________________ सन्दर्भग्रन्थाः रूपसाक्षात्काराऽसाधारणकारणं तैजसं रसाऽव्यञ्जकत्वे सति स्फटिकाद्यन्तरितार्थचाक्षुषप्रत्यक्षजनकत्वात् प्रदीपदित्यपि निरस्तम्, अञ्जनविशेषेण व्यभिचारात् / अथाञ्जनादिभिन्नत्वे सतीति हेतौ विशेषणोपादानान्नोक्तव्यभिचार इति चेत्, तहऽप्रयोजकोऽयं हेतुः प्रत्यक्षाजनकसुवर्णादौ भवदभ्युपगततैजसत्वाख्यजातेस्सत्त्वेनातिप्रसक्तत्वात्, चक्षुःप्रदीपयोरेकया तयाऽनुगतजात्या रूपप्रत्यक्षम्प्रति कारणत्वाऽसिद्धेश्च, तम्प्रति चक्षुषः चक्षुट्वेन प्रदीपस्य च प्रदीपत्वेनैव कारणत्वाभ्युपगमात् / एतेन स्वप्नादिवञ्जनादिकं सहकृत्य मनसैव निध्यादिसाक्षात्कारः तत्र च चाक्षुषत्वारोप इत्यतो निध्यादिकं चक्षुषा साक्षात्करोमीति भ्रान्त एव प्रत्यय इत्युक्तानुमाने नाञ्जनादिना व्यभिचारः, हेतौ प्रमेति विशेषणीकृते सति प्रमात्मकचाक्षुषप्रत्यक्षाजनकत्वात्तस्य, तथा च हेतावञ्जनादिभिन्नत्वे सतीति विशेषणं न देयमित्यपिनिरस्तम्, व्यभिचारशङ्कानिवर्तकतर्काभावेनाप्रयोजकत्वादुक्तहेतोः / न च वस्तुगत्या तथाऽभ्युपगन्तुमपि शक्यम्, अञ्जनादेः पृथक्प्रमाणत्वापत्तेः, मनो यदसाधारणं सहकारिकारणं सभासाद्य बहिर्गोचरां प्रभां जनयति तस्य प्रमाणान्तरत्वनियमात् / किञ्च स्वसिद्धान्तकदाग्रहावेशेन चक्षुषि पूर्वोक्तहेतुना तेजस्त्वस्य तेन च तत्र रश्मिवत्त्वस्याऽभ्युपगमेऽपि तद्रश्मयो विषयदेशं गताः कि गोलकेनाऽसम्बद्धाः प्रत्यक्षजनकतयाऽभ्युपगम्यन्ते, किं वा सम्बद्धाः, आद्यपक्षेऽपि किं निखिला रश्मयस्तथाविद्या उत कतिपये इति विकल्पद्वयम् / तत्र नाद्यविकल्पो युक्तः, तथा सति चक्षुरपि निर्गतं स्यात्, यतोऽशेषवयवानां देशान्तरगमने तदविष्वग्भूतावयविनोऽपि तथात्वमेवं युक्तियुक्तम्, तथा च चक्षुर्विहीनस्य गोलकस्य निस्तेजस्त्वात्पुरूषाणामन्धत्वप्रसङ्गस्स्यात्। किञ्च वस्तुनि नेत्राभिमुके सत्यपि नेत्रदोषाद् यदेव पुराऽस्पष्टत्वेनाऽवभासते अञ्जनादिभिर्नियनसंस्कारे तदेवेदानीं यथाऽवस्थितस्वरूपेण स्पष्टं प्रकाशते इत्यविगानेन सर्वैरेवानुभूयते, गोलके विहितोऽञ्जनादिसंस्कारश्चक्षुश्शब्दवाच्यत्वेनाभ्युपगतानां गोलकस्थनेत्ररश्मी-नामुपकारं करोतीति तव युज्येत, सामस्त्येन विषयदेशस्थितानां तेषां प्रत्यक्षजनकत्वाभ्युपगमे तु तेषामेवाञ्जनादिना संस्कार उपयोगितामावहेत्, ते च रश्मयो गोलकाऽसंयुक्ता इति तदनधिष्ठानस्य गोलकस्य प्रत्यक्षाजनकत्वात्तत्राञ्जनादिना संस्कारस्य नैरर्थक्यमेव स्यात्, तथैव पक्ष्मपुटोन्मीलनस्यापि निरर्थकत्वमूह्यम् / यथा घटानयनकारणतनुसम्बद्धस्ते आनयनकार्याक्षमत्वापनोदाय तत्र संस्कारो विधीयमानस्साफल्यमनुभवति, न च छिन्नत्वेनासम्बद्ध तद्वयवे / अथ पूर्वं रश्मीनां नेत्रस्थत्वेन तत्राञ्जनादिसंस्कारपक्ष्मपुटोन्मीलनयोस्तद्गतिप्रयोजकत्वेन नापार्थकत्वमिति चेत्, स्यादेतद्रश्मीनां गोलकसम्बद्धत्वपक्षे, असम्बद्धत्वपक्षे तु न गोलकस्य कश्चिद्विशेषः / अथ तत्र गतानां रश्मीनां गोलके पुनरावर्तनाभ्युपगमेन नोक्तदोष इति चेत्, मैवम्, आवर्तमानानामपि तेषां गोलकासम्बद्धत्वेऽन्धत्वप्रसङ्गस्य वारयितुमशक्यत्वात् / गोलकसम्बद्धत्वे च तैर्गोलकानुषक्तकामलादिप्रत्यक्षापत्तिस्स्यात् / तदेवं खड्गधारासमानस्वच्छतरपुद्गलसमूहात्मकाऽभ्यन्तरनिर्वृत्तीन्द्रियगतोप