________________ 90 सन्दर्भग्रन्थाः तैजसत्वं परं प्रति सिद्धमिति तत्साधनविकलता तदपेक्षया दृष्टान्तदोषः / न च रश्मिवत्त्वाद् बिडाललोचनस्य तैजसत्वं सिद्धम् मण्यादीनामपि तत्प्रसक्तेः / न च रश्मिवत्त्वान्मण्यादीनामपि तैजसत्वम् मूलोष्णप्रभाया एव तैजसत्वात् अन्यथा तरुणतरुकिसलयानामपि तैजसत्वं स्यात् / न च नारीनयनानां तेजसत्वं सिद्धमित्यसिद्धो हेतुः / न च रश्मिवत्त्वादेव तेषां तत् साध्यते इतरेतराश्रयदोषप्रसक्ते:सिद्धे भास्वरप्रभावत्त्वे तैजसत्वसिद्धिस्ततश्च भास्वरप्रभावत्त्वसिद्धिरिति कथं नेतरेतराश्रयदोषः ? अथ तैजसं चक्षू रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपवदित्यतोऽनुमानात् तैजसत्वसिद्धेर्नेतरेतराश्रयदोषः / नन्वत्र भास्वररूपोष्णस्पर्शतेजोद्रव्यसमवेतगोलकस्वभावं कार्यद्रव्यं यदि 'चक्षुः'शब्दवाच्यं तस्य तैजसत्वसाधने अध्यक्षविरोधः तद्विपरीतरूपस्पर्शाधारतयाऽध्यक्षतः प्रतिपत्तेः / तथाहि-अबलापारावतबलीवर्दादीनां चक्षुषो धवललोहित-नीलरूपतयोष्णस्पर्शविकलतया चाध्यक्षतः प्रतिपत्तिः सिद्धैव / न च गोलकव्यतिरिक्तं चक्षुस्तद्ग्राहकप्रमाणाभावात् सिद्धमित्याश्रयासिद्धः स्वरूपासिद्धश्च, रूपस्यैव प्रकाशकत्वादिति हेतुरनैकान्तिकश्च तुहिनकरनिकरेण तस्य रूपस्यैव प्रकाशकत्वेऽप्यतैजसत्वात् / न चास्यापि पक्षीकरणाददोषः व्यभिचारविषयस्य पक्षीकरणादैकान्तिकत्वे सर्वत्रानैकान्तिकहेत्वभावप्रसक्तेः / न चैवं जलानलयोर्विशेषगुणसङ्कराद् भेदः सिध्येत् / न च तन्निकरान्तर्गतं तेजस्तत्रापि रूपप्रकाशकमिति न व्यभिचारः प्रदीपेऽप्यन्यस्य तदन्तर्गतस्य तत्प्रकाशकस्य प्रकल्पनात् दृष्टान्तासिद्धिप्रसक्तेः / प्रत्यक्षबाधोभयंत्र चक्षूरूपसम्बन्धेन प्रकाशकेन च व्यभिचारः / न चासौ रसादेरपि प्रकाशक: इन्द्रियान्तरपरिकल्पनावैफल्यप्रसक्तेः / रूपप्रकाशकत्वं च रूपज्ञानजनकत्वम् तच्च नीलरूपेऽपि विद्यते अन्यथा “अर्थवत् प्रमाणम्' (वात्स्या०भा०पृ०१) इत्यत्रार्थसहकारित्वं तस्य न स्यादिति तेन व्यभिचारः / अथ द्रव्यत्वे सति करणस्य रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वादिति विशेषणान्न सम्बन्धरूपाभ्यामनेकान्तः / ननु यथा सम्बन्धा-देद्रव्यादेरप्यतैजसस्य रूपज्ञानजननं तथा चक्षुषोऽपि किं न स्यात् ? न च 'अदर्शनात्' इत्युत्तरम् असर्वदर्शिदर्शननिवृत्तेर्भावानिवर्तकत्वात् / प्रदीपवदिति दृष्टान्तस्यापि रूपप्रकाशकत्वासिद्धेः साधन-विकलता दृष्टान्तस्य / न च प्रदीपे सति प्रतिनियतप्राणिनां रूपदर्शनसम्भवात् तस्य रूपप्रकाशकत्वम् अञ्जनादिसंस्कृतचक्षुषां तदभावेऽपि रूपदर्शनसद्भावात्। न च यदन्तरेणापि यद् भवति तत् तत्कार्यम् इतरत् तत्कारणम्, अन्वयव्यतिरेकनिबन्धनत्वात् तद्भावस्य / अथ प्रदीपे सति यद् दर्शनं तत् तद्भावे न भवति यत्तु तदभावे भवति न तत् तत्रापि तत्सदृशम् / न चान्यस्य व्यभिचारे अन्यस्यासौ अतिप्रसङ्गात्, असदेतत्; यतो यादृशमेव रूपदर्शनमालोके संस्कृतचक्षुषाम् तदभावेऽपि तादृशमेव तद्भेदानवधारणात् / तथा हि तद्भेदकल्पने न किञ्चित् कस्यचिद् वस्तुनः सदृशमिति सौगतमतानुप्रवेशः स्यात् / रूपप्रदीपयोश्च सहोत्पन्नयोर्युगपद्दर्शने प्रदीपवत् रूपस्यापि प्रदीपप्रकाशकत्वाद् रूपं तैजसं