________________ विभाग-२ 97 जाग्रदस्वस्थायां निवृत्तं तद्भविष्यतीति चेत्, मैवम्, यथा कदाचिदात्मीयं मनः स्वप्ने मेर्वादौ गतं कश्चित् पश्यति तथा कोऽपि शरीरमात्मानमपि नन्दनतरूकुसुमावचयादि कुर्वन्तं तद्गतं पश्यति, न च तत्तथैव,इह स्थितैस्सुप्तस्य तस्यात्रैव दर्शनात्, द्वयोर्वपुयोर्द्वयोश्चात्मनोरसम्भवात्, कुसुमपरिमलाद्यध्वजनितपरिश्रमाद्यनुग्रहोपघाताभावाच्चेति / अभिहितञ्च - "सिमिणो न तहारूवो वभिचाराओ अलायचक्कं व / वभिचारो य सदसणमुवघाया-णुग्गहाभावा // 224 // इह पासुत्तो पेच्छइ सदेहमन्नत्थ, नय तओ तत्थ / न य तग्गयोवघाया-णुग्गहरूवं विबुद्धस्स // 225 // " अयम्भावः - स्वप्ने जिनस्नात्रदर्शनादिकं विज्ञानं स्वप्नानन्तरं जाग्रत्पुंसो हर्षादिकं तत्फलं भविष्यत्फलापेक्षया स्वप्नस्य निमित्तत्वञ्च तस्मात्स्वप्ननिमित्तादवश्यंभाविभविष्यंत्फल ञ्चानुभवसिद्धत्वाद्विजैर्न निवारयितुं शक्यम्, किन्तु यदेव मनसो मेरूगमनक्रियादिकं युक्त्या नोपपद्यते तदेव निषिध्यते, न त्वेतानि विज्ञानादीनि, युक्त्युपपन्नत्वात् / न चैतैरभ्स्युपगतैरपि मनसः प्राप्यकारिता काचित्सिद्धयतीति / तदेवं भावमनसो द्रव्यमनसश्च बहिश्चारिताद्यभावादप्राप्यकार्येव मन इति मनोवदिति दृष्टान्तो न साध्यविकल इति सिद्धम् / नाप्युक्तदृष्टान्तो ग्राह्यवस्तुकृतानुग्रहोपघातशून्यत्वहेतुविकलः, यतो यदि मनसो ज्ञेयेन सह सम्पर्कस्स्यात्तर्हि जल-चन्दनादिचिन्तनकाले पिपासानिवृत्तिशैत्सादिलक्षणानुग्रहः, वह्निविषयकरवालादिचिन्तनकाले च दाह-स्फोट-पाटनादिलक्षणोपघातश्च स्यात् / न च तौ भवतः, तस्मान्न साधनविकलो मनोदृष्टान्त इति तस्मिन् दृष्टान्ते गृहीतव्याप्तिकेनोक्तेहेतुना लोचनमप्राप्यकार्येव सिद्धयति / अथ चक्षुषस्तेजस्त्वेन रश्मिमयत्वात्तद्रश्मय एव निर्गत्य रविकिरणवत्तं तमर्थं संसृज्य तत्प्रत्यक्षमुपजनयन्ति, अनुद्भूतस्पर्शवत्तैजसत्वेन तेषां वह्नयादिवन्न दाहजनकत्वम्, दाहम्प्रति उद्भूतस्पर्शवत्तैजसत्वेनैव कारणत्वात्, न वा तेषां तैजसत्वेन रविरश्मीनामिव वह्यादिभिर्दाहादिरूपोपघात इति सिद्धं चक्षुषः प्राप्यकारित्वमिति चेत्, तदप्यसङ्गतमेव, चक्षुषस्तैजसत्वस्यैवाऽसिद्धः, न च चक्षुस्तैजसं रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वात् प्रदीपवदित्यनुमानात्तत्सिद्धिरिति वाच्यम्, रूपप्रत्यक्षजनके चक्षुस्संयुक्तसमवायसन्निकर्षे तैजसत्वसाध्याभाववत्युक्तहेतोस्सत्त्वेन व्यभिचारात् / तन्निवारणाय हेतौ द्रव्यत्वे सतीति विशेषणोपादानमपि न युक्तम्, भूमिनिहितनिध्यादिप्रत्यक्षजनकाऽञ्जनादिना व्यभिचारात् / ननु रूपस्यैवाभिव्यञ्जकत्वमिह रूपविषयकप्रमात्मकप्रत्यक्षजनकत्वम्, अञ्जनादिना तु निध्यादिसाक्षात्कारो न प्रमात्मक इत्यञ्जनादौ प्रमाघटितोक्तहेतोरभावान्न तत्र व्यभिचार इति चेद्, मैवम्, निध्यादिसाक्षात्कारे प्रमात्वस्य संवादिप्रवृत्तिजनकत्वहेतुना सिद्धेरूक्तहेतोर्व्यभिचारित्वात् / एतेन