________________ सन्दर्भग्रन्थाः किञ्च मनस्तावद्विधा द्रव्यमनो भावमनश्चेति, तत्र किं द्रव्यमनो भावमनो वा मेर्वादिविषयसन्निधौ गच्छेत्, न तावद्वितीयविकल्पो युक्तः, भावमनसश्चिन्ताज्ञानपरिणामरूपत्वात् तस्य च जीवादव्यतिरिक्तत्वाज्जीव एव भावमनो भवति, जीवात्मकभावमनश्च देहमात्रव्यापित्वान्न देहाद्वहिनिःसरत् प्रमाणगोचरम् / यद्देहमात्रवृत्ति न तस्य देहाद्वहिनिःसरणमुपपद्यते, द्गतरुपादिवत्, देहमात्रवृत्ति च जीवात्मकभावमनः, तस्मात्तन्नतद्बहिनिस्सरति / उक्तञ्च भाष्ये "दव्वं भावमणो वा वएज्ज जीवो य होइ भावमणो / देहव्वावित्तणओ न देहबाहिं तओ जुओ // 215 // " जीवस्य देहमात्रव्यापित्वञ्च प्रागेव निर्णीतमिति / अथैवंतर्हि द्रव्यमनो विषयदेशं व्रजतीत्यात्मकाद्यपक्षोऽस्तु, यतो बहिर्निर्गतं द्रव्यमनः प्राप्य विषयं परिच्छिनत्ति, करणत्वात्, प्रदीपमणि-चन्द्र-सूर्यादिप्रभावदिति चेत्, सोऽपि पक्षोन युक्तः, यतः करणं द्विधा भवति, शरीरगतमन्तःकरणम्, तद्बहिर्भूतं बाह्यकरणञ्च, तत्रेदं द्रव्यमनोऽन्तःकरणमेवात्मनः, ततो यदन्तःकरणं तच्छरीरस्थमेव विषयं परिच्छिनत्ति, स्पर्शनवत्, अन्तःकरणञ्च द्रव्यमनः, प्रदीप-मणि-चन्द्रप्रभादिकं तु बाह्यकरणमात्मन इति साधनविकलो दृष्टान्तः / ननु शरीरस्थमपि मूर्त्तत्वेन सक्रियत्वात्पद्मनालतनतुन्यायेन तद्बहिनिस्सरतु, कोऽत्र दोष इति चेत्, तर्हि स्पर्शनेन्द्रियादेरपि तद्वदेव बहिनिर्गमनप्रसङ्गात्, तस्माद् यदन्तःकरणं तच्छरीराबहिर्न निर्गच्छति स्पर्शनेन्द्रियादिवदित्यभ्युपगन्तव्यम, युक्तञ्चैतत् अनन्तसंयोगाद्यऽकल्पनलाघावत् / सुखदुःखादिसाक्षात्कारोऽपि न मनस्संयुक्त समवायादिसन्निकर्षात्, येन मनसः प्राप्यकारित्वं स्यात्, समवायस्स पूर्वमेव निरासकरणात्, किन्तु मनस्सहकृततदावरणीय कर्मक्षयोपशमलक्षणयोग्यतावशादेवेति / अभिहितञ्च भाष्ये.. "अह करणभावओ तस्स तेण जीवो वियाणेज्जा // 217 // करणत्तणओ तणुसंठिएण जाणिज्ज फरिसणेणं व / एत्तोच्चिय हेऊओ न नीइ बार्हि फरिसणं व // 218 // " इति ननु जाग्रदवस्थायां मा भूद् मनसो विषयप्राप्तिः, स्वापावस्थायां तु भवत्वसौ, अनुभवसिद्धत्वाद, तथाहि - "अमुत्र मेरूशिखरदिगतजिनायतनादौ मदीयं मनो गतम्" इति सुप्तैः स्वप्नेऽनुभूयत एवेति मनसः प्राप्यकारित्वमेवेति चेत्, मैवम्, उक्तानुभवस्य भ्रान्तिरूपत्वात्, वृत्ताकारतया भ्रम्यमाणालातचक्रानुभववत् तद्विवयस्याऽसत्यत्वात्, तथाहि - यथोल्मुकं वृत्ताकारतयाऽऽशु भ्रम्यमाणं भ्रान्तिवशादचक्रमपि चक्रतया प्रतिभासामानं न सत्यम्, अचक्ररूपताया एव तत्रावितथत्वात्, भ्रमणोपरमे स्वभावस्थस्य तथैव दर्शनात् / एवं स्वप्नानुभवोपलब्धं मनोमेरूगमनादिकमपि वस्तु न सत्यम्, स्वप्नोपरमे तदभावात्, तदभावश्च जाग्रंदवस्थायां देहस्थस्यैव मनसोऽनुभूयमानत्वादिति / ननु स्वप्नावस्थायां मेर्वादौ गत्वा