________________ विभाग-२ सर्वार्थान् प्रत्यविशिष्टत्वादिति बौद्धमतमपि निरस्तम्, अर्थोत्पत्तिमन्तरेणाप्यावरणक्षयोपशमलक्षणया योग्यतयैव प्रतिनियतार्थप्रकाशकत्वोपपत्तेः, अर्थाद् ज्ञानोत्पत्तावपि च कारणीभूता ताद्दश योग्यताऽवश्यमाणश्रयणीया, अन्यथाऽशेषार्थसान्निध्येऽपि कुतश्चिदेवार्थात् कस्याचिदेव ज्ञानस्य जन्मेति कौतस्कुतोऽयं विभाग इति / यदि च चक्षुषः प्राप्तार्थप्रकाशकत्वं स्यात्तर्हि वह्निखड्गाद्यर्थेन सहसंयोगे तस्य दाहच्छेदापत्तिस्स्याद्, हस्तादेरिव, जलादिसंयोगे च शीतत्वं स्यात्, ननु मुहुर्मुहुस्सूर्यकिरणजलावलोकने दाहशैत्ये अपि भवत एवेतीष्टापत्त्या ततश्चक्षुषः प्राप्यकारित्वमेव सिद्धयतीति चेत्, मैवम्, यतश्चक्षुस्स्वयमुप्लुत्यादित्यमण्डलादिसमाक्रान्तप्रदेशं गत्वा समाश्लिष्य न रुपं परिच्छिनत्ति, किन्तु रविकिरणादिकमेव चक्षुर्देशमागच्छतीत्येतावन्मात्रेणैव दाहलक्षणोपघातोपपत्तेः, शीतलजल-धृत-चन्द्राद्यवलोकने तु "मणेज्जअणुग्गहं पिव उवधायाभावओ सोम्म" इत्युक्तेर्दाहलक्षणोपघाताभावत एव शैत्यलक्षणानुग्रह उपचर्यत इत्युपचरितस्यैवंतस्य सद्भावाच्च / यच्च चक्षुर्देशं स्वतः प्राप्तेन मूर्तिमता चन्द्रकिरणेनेन्द्रनीलमणिकिरणेन च वस्तुगत्या शैत्यं भवति, तदपि चक्षुषस्तत्र गमनाभावेन सम्बद्धार्थग्राहकत्वाभावाद् विषयदेशमप्राप्तेनापि तेन रुपपरिच्छेदोपपत्तेश्च न तदऽप्राप्यकारित्वक्षतिमाहवति, यदि स्वत एव चक्षुरर्थेन सह संयुज्य तत्प्रत्यक्षं जनयेत्तर्हि चक्षुषस्सूर्यमरीचिदर्शनादुपघातो यथा तथा करवालदर्शनादपि स स्यात्, न चैवं भवतीति चक्षुप्राप्तार्थप्रत्यक्षं करोतीति सिद्धम् / तदिदमुक्तं भाष्यकृता - "लोअणमपत्तविसयं मणोव्वजमणुग्गहाइसुन्नंत्ति / " अनेन भाष्यगाथापूर्वार्द्धन लोचनमप्राप्तग्राह्यार्थविषयक बोधजनकं ग्राह्यवस्तुकृतानुग्रहोपघातशून्यत्वात् मनोवदित्यनुमानं प्रदर्शितम् / अत एवाग्रे “गन्तुं न रुवदेसं पासई" इत्युक्तम् / अथ जाग्रदवस्थायां स्वप्नावस्थायां वा देहान्मनो निर्गत्य मेरुशिखरस्थजिनप्रतिमादिना ज्ञेयेन संश्लिष्यते, लोकेऽप्यनुभवसिद्धमेतत् यतस्तत्रापि वक्तारो वदन्ति - अमुत्र मे मनो गतमिति, अतो मनसः प्राप्यकारित्वान्मनोवदिति दृष्टान्तस्साध्यविकल इति, तदुक्तं पूर्वपक्षमाशङ्कय भाष्ये "गंतुं नेएण मणो संबज्झइ जग्गाओ व सिमिणे वा / सिद्धमिदं लोयम्मि वि अमुगत्थगओ मणो मेत्ति // 213 // " इति चेत्, उच्यते समाधिः - "मनो न ज्ञेयेन सह संश्लिष्यते ज्ञेयकृतानुग्रहोपघाताभावात् लोचनवत्" इतरथा तोयचन्दनादिचिन्तनकाले स्पर्शनेन्द्रियवन्मनोऽप्यनुगृह्येत, दहन-विषशस्त्रादिचिन्तनसमये च तद्वदेवोपहन्येत, न चैवम्, तस्माल्लोचनवदप्राप्यकार्येव मनः / अमुत्र मे मनो गतमिति तुभ्रान्तिरेव / उक्तञ्चोत्तरपक्षमाश्रित्य भाष्ये "नाणुग्गहो-वघायाभावाओ लोयणं व सो इहरा / तोय-जलणाइचिन्तणकाले जुज्जेज्ज दोहिं पि // 214 // "