________________ विभाग-२ करणेन्द्रियायाख्यशक्तियोगितया चक्षुषस्तत्तद्विषयकज्ञानावरणीयकर्मक्षयोपशमसहकृतस्य विषयमप्राप्तस्याऽपि प्रत्यक्षजनकत्वसम्भवेतैजसचक्षुःकल्पनमप्यनर्थकमेव / नन्वेवं तर्हि दूरवर्तिनां मेर्वादीनामपि किमिति न प्रत्यक्षमिति चेत्, उच्यते, यस्मिन् पदार्थे ज्ञानावरणकर्मक्षयोपशमलक्षणतद्ग्रहणयोग्यत्वं तस्यैव प्रत्यक्षं भवतीत्युक्तयोग्यत्वाभावादेवेति जानीहि / अथैतद्दोषभयादाद्यपक्षोक्तद्वितीयविकल्पपक्ष एवाश्रीयत इति चेत्, तदपि न मनोरथं पूरयितुं पारयति, यतो याव्तो रश्मयो विषयसम्बन्धभाजस्तावन्तः पूर्वमपि गोलकेनाऽसम्बद्धा एवेति गोलकस्याञ्जनादिनोपकारे तत्रस्थ. रश्मय एवोपकृताः, न तु विषयसम्बन्धभाज इति तदीयाऽनुपकृतस्वभावस्य पूर्ववदविचलितस्य सत्त्वे सति न कश्चिदञ्जनादिना विशेषः / किञ्च तेऽवयवा रश्मयो यदि गोलकसंसक्तरश्मिभ्यस्सर्वथाऽसंयुक्ता एव तदा चक्षुषोऽपि नाश आपतितः, तेषां वा तदवयत्वाभावः, न ह्यवयविनः पदार्थस्यैकत्र स्थितस्यावयवानां खण्डीभूयासंयुक्तत्वेन परत्र गमने तस्य स्वरूपावस्थानं केनाप्यभ्युपगम्यते, न हि घटावयवकपालस्य परदेशगमने घटस्य स्वरूपावस्थानं पामरा अपि प्रतीयन्तीति / ननु तर्हि यथा सहस्त्रांशुरश्मयः प्रदीपरश्मयो वा तत्सम्बद्धा विषयदेशं गत्वा प्रकाशन्ते तथा नयनरश्मयोऽपीत्यर्थको द्वितीयपक्ष एवोररीक्रियत इति तेषां तत्तद्विषयं प्रति गमनस्य तत्तदर्थप्रकाशकत्वस्य चान्यथाऽनुपपत्त्याऽभ्युपगम्यमानस्य पक्ष्मपुटोन्मीलनस्य गोलकसंस्कृतेश्च तदुभयार्थत्वेन न वैयर्थ्यमिति चेत्, तदपि त्रपापात्रम्, तेषां गोलकानुषक्ततिमिररोगावयविनः प्रकाशकत्वापत्तेः, यतो न हि प्रदीपरश्मीनां स्वाधिष्ठानसंयुक्तशलाकाद्यऽप्रकाशकत्वं काचकूपिकान्तर्गतानां प्रदीपरश्मीनां ततो निर्गच्छतां काचकूपिकासम्बद्धार्थप्रकाशाजनकत्वं च दृष्टम् / अथाधिष्ठानापेक्षयाऽत्यन्तासत्यभावस्यापि कारणत्वान्नोक्तदोष इति चेत्, तर्हि गोलकसम्बद्धाञ्जनशलाकाया अग्रावच्छेदेनाप्यनुपलब्धिप्रसङ्गस्स्यात् / अथ यदंशेन तस्यास्तत्र संसर्गस्तदंसावच्छेदेनैवाप्रत्यक्षत्वम्, गोलकदेशावच्छेदेनैवाञ्जनशलाकासंसर्गस्य तत्प्रत्यक्षम्प्रति प्रतिबन्धकत्वादिति चेत्, मैवम्, प्रत्यक्षप्रतिबन्धकत्वप्रत्यक्षजनकत्वयोरेकस्मिन् वस्तुनि विरूद्धयोरपि भिन्नभिन्नदेशावच्छेदेनाविरोधं सम्पाद्यापेक्षिक योस्तयोरभ्युपगमे तद्धर्मभेदेन कथञ्चित्तदभिन्नर्मिणोऽपि भिन्नत्वं स्वस्वरूपतश्चैकत्वं स्वीकृतं स्यादिति भवतामपि स्याद्वादामृतरसास्वादप्रसङ्गस्स्यात्, स्वाद्वादतत्त्वज्ञैरपि तथैवाभ्युपगमात् / किञ्च चक्षुरश्मीनामुदीचीम्प्रति गमने तद्दिगवस्थितसन्निकृष्टपदार्थसंयोगे यथा तत्प्रत्यक्षं तथा तदिग्वर्त्तिकाञ्चनाचलोपलम्मोऽपि स्यात्, उमाभ्यां तत्संयोगाऽविशेषात् / दूरत्वदोषस्य तद्रश्मिगतिप्रतिबन्धकत्वे च निशाकरस्याप्यप्रत्यक्षत्वं स्यात् / अथ शशधरांशुभिर्नेत्ररश्मीनां वृद्धिभावात्तत्र तेषां गमनेन तत्संयोगात्तत्प्रत्यक्षमिति चेत्, तर्हि तिग्मकरांशुभिरपि तद्रश्मिवृद्धिभावाऽविशेषात्तैरप्यभिवृद्धानां तेषां सुराद्रिं प्रत्यक्षिसर्पणात् कथं न तत्प्रत्यक्षं स्यात् / अथ रविकराणां तिग्मत्वेन नेत्ररश्मीनां प्रतिघातकत्वान्न तैस्तदभिवृद्धिरतो नोक्तदोष इति चेत्, तर्हि सहस्त्रांशुकिरणव्याप्तपदार्थ