________________ सन्दर्भग्रन्थाः नित्यत्वादिना सुखादेरचेतनत्वप्रसाधनं सांख्यस्य चानिषिद्धं भवेत् बौद्धाभ्युपगतेनानुमानेनोत्पत्त्यादिना च तेनापि स्वाभिप्रेतसाध्यस्य साधयितुं शक्यत्वात् / यश्च बाणादेरागतस्य ग्रहणेऽपि दूरादिव्यवहारं प्रतिपद्यते पर: स कथं तत एव त्वदीयं साध्यं प्रतिपद्येत ? यदि च स्वोत्पत्तिदेशस्थ एव शब्दः श्रोत्रेण गृह्येत नागतस्तहि कथमनुवाते शब्दस्य तद्देशोत्पत्तिकस्यैव श्रवणम् प्रतिवातेऽश्रवणम् मन्दवाते मनाक् श्रवणं भवेत् ? न च प्रतिकूलवातेन शब्दस्य नाशितत्वात् श्रोत्रस्य वाभिहतत्वान्न श्रवणं शब्दविनाशे अनुकूलवातस्थस्यापि तदश्रवणप्रसक्तेः / शब्दस्य विनष्टत्वात् व्यवहितदेशस्थस्य च तस्य श्रोत्राभिघातहेतुत्वानुपपत्तेः अन्यथा भस्त्रादिव्यवस्थितस्यापि तस्य तदुपघातकत्वं स्यात् / अनुकूलवातेन तस्य तं प्रति प्रेरणात् तेन तच्छ्रवणे 'प्राप्तः शब्दः श्रूयते' इति प्राप्तम् तथापि तत्र दूरादिव्यवहारे न श्रोत्रमप्राप्तप्रकाशकमतः सिध्यतीति कथं न व्यतिरेकी हेतुः ? न च 'चक्षुः'शब्देन नायनरश्म्यभिधानादत्यासन्नप्रकाशकत्वाच्च तेषाम् 'अत्यासन्नाप्रकाशकत्वात्' इति हेतुरसिद्धः तेषां प्रत्यक्षादिप्रमाणाविषयत्वेन सद्भावासिद्धेरिति प्रतिपादनात् / तदसिद्धतादिदोषविकलादतो हेतोरप्राप्तार्थप्रकाशकत्वं चक्षुषः सिद्धमिति 'स्त्वं पुण पासइ अपुढे तु' इति न युक्तिविकलं वचः तदेवमिन्द्रियार्थसन्निकर्षोत्पन्नत्वं प्रत्यक्षस्यासिद्धम् / . सम्मति एतेनेन्द्रियसन्निकर्षोत्पन्नं प्रत्यक्षमिति प्रत्यक्षलक्षणभावात् पूर्वं व्यवसायात्मकज्ञानेन सहेन्द्रियसन्निकर्षस्याभावात्कथं तत्प्रत्यक्षमित्यपि निरस्तम्, चक्षुषः प्राप्यकारित्वाऽसिद्धेस्तस्याऽर्थेन सह सन्निकर्षाभावाच्चाक्षुषसंवेदने तस्य लक्षणस्याऽघटमानत्वेनाऽव्यापकत्वात्, तथाहि चक्षुरप्राप्तार्थप्रकाशकं अधिष्ठानाऽसम्बद्धार्थग्राहकेन्द्रियत्वात् मनोवदित्यनुमानेन चक्षुषोऽप्राप्तार्थप्रकाशकत्वे सिद्धे तस्यार्थेन सन्निकर्षाभावेऽपि प्रत्यक्षज्ञानोत्पादकत्वसिद्धयोक्तलक्षणमव्याप्तिदोषसंवलितत्वान्नयुक्तम्, न च चक्षुषोऽसन्निकृष्टार्थप्रत्यक्षजनकत्वे प्रत्यक्षस्य प्रतिनियतविषयकत्वं न स्यादिति स्वजनकसन्निकर्षाश्रयत्वं प्रत्यक्षविषयत्वे तन्त्रं वाच्यमिति चक्षुषोऽर्थेन सह सन्निकर्षः प्रत्यक्षविषयत्वप्रयोजकोऽवश्यमभ्युपगन्तव्य इति नोक्तलक्षणमव्यापकमिति वाच्यम्, तत्तत्प्रतिनियतविषयत्वे स्वावरणकर्मक्षयोपशमादिलक्षणयोग्यताया एव तन्त्रत्वात्, तथा च प्रत्यक्षज्ञानस्य यद्विषयत्वावच्छेदेन साऽऽविर्भवति तद्विषयकत्वमेव भवति, नान्यविषयकत्वम्, एवं विषयस्यापि स्वावच्छेद्याविभूतावरण कर्मक्षयोपशमादिलक्षणयोग्यताविशिष्टं जन्यतासम्बन्धेन यज्झानं तद्विषयत्वमेव, नान्यज्ञानविषयत्वमित्युक्तं प्राक् ए अत एव परोक्षज्ञानस्यार्थसन्निकर्षाद्यऽजन्यतया परेणाभिप्रेतस्य प्रतिनियतविषयकत्व व्यवस्थोपपत्तिस्सङ्गच्छते / एतेनार्थाजन्यत्वे ज्ञानस्य कथं प्रतिकर्मव्यवस्था ? तदुत्पत्तितदाकारताभ्यां हि सोपपद्यते, अर्थाऽनुत्पन्नस्यातदाकारस्य च ज्ञानस्य