________________ 100 - सन्दर्भग्रन्थाः मात्रानुपलम्भप्रसङ्गस्स्यात्, यतो न हि रविकिरणेषु काञ्चनाचलापेक्षया नेत्ररश्मिप्रतिघातकत्वं घटपटाद्यपेक्षया तदभावश्चेति वक्तुं शक्यम्, शक्यत्वे वा स्याद्वादस्यैव साम्राज्यं स्यात् / अथ यद्यप्राप्तार्थप्रकाशकं चक्षुस्तीप्राप्तत्वाऽविशेषात् सर्वमपि त्रिभुवनान्तर्वर्त्तिवस्तुनिकुरम्बं प्रकाशयेदिति चेत्, तदप्यसङ्गतम्, चक्षुषो योगार्थग्रहणस्वाभाव्यादेव यत्स्वयोग्यं तस्यैव तेन प्रकाशनात्, अन्यथा चक्षुस्संयुक्तसमवायसन्निकर्षो यथा कुवलयरूपे तथा तद्गन्धेऽपीति तच्चाक्षुषोदयप्रसङ्गेनान्येन्द्रियाणां वैयर्थ्यं स्यात् / एतेन चक्षुषो विषयमप्राप्य प्रत्यक्षजनकत्वाम्युपगमे कुडयादिव्यवहितस्यापि प्रत्यक्षं स्यादित्यपि निरस्तम्, विषयनिष्ठव्यवधानाऽभावकूटरूपयोग्यताया अपि अञ्जनाद्यजन्यचाक्षुषप्रत्यक्षम्प्रति कारणत्वेनाभ्युपगमात् / अञ्जनादिजन्यव्यवहितार्थचाक्षुषप्रत्यक्षम्प्रति चाञ्जनादिनिष्ठैव शक्तिलक्षणा योग्यता कारणमिति / किञ्च चक्षूरश्मीनां प्राप्तार्थप्रकाशकत्वाभ्युपगमे भित्त्यादेरिव स्फटिकादेरपि नेत्ररश्मिगतिप्रतिबन्धकत्वेन तद्वयवहितार्थानामप्युनुपलब्धिस्स्यात् / यदि च स्फटिकादेरतिस्वच्छत्वान्न नायनरश्मिगतिप्रतिबन्धकत्वमिति विभाव्यते, तदा प्राप्यकारित्वपक्षे तद्रश्मिगतितञ्जन्यविभागपूर्वसंयोगनाशोत्तरदेशसंयोगादिकल्पनायां गौरवाल्लाघवाच्चाक्षुषज्ञानाऽप्रतिबन्धकत्वमेव स्फटिकादेः कल्प्यताम्, एवं भित्त्यादेरपि तद्रश्मिगतिप्रतिबन्धकत्वापेक्षया लाघवाच्चाक्षुषप्रत्यक्षं प्रत्येव प्रतिबन्धकत्वं कल्पनीयम्, एतेन चक्षुः प्राप्तार्थपरिच्छेदकं व्यवहितार्थाऽप्रकाशकत्वात्, यद् यद् व्यवहितार्थाऽप्रकाशकं तत्तनन्नाप्राप्तार्थपरिच्छेदकम्, यथा प्रदीपः, व्यवहितार्थाऽप्रकाशकञ्च चक्षुः, तस्मात्, प्राप्तार्थपरिच्छेदकमिति व्योमशिवमतमपि निरस्तम्, व्यवहिताऽर्थाऽप्रकाशकत्वहेतुसिद्धयर्थं व्यवहितार्थाऽप्रकाशकत्वं चक्षुषः कथमिति कथ ताप्रश्ने तदुत्तरतया व्यवधानस्य नेत्ररश्मिगतिप्रतिबन्धकत्वं वाच्यं स्यात् कथमन्यथा व्यवहितार्थप्रत्यक्षं न स्यात् / एवञ्च सति व्यवहितार्थाऽप्रत्यक्षस्याऽव्यवहितार्थप्रत्यक्षस्य चोपपत्तये व्यवधानस्य चाक्षुषज्ञानप्रतिबन्धकत्वं तदभावकूटस्य च चाक्षुषज्ञानकारणत्वेवाभ्युपगम्यताम्, येन क्लिष्टकल्पना परिहृता स्यात्, तयोः प्रतिबध्यप्रतिबन्धकभावस्त्वेवम् - स्वप्राचीस्थपुरूषस्य विषयतासम्बन्धेन घटादिचाक्षुषप्रत्यक्षम्प्रति स्वप्रतीचीवृत्तित्वसम्बन्धेन भित्त्यादीनां प्रतिबन्धकत्वम्, एवं स्वप्रतीचीस्थः पुरूषीयघटादिसाक्षात्कारम्प्रति स्वप्राचीवृत्तित्वसम्बन्धेन तेषां तत्त्वम्, यथा स्वोदीचीस्थपुरूषीयघटादिसाक्षात्कारम्प्रति स्वदक्षिणवृत्तित्वसम्बन्धेन तेषां तत्त्वमूह्यम, यदि च तत्तन्नयनादिक्रियातत्तदुत्तरदेशादीनामेव संयोगनियामकत्वेनानतिप्रसङ्गाद्भित्त्यादीनां न प्रतिबन्धकत्वमिति मतं तदापि तत्तन्नयनोन्मीलनस्य चाक्षुषज्ञानं प्रति परम्पराकारणत्वकल्पनापेक्षया "तस्य हेतुत्वापेक्षया तद्धेतोरेव हेतुत्वम्" इति न्यायेन लाघवाच्चाक्षुषज्ञानं प्रति तस्य साक्षात्कारणत्वकल्पनमेव ज्यायः, किमनन्तसंयोगादिकल्पनया / एतेनेन्द्रियसन्निकर्षजन्यं ज्ञानं प्रत्यक्षमिति स्वसिद्धान्तसिद्धसामान्यलक्षणाऽनुगमाऽनुरोधेन प्रत्यक्षत्वावच्छिन्नम्प्रति इन्द्रिय