________________ सन्दर्भग्रन्थाः प्राप्त्यभावेऽपि नातिव्यवहितमतिसन्निकृष्टं वा तद्रूपं प्रकाशयतीति सर्वत्र योग्यतैवाश्रयणीया नापरं सम्बन्धप्रकल्पनेन कृत्यम् 'रश्मयो वा कुतो न लोकान्तमुपयान्ति' ? इति प्रेरणायां परेणाप्ययोग्यतैव तत्र इतरत्र तु योग्यता प्रतिविधानत्वेन वक्तव्या / तथा, यस्य कारणाद् भिन्नमेव कार्यं तस्य भेदाविशेषात् सर्वं सर्वस्मात् कुतो नोत्पद्यत इति चोद्ये योग्यतातो नापरमुत्तरमिति सैवात्राप्यभ्युपगमनीया / किञ्च, यदि प्राप्तार्थप्रकाशकं चक्षुः स्फटिकाद्यन्तरितवस्तुप्रकाशकं न स्यात् तद्रश्मीनां विषयं प्रतिगच्छतां स्फटिकादिना प्रतिबन्धात् / न च तैस्तस्य ध्वस्तत्वादयमदोषः तव्यवहितवस्तुदर्शनसमये स्फटिकादेर्व्यवधायकस्यादर्शनप्रसङ्गात् तदुपरि व्यवस्थापितस्य चाधारविनाशात् पातप्रसक्तेश्च न हि परमाणवो दृश्याः कस्यचिदाधारभूता वा अवयविकल्पनावैयर्थ्यप्रसक्तेः / अन्यस्यावयविन आशूत्पत्तेरदोषश्चेत्, न; तदा तद्व्यवहितस्यादर्शनप्रसक्तेः / तथा च यदा व्यवधायकदर्शनं न तदा व्यवहितदर्शनम् यदा च व्यवहितदर्शनं न तदा व्यवधायकदर्शनमिति प्रसज्येत / न चैवम् युगपद् द्वयोर्दर्शनात् / अथाशूत्पत्तेर्निरन्तरं व्यवहितप्रतिपत्तिविभ्रमस्तर्हि तदभावस्यापि आशुवृत्तेरभावप्रतिपत्तिविभ्रमस्तथा किं न भवेत् ? भावपक्षस्य बलीयस्त्वादिति चेत्, न; भावाभावयोः परस्परं स्वकार्यकरणं प्रत्यविशेषात् / किञ्च, कलुषजलाद्यावृतस्यार्थस्य किं न ते प्रकाशकाः स्फटिकादेरिव जलादेरपि भेदे तेषां सामर्थ्याप्रतिघातात् ? न च जलेन ते प्रतिहन्यन्ते स्वच्छजलेनापि तेषां प्रतिघातात् तद्वयंवहितस्याप्यप्रकाशनप्रसङ्गात् / अथ तेषां तत्र प्रकाशनयोग्यता तर्हि तत एव तेऽप्राप्तमप्यर्थं प्रकाशयिष्यन्तीति व्यर्थं संयुक्तसमवायादिसन्निकर्षप्रकल्पनम् / अपि च, समवायसम्बन्धनिषेधे चक्षुषो घटरूपेण संयुक्तसमवायप्रतिबन्धस्याभावात् तद्रूपाप्रकाशकत्वात् कथं नासिद्धो हेतुः 'रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात्' इति ? अथ 'इह तन्तुषु पटः' इति बुद्धिः सम्बन्धनिबन्धना तबुद्धित्वात् ‘इह कुण्डे दधि' इति बुद्धिवत् इत्यतोऽनुमानात् समवायसिद्धेः न संयुक्तसमवायसम्बन्धाभावः, न; 'इह' बुद्ध्या सम्बन्धमात्रसाधने घटतद्रूपयोः कथञ्चित्तादात्म्यसम्बन्धाभ्युपगमात् सिद्धसाध्यताप्रसङ्गात् / अथ कथञ्चित्तादात्म्यसम्बन्धः तद्बुद्धिनिमित्तत्वेन न प्रतिपन्न इति कथमतोऽसौ साध्यस्तहि समवायेऽप्येतत् समानम् / तथापि ततस्तत्साधनेऽन्यत्र कः प्रद्वेषः ? अथ घटतद्रूपयोः कथञ्चित्तादात्म्यसम्बन्धो विरोधान्नेष्यते तर्हि भावाभावयोः कथञ्चित्तादात्म्याभावे समवायादेरसम्भवादसम्बन्धः स्यात् तथा च अभावेनाक्षाणां सन्निकर्षाभावान्नाक्षतस्तत्प्रतिपत्ति: स्यात् / विशेषणविशेष्यभावस्य भावाभावयोः सम्बन्धस्य भावान्नायं दोष इति चेत्, न; भावाभावाभ्यां तस्यानर्थान्तरत्वे तावेव स एव वा स्यात् / अर्थान्तरत्वे भावाभावयोः सद्भावेऽपि न विशेषणविशेष्यरूपता ताभ्यां तस्यासम्बन्धात् सम्बन्धे वा ताभ्यां तस्यापरेण सम्बन्धनिमित्तेन विशेषणविशेष्यभावेन भवितव्यम् / तस्यापि सम्बन्धनिमित्तेनापरेण तेनेत्यनवस्था भवेत् / तस्मात् कथञ्चित् तयोस्तादात्म्यमभ्युपगन्तव्यम् / अन्यथाऽभावस्याध्यक्षप्रमाणग्राह्यता न भवेत् / तदेवं समवायासिद्धर्नाक्षस्य रूपेण सम्बन्ध इति न तेन तस्य ग्रहणं परपक्षे भवेदिति "चक्षुषो