्, तर्हि प्रथमे क्षणे शाखासंयोगः, द्वितीये च शाखानिर्विकल्पश्चन्द्रमस्संयोगश्च, तृतीये शाखासविकल्पज्ञानं चन्द्रमोविकल्पज्ञानञ्च, चतुर्थे शाखाज्ञानज्ञानत्वनिर्विकल्पज्ञानं चन्द्रमस्सविकल्पज्ञानञ्च, शाखानिविकल्पज्ञाननाशश्च, पञ्चमे शाखां साक्षात्करोमीत्यनुव्यवसायज्ञानं, चन्द्रज्ञानज्ञानत्वनिर्विकल्पज्ञानं, शाखासविकल्पज्ञाननाशश्च, चन्द्रनिर्विकल्पज्ञाननाशश्च, षष्ठक्षणे चन्द्रमसं साक्षात्करोमीत्यनुव्यवसायश्चन्द्रसविकल्पज्ञाननाशश्शाखाज्ञानत्वनिर्विकल्पज्ञाननाशश्चेति प्रक्रियया क्रमेणैव तदुभयानुव्यवसायोत्पत्त्यभ्युपगमाद युगपदेव शाखाचन्द्रमसौ साक्षात्करोमीत्यनुव्यवसायानुपपत्तिस्स्यात् / न च क्रमिकोत्पन्नशाखाचन्द्रसाक्षात्कारानुभवजनितक्रमिकसंस्कारद्वयस्य युगपदेव प्रबोधात्तदुत्पन्नायां शाखाचन्द्रोभयावगाहिन्यां स्मृतावेव साक्षात्कारत्वारोपाच्छाखाचन्द्रमसौ युगपदेव साक्षात्करोमीत्यनुव्यवसाय इति साम्प्रतम्, ताहगारोपादिकल्पनायां प्रमाणाभावात् / न च तिर्यग्भावावस्थितयोश्शाखाचन्द्रमसोर्युगपन्नेत्रतेजसा संयोगान्नोक्तानुपपत्तिरिति वाच्यम्, सन्निहितव्यवहितयोयुगपत्संयोगेऽतिप्रसङ्गात् / अथ नेत्राब्दहिनिर्गततेजसाऽर्थसंयोगसमकालमेव बाह्यालोकसहकारेणान्यचक्षुराम्भादेकस्य चक्षुषश्शाखयाऽन्यस्य च चन्द्रमसा संयोगाद् युगपच्छाखाचन्द्रमसोर्ग्रह इति चेत्, मैवम्, उद्भूतरूपवदालोकात्मकतेजःसंसर्गेणाऽनद्भूतरूपवत्तेजोविशेषात्मक चक्षुराऽऽरम्भस्यायोगात्, योगे वा बाह्यचक्षुषा पृष्ठावस्थितवस्तुग्रहप्रसङ्गादित्यधिकं गौरवमीत्या नोच्यते / तदेवं चक्षुर्मनसोः प्राप्यकारित्वाऽसिद्धथा इन्द्रियसन्निकर्षोत्पन्नं ज्ञानमिति प्रत्यक्षलक्षणाऽसङ्गतेः पूर्वं व्यवसायात्मकज्ञानेन सह मनस्संयुक्तसवायसन्निकर्षस्याभावेऽपि ज्ञानस्य स्वप्रकाशात्मकत्वादेवानुव्यवसाये मानोपपत्तेस्तत्प्रत्यक्षं भवत्येवेति स्वपरव्यवसायिज्ञानं प्रमाणमिति सिद्धम् /