________________ विभाग-२ भवेत् अन्यथा न प्रदीपोऽपि तैजस: स्यात् तज्जनकत्वाविशेषात् तयोः / न चान्यदा प्रदीपस्यैव रूपप्रकाशकत्वोपलब्धेः स एव तदापि प्रकाशकोऽन्यदाऽप्यञ्जनादिसंस्कृतचक्षुषां तदभावेऽपि रूपदर्शनसद्भावात् तस्य तत्प्रकाशकत्वासिद्धेः / अथ तस्मिन् सति कदाचित् कस्यचित् रूपदर्शनात् तस्य तत्प्रदर्शकत्वं तर्हि नक्तञ्चराणां सन्तमसे रूपदर्शनात् तदभावे च तदभावात् हेतुफलभावस्य सर्वत्र तन्निबन्धनत्वात् तमोऽपि रूपप्रकाशकत्वात् प्रदीपवत् तैजसं भवेत् / अन्यथा हेतोरनेनैव व्यभिचारः स्यात् / आलोकाभाव एव तम इति चेत्, न; आलोकस्यापि तमोऽभावरूपताप्रसक्तेः / आलोकस्य तरतमादिरूपतयोपलम्भात् नाभावरूपतेति चेत् न, तमस्यप्यस्य समानत्वात् / यथा चालोकः प्रतिभासविषयस्तथा तमोऽपि तद्विषयः / न चालोकप्रतिभासाभाव एव तमःप्रतिभास: इतरत्राप्यस्य समानत्वात् / न च चक्षुर्व्यापाराभावेऽपि तत्प्रतिभाससंवेदनादालोकप्रतिभासाभाव एव तमःप्रतिभासः प्रतिनियतसामग्रीप्रभवविज्ञानावभासित्वात् प्रतिनियतभावानां तमसस्तदतत्प्रभवविज्ञानावभासित्वात् आलोकस्य च तद्विपर्ययात् यद्वा आलोकस्याप्यचक्षुर्जे सत्यस्वप्नज्ञाने प्रतिभासनात् तमोज्ञानाभावरूपता भवेत् / अथालोकस्य रूपप्रतिपत्तौ हेतुभावान्नाभावरूपता तर्हि तमसोऽपि नक्तंचररूपप्रतिपत्तौ हेतुभावो विद्यत इति नाभावरूपता भवेत् / तदेवमालोकस्य वस्तुत्वे तमसोऽपि तदस्त्विति तेन हेतोर्व्यभिचारः / भवतु वा आलोकाभाव एव तमस्तथापि व्यभिचारापरिहारः तदभावस्यातैजसस्यापि तत्प्रकाशकत्वात् / अथ तमोऽभावेऽपि रूपदर्शनान्न तस्य तत्प्रकाशकत्वं तर्हि नक्तञ्चराणामालोकाभावेऽपि रूपदर्शनादालोकस्यापि न तत्प्रकाशकत्वं भवेत् / अथास्मदादीनां किमित्यालोकाभावे रूपदर्शनं न भवति ? भवत्येव कथमन्यथान्धकारसाक्षात्कारणम् ? घटरूपदर्शनं किं नेति चेत् बहलतमोव्यवधानात् तीव्रालोकतिरोहिताल्परूपवत् / प्रदीपोपादानं तु तस्य व्यवच्छेदार्थम् / अत एवान्यत्रोक्तम् "तमोनिरोधे वीक्षन्ते तमसानावृत्तं (वृतं ) परम् / घटादिकम्" इत्यादि / प्रदीपस्य च घटरूपव्यवधायकतमोऽपनेतृत्वे 'तैजसं चक्षू रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपवत्' इति साधनविकलत्वाद् दृष्टान्तस्य निरस्तं द्रष्टव्यम् / न चान्यत एव तस्य रश्मयः सिद्धाः केवलमनेन प्राप्तार्थप्रकाशकत्वं तेषां साध्यत इति वक्तव्यम् तत्सद्भावप्रतिपादकस्य प्रमाणस्याभावात् / अथ यद्यप्राप्तार्थप्रकाशकं चक्षुः अविशेषेण सर्वं प्रकाशयेत्, न; भावानां नियतशक्तित्वात् / यतो य एव यत्र योग्यः स एव तत् प्रकाशयति अन्यथा संयुक्तसमवायाविशेषाच्चक्षुर्यथा कुवलयरूपं प्रकाशयति तथा तद्गन्धमपि प्रकाशयेत् तथा चेन्द्रियान्तरवैफल्यम् / अथ योग्यताऽभावान्न तत् तद्गन्धमवभासयति तर्हि योग्यताऽभावात्