________________ विभाग-२ घटेन संयोग एव युतसिद्धत्वात् द्रव्यसमवेतानां गुणादीनां संयुक्तसमवाय एव" इत्यादि षोढा सन्निकर्षप्रतिपादनमयुक्तम् संयोग-समवायविशेषणविशेष्यभावसम्बन्धानामभावेन तदनुपपत्तेः संयोगादेश्चाभावः प्रतिपादित एव यथावसरमिति न पुनः प्रतिपाद्यते / अथ यथाऽस्माकं चक्षुषः प्राप्तार्थप्रकाशकत्वं प्रमाणाभावान्न सिद्धं तथा भवतोऽप्यप्राप्तार्थप्रकाशकत्वं तस्य तत एव न सिद्धमिति कथम् "स्त्वं पुण पासइ अपुढे तु" (आवश्यकनि० गा० 5) इत्यभिधानं युक्तिसङ्गतम्, न; तस्याप्राप्तार्थप्रकाशने अनुमानसद्भावात् / तथाहि-अप्राप्तार्थप्रकाशकं चक्षुः, अत्यासन्नार्थाप्रकाशकत्वात्, यत् पुनः प्राप्तार्थप्रकाशकं तदत्यासन्नप्रकाशकमुपलब्धम् यथा श्रोत्रादि अत्यासन्नार्थाप्रकाशकं च चक्षुस्तस्मादप्राप्तार्थप्रकाशकमिति व्यतिरेकी हेतुः / न चायमसिद्धो हेतुः गोलकस्थस्य कामलादेः पक्ष्मपुटगतस्य चाञ्जनादेस्तेनाप्रकाशनात् कथमन्यथा दर्पणादेः परोपदेशस्य वा तत्प्रतिपत्त्यर्थमुपादानं भवेत् ? अथ साध्यनिवृत्तौ नियमेन यतः साधनं निवर्तते स वैधर्म्यदृष्टान्तः जीवच्छरीरस्य सात्मकत्वे साध्ये घट इव आत्मशरीरसंयोगविशेषे सात्मकत्वे निवर्तमाने नियमेन ततः प्राणादिमत्त्वनिवृत्तेः / न च श्रोत्रादेप्राप्तार्थप्रकाशकत्वे निवर्तमानेऽत्यासन्नार्थाप्रकाशकत्वं नियमेन व्यावर्तते चक्षुष इव तस्याप्यत्यासन्नार्थाप्रकाशकत्वात् ततो नायं व्यतिरेकी हेतुः, न; कर्णशष्कुलीप्रविष्टमशकादिशब्दस्य तेन प्रकाशनात् स्पर्शनादौ त्वविवाद एव / “चक्षुः-श्रोत्र-मनसामप्राप्तार्थकारित्वम्" इति वचनादप्राप्तार्थप्रकाशकं श्रोत्रमिति न साध्यनिवृत्तौ साधननिवृत्तिस्तत इति नायं व्यतिरेकी हेतुरिति सौगतः, यथा सर्वगतात्मपक्षे सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति हेतुः, न; अप्राप्तकारित्वे श्रोत्रस्य चक्षुष इवात्यासन्नविषयप्रकाशकत्वं न स्यादिति मशकादिशब्दस्य प्राप्तस्य प्रत्यक्षतः प्रकाशकत्वेन प्रतीयमानस्याप्राप्तार्थप्रकाशकत्वं तस्याध्यक्ष-बाधितम् अग्नावनुष्णत्ववत् / अथ 'दूरे शब्दो निकटे शब्दः' इति प्रतीते: प्राप्तार्थाप्रकाशकम् प्राप्तार्थप्रकाशकं च श्रोत्रमिष्यते, न सदेतत्; यतः साकारज्ञानपक्षेऽनाकारज्ञानपक्षे वाऽयमभ्युपगम इति वाच्यम् ? न तावत् प्रथमः पक्षः शब्दाकारस्य ज्ञानगतस्यावभासे दूरनिकटव्यवहारानुपपत्तेः अन्यथा स्वसंवेदनाकारेऽपि तत्प्रसक्तिर्भवेदिति सर्वत्रासन्नदूरव्यवहारोऽघटमानक: स्यात् / अथाकाराधायकस्यासन्नादित्वात् तद्व्यवहारस्तर्हि परपक्षेऽप्येतदुत्तरं समानं भवेदिति किं तत्प्रतिक्षेपः ? शक्यं हि परेणाप्येवमभिधातुम् कर्णशष्कुल्यनुप्रविष्टस्य शब्दस्य ग्रहणेऽपि तत्प्रथमकारणस्य दूरत्वाद् दूरव्यवहारो विपर्ययाच्च विपर्यय इति / द्वितीयपक्षस्त्वयुक्तः सौगतस्यानभिमतत्वात् / अथ परापेक्षयाऽप्राप्तार्थप्रकाशकं श्रोत्रमित्यभिधीयते दूरादिव्यवहारात् तद्विषये चक्षुर्वदिति, न; एवं परसिद्धनानुमानेन प्रमाणेतरसामान्यव्यवस्थादेश्चार्वाकस्योत्पत्त्य